________________
८६
१५
न्यायविनिश्चयविवरणे
[ ११३
तार्णादिदहनविशेत्रप्रतिपत्तावपि प्रतिक्षणपरिणामा देस्तद्विशेषस्याग्रहणात्, अन्यथा तद्विषयप्रमाणान्तरव्यापारवैफल्यापत्तेः ।
"
'संशयरहितं तद्ब्रहणमेव साक्षात्करणम्' इत्यप्यनुपपन्नम् ; अनुमानादिनाऽतिव्याप्तेरेव । संशयमेवानुमानादिकम् 'तार्णो वा दहनः पार्णो वा' इति तत्र तदुपलम्भादिति चेत्; न; तस्ये ५ दमकत्वाभावात् । प्रमाणस्यैव तदात्मकत्वे तन्त्रप्रतिपत्तित्रिकलमखिलं जगद्भवेत्, अनुपायत्वात् संशयेोपायत्वे चातिप्रसङ्गात् । अन्यस्तत्र संशय इति चेत्; न; तस्याप्यनुमिते पर्वते पावकादावभावात् । तार्णादौ तद्विशेन इति चेत्; न; तस्याननुमेयत्वात् विशेषव्याप्तेरग्रहणात् । विषय विशेष संशये वानुमानस्य दोषे प्रसिद्धप्रत्यक्षस्यापि स्यात् 'मधुरं क्षारं वा जलम्' इति तद्विषयविशेषेऽपि संशयदर्शनात् । 'विशेषानाकाङ्क्षायां न तद्दर्शनम्' इत्यप्यसङ्गतम् ; अनुमानादावपि १० साम्यात् । तन्नेदमपि साक्षात्करणम् ।
कस्तर्हि साक्षात्करणार्थ इति चेत् ? 'अर्थज्ञानस्यैव प्रतिभासविशेषः क्षयोपशमादिनिबन्धन:' इति ब्रूमः । यद्वक्ष्यति -
" प्रत्यक्षमञ्जसा स्पष्टं विप्रकृष्टे विरुध्यते ।
न स्वप्नेक्षणिकादीनां ज्ञानावृतिविवेकतः ॥ "
[ न्यायवि० श्लो० ४०७ ] इति । ततो निर्मलप्रतिभासत्वमेव स्पष्टत्वम् । स्वानुभवप्रसिद्धं चैतत् सर्वस्यापि परीक्षकस्येति नातीव " निर्बाध्यते ।
ततो यदुक्तं भासर्वज्ञेन - " स्पष्टत्वं नाम सामान्य विशेषः” [ ] इति ; तदनुमतमेव जैनस्य यदि सदृशपरिणामः स उच्यते । परस्तु ( परस्य तु ) नित्यव्यापिगोत्वादिरपि २० तद्विशेषो न सम्भवति किमङ्ग स्पष्टत्वमिति करिष्यत एव प्रबन्धः ।
प्रत्यक्षं सविकल्पक मेव जैनस्य, यदाह 'साकारम्' इति । सविकल्पकत्वच नामजात्यादिविषयत्वम्, न चैतद्वस्तुतः सम्भवति "निशितविचारवज्रनिपाताक्षमत्वात्, केवलमध्यारोपसिद्धम् । न चाध्यारोपितविषयस्यै विज्ञानस्य परिस्फुटत्वम् ; स्वप्नेन्द्रजालादिविकल्पेष्वदर्शनात् । स्थूलनीलादिविकल्पे दृश्यत एवेति चेत्; न; तस्यापि औपाधिकत्वात् । २५ निरंशपरमाणुस्वलक्षणदर्शनगतं हि "स्पष्टत्वं कुतश्चित्प्रत्यासत्तिविशेषात् तद्विकल्पप्रति
१ अनुमानादेः । २ संशयात्मकत्वाभावात् । ३ संशयात्मकत्वे । ४ संशयस्य तत्वप्रतिपत्युपायरूपत्वे । ५ अनुमानादौ । ६ पर्वते पा-आ०, ब०, प०, स० । ७ - विशेषे संश-आ०, ब०, प०, स० । ८-यां तत्तदर्शआ०, ब०, प०, स० । ९ - लभासित्व- स० । उद्धृतमिदम्। "विश्रुतश्च स्याद्वादविद्यापतिना ..” पायदी० पृ०९ । १० निर्बंध्यते आ०, ब०, स०, ता० । ११ सामान्यविशेषः । १२ - यत्वात् न आ०, ब०, प०, स० । “अब कल्पनाच कीदृशी चेदाह - नामजात्यादियोजना - यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति । जातिशब्देषु जात्या गोरयमिति । गुणशब्देषु गुणेन शुरु इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति ।" - प्रमाणस० टी० पृ० १२ । “विकल्पो नामसंश्रयः । - प्र० वा० २।१२३ । १३ निश्चितवि-आ०, ब०, प०, स० । १४ - पितद्विषयस्य आ, ब०, प०, स० । १५ स्फुटत्वं आ०, ब०, प०, स०