________________
११३]
प्रथमः प्रत्यक्षप्रस्तावः स्फुटमेव प्रत्यक्षवैसंदृश्यं परोक्षस्य प्रतिपादितम् 'अन्यच्छ्रतम्' इति । तत्र 'अन्यत्' इत्यनेन प्रत्यक्षविजातीयत्वस्य प्रतिपादनात् । प्रत्यक्षमेव पैरोक्षलक्षणबलेन किन्न लक्ष्यत इति चेत् ; न ; विशेषाभावात् । कः पुनरत्र विशेषो यत्प्रत्यक्षलक्षणबलेन परोक्षं तल्लक्षणबलेन वा प्रत्यक्षं लक्ष्यत इति ? प्रत्युत प्रत्यक्षमेव प्रथमं लक्षयितव्यं तत्पूर्वकत्वेन परोक्षस्यैव पश्चाल्लक्षणोपपत्तेः । अत इदमुच्यते 'प्रत्यक्षलक्षणम्' इत्यादि । लक्ष्यतेऽनेनेति लक्षणम् , प्रत्यक्षस्य लक्षणं [प्रत्यक्ष] ५ लक्षणं तत् प्रत्यक्षस्यैव स्वरूपम् , असाधारणेनं स्वरूपेणैव भावानां लक्षणसम्भवात् । अत एव तेषु स्खलक्षणप्रसिद्धिः । तत् प्राहुः । कीदृशम् ? 'स्पष्टम्' इति ।
__किं पुनरिदं स्पष्टत्वं नाम ? साक्षात्करणमिति चेत् ; तदपि दुरवबोधम् । आलोकपरिकलितत्वेन ग्रहणमिति चेत् ; न; अतिव्यापकत्वात् , पावकानुमानेऽपि भावात् , आलोकालिङ्गितस्य पर्वते पाव कस्यानुमानात्प्रतिपत्तेः । अव्यापकत्वाच्च रसादिप्रत्यक्षेषु, अन्धकारान्तरितरूप- १० गोचरनक्तञ्चरादिप्रत्यक्षेष्वर्पि अविद्यमानत्वात् ।
__ 'अव्यवहितग्रहणम्' इत्यपि तादृशमेव ; काचादिव्यवहितरूपदर्शनदशायामभावात् । व्यवधायकमेव काचादिकं न भवति वस्तुप्रणप्रतिबंन्धाभावात्, तत्प्रतिबन्धेन हि व्यवधायकत्वं" नान्यथेति चेत् ; किमिदानी व्यवधानोपाधिकं वस्तुग्रहणमेव नास्ति ? तथा चेत् ; तद्ब्रहणमेवे' साक्षात्करणमिति वक्तव्यं किमव्यवहितविशेषणेन व्यवच्छेद्याभावात् ? न चेदमुचितम् ; १५ अनन्तरमेव निरूपणात् । व्यवधानोपाधिकवस्तुग्रहणसम्भवे तु सिद्धं काचादेरपि व्यवधायकत्वमिति कथं नाव्यापकत्वं साक्षात्करणलक्षणस्य ? काचाद्यन्तरितवस्तुग्रहणस्य 'प्रत्यक्षत्वेऽप्यव्यवहितग्रहणस्याभावात् । प्रत्यक्षमपि तन्न भवति व्यवहितग्रहणत्वादिति चेत् ; न; सर्वज्ञविज्ञानस्यापि काचाद्यन्तरितवस्तुमाहिणः प्रत्यक्षत्वाभावप्रसङ्गात् , तदाहित्वेन सर्वज्ञत्वाभावापत्तेः। सत्यप्यन्तर्धाने वस्तुस्वरूपस्य ग्रहणात् प्रत्यक्षमेव तदिति चेत् ; सिद्धमस्मदादिज्ञानस्यापि. २० प्रत्यक्षत्वम्, तत्रापि काचभाण्डंपर्यवगुण्ठितखण्डशर्करापिण्डस्वरूपप्रहणस्यानुभवादिति सिद्धमव्यापकत्वं तल्लक्षणस्य ।
___ भवतु तर्हि वस्तुस्वरूपग्रहणमेव साक्षात्करणमिति चेत् ; न ; अनुमानादावपि प्रसङ्गात् तस्यापि वस्तुस्वरूपग्राहित्वेन स्याद्वादिनः प्रसिद्धत्वात् , "बौद्धस्य प्रसाधयिष्यमाणत्वात् । सामान्यरूपेणैव तस्य तदाहित्वं न विशेषरूपेणेति चेत् ; न; शब्दाद्युपाधिसम्बन्धेनैवानित्यत्वादेः ।। तेन ग्रहणात् । न “सकलोपाधिकसम्बन्धेनेति चेत् ; न ; प्रसिद्धप्रत्यक्षेणापि तदभावात् ,
१ वैसादृश्यं आ०, ब०, ५० स०। २ इति प्र-आ०, ब०, प., स.। ३ परोक्षबलेन आ०, ब०, ५०, स । ४ प्रत्यक्षपूर्वकत्वेन । ५ लक्षणं प्रत्यक्षस्यैव आ०, २०, ५०, स०। ६-न रूपेणैव आ०, ब०, प० । ७ पावकानुमा-आ०, ब०, ५०, स०।८-ध्ववि-आ०, ब०, ५०, स.। ९-बन्धभा-ता। १.-कत्वान्नान्यदेति स०।-कत्वान्नान्यथेति आ०, ब०, प०।वस्तुग्रहणमेव । १२ प्रत्यक्षत्वे व्यव-आ०, ब०प०स०।१३ अन्तरितवस्तुग्राहि सर्वज्ञविज्ञानम् । १४-पर्यवगुणित-ता० । १५ बौधस्य प्रसाद इष्य-आ०, ब०, प.। १६ अमानस्य । १७ वस्तुस्वरूपमाहित्वम् । १८-पाधिस-आ०, ब०, ५०, स.।