________________
१३]
प्रथमः प्रत्यक्षप्रस्ताव सक्रान्तं प्रत्यवभासते नौत्पत्तिकमिति चेत् ; अत्राह-'अञ्जसा' इति तत्त्वत इत्यर्थः । तात्पर्यमत्र'-न दर्शनं तद्विकल्मादन्यत् ; अनुपलम्भात् । असतश्च न वैशद्यम् , तत्कथं तस्यान्यत्र प्रतिसङ्क्रमकल्पनम् ? न हि व्योमकुसुमसौरभप्रतिसक्रमकल्पनं तरुकुसुमेषु प्रीतिपदं (प्रतीतिपदं) प्रेक्षावताम् ।
भवदपि' तत्तत्र प्रतिसङ्क्रान्तं कुतः प्रतिवेद्यताम् ? तत एव विकल्पादिति चेत् ; ५ न; तस्य स्वरूप एव व्यापारात् । तस्यं च वैशद्यविविक्तत्वात , अविविक्तत्वे तत्प्रतिसङक्रमायोगात् । न च तद्विविक्तवेदनमेव तद्वदनम् , पीतविविक्तशङ्खवेदनस्यैव पीतवेदनत्वप्रसङ्गादिति सर्ववेदनविभ्रमत्वापत्तिः । तद्विवेकस्तस्य न स्वसंवेद्य इति चेत् ; अस्वसंवेद्य एव तर्हि विकल्पः, तद्विवेकव्यतिरिक्तस्य सद्रूपस्याभावात् । "सच्चेतनादिकमस्तीति चेत् ; न ; तस्थापि "तद्विवेकादव्यतिरेकात् । न ह्यसंविदितादव्यतिरिक्तं संविदितं नाम।"व्यतिरेके वा वैशद्यादव्यति- १० रेकः स्यात् , तद्विवेकठयतिरेकस्य तव्यतिरेकस्वभावत्वात् । तथा च
तदपि प्रतिसक्रान्तं "सञ्चैतन्यादिकं तव । प्रतिसक्रान्तवेशद्याव्यतिरेकात्तदात्मवत् ।।२८०॥ तत्सङ्क्रामोऽप्यधिष्ठानमेवमन्यदपेक्षते । तस्यापि तदभेदे स्यात्सङ्क्रान्तत्वमसंशयम् ॥२८१॥ तत्राप्येवमधिष्ठानपारम्पर्यप्रकल्पनात् । अनवस्थाभुजङ्गी त्वामासंसारं न मुञ्चति ॥२८२॥
तस्मादव्यतिरिक्तं च स्पाष्ट्यं सङ्कान्तिमत्कथम् ? ।
वैशयादव्यतिरेके हि सञ्चैतन्यादिकमपि सङ्क्रान्तमेवं भवेत् । न हि प्रतिसङ्क्रान्तादव्यतिरिक्तम् अप्रतिसङ्क्रान्तमुपपन्नम्। तत्प्रतिसक्रमे वा अविष्ठानान्तरमङ्गीकर्त्तव्यं निरधिष्ठा- २० नप्रतिसक्रमाभावात्। तदधिष्ठानस्यापि तत्प्रतिसक्रमादव्यतिरेके प्रतिसक्रमत्वापत्तेः तदपराधिष्ठानपरिकल्पनं तत्राप्येवमियनवस्था दौःस्थ्यमतिदुस्तरमासंसारमनुसरदासज्येत । "तदासङ्गतश्च विभ्यता सच्चेतनादिकं तात्त्विकमङ्गीकर्तव्यम् । तदव्यतिरिक्तञ्च वैशयं कथं तदपि प्रतिसङक्रान्तम् ? अतो वास्तवमेव विकल्पस्य वैशद्यम् । तन्न तत एव विकल्पात्तत्प्रतिपत्तिः।
___ अन्यत इति चेत् ; न ; "तेनाऽपि तद्विकल्पस्य स्वरूपमात्रविषयत्वेनाग्रहणात् , २५ तदग्रहणे" च न तत्प्रतिपत्तिः, "अनधिगताधिष्ठानस्य तद्गतप्रतिसङक्रमप्रतिपत्तेरसम्भवात् ।
-प्रद-आ०,०, १०, स०।२ प्रतिपदं आ०, ब०, ५०, स०। ३-पि तत्र मा०, ब०,५०, स.। तत् निर्विकल्पकस्पष्टत्वं तत्र विकल्पे । ५ विकल्पस्य । ६ स्वरूपस्य । ७ वैशद्यभिन्नत्वम् । ८ वैशयविवेक । ९-स्याप्यभा-मा०, ब०, १०, स०।१० सचेतनादि-आ०, ब०, ५०, स०।११ वैशद्यविवेकात् । १२ वैशद्यविवेकाद् भिन्नत्वे । १३ वैशद्यतादात्म्यमेव स्यात् । १४ सचैतन्या-स०,ता० । १५ तत्संका-स०प० । १६-क्ष्यते आ०,५०,०,स० । १७-व च भ-आ०,ब०प० । १८-स्थानदौ-आ०,ब०,५०,स० । १९ तदासंगतेश्च श्रा०,१०,५०,स०।२० वैशद्यसक्रान्तिप्रतिपत्तिः। २१ ततोऽपि आ०.ब०प०,स०। २२ विकल्पाग्रहणे । २३ वैशयसकान्तिप्रतिपत्तिः । २४ अनादिगता-आ०,०प०,स० । २५ तद्गतस्य प्रति-ता।