________________
८८
न्यायविनिश्चयविवरणे
[१३
अप्रतिपन्नशुक्त्यधिष्ठानोऽपि तत्र रजतप्रतिसङक्रमं प्रतिपद्यत एवेति चेत् ; न ; रजतस्याप्रतिसङक्रमरूपत्वाद, अनधिष्ठानतयैव प्रतिपत्तेः । किं तर्हि शुक्तिशकलेन कर्त्तव्यमिति चेत् ? न किञ्चित् । तदभावेऽपि कुतो न रजतप्रतिभासनमिति चेत् ? भवत्येव यदि 'तत्कारणसन्निधानम् । 'विद्याशक्तिविरचितस्याशुक्तिशकलस्यैव तस्यावलोकनात् । न हि तत्र किञ्चि५ दधिष्ठानम् , अप्रतीतेः। कथं तर्हि 'शुक्तिशकलमेव रूप्यरूपतया प्रतिभातम्' इति पश्चात्मत्यभिज्ञानमिति चेत् ; कः पुनस्तच्छकलस्य रूप्यप्रतिभासेन सम्बन्धो येनैवमुच्यते ? ग्राह्यत्वमिति चेत् ; न ; स्वरूपेणं तदभावात् । पररूपेण तु परस्यैव ग्राह्यत्वं न तस्य अतिप्रसङ्गात् । कारणत्वमिति चेत् ; तस्यैव तर्हि तेनं ग्रहणं न "रूप्यस्य । अन्यकृतेनाप्यन्यग्रहणे चक्षुरादिकृतेनैव
"तद्ब्रहणमस्तु, पर्याप्तं तच्छकलस्य "तत्कारणत्वकल्पनया। नापि चक्षुरादिना सर्वदा तत्प्रतिभास१० चोदनम् ; तच्छकलेऽपि समानत्वात् । तस्य विशिष्टस्यैव तद्धेतुत्वं न तन्मात्रस्येति चेत् ; न ; चक्षुरादेरपि कामलाद्युपहतिपरिग्रहपरीतस्यैव तद्धेतुत्वेन अतिप्रसङ्गपरिहारस्य सुकरत्वात् ।
अवश्यं चैतदेवमङ्गीकर्त्तव्यम् , अन्यथा विद्याशक्तिविरचितस्य रजतादेरप्रतिभासप्रसङ्गात् , तत्र तद्धेतोः कस्यचिदधिष्ठानस्याभावात्। विद्याशक्तिरेवाधिष्ठानमिति चेत् ; न; आकाशे तदभावात्,
आकाशगतस्य च तदा रजतस्य प्रतिभासनं न तत्र विद्याशक्तिस्तस्या बोधरूपत्वेन पुरुषाधिष्ठान१५ त्वात्। मन्त्र एव तच्छक्तिः,तस्य च तत्रै सम्भव एवेति चेत ; न ; तस्यापि गुप्तभाषितस्य मुखविवरमात्रपर्यवसितत्वेन बाह्याकाशगतत्वासम्भवात् , अन्यैरपि सन्निहितैस्तच्छ्वणप्रसङ्गात , अश्रुतिगोचरस्य सम्भवे" च न तस्य शब्दत्वम् , शब्दस्य श्रोत्रग्रहणलक्षणत्वात् । आकाशमेवालोकपरिकलितमधिष्ठानमित्यपि नोपपत्तिपूरितम् ; उपरतरूप्यप्रतिभासस्य तथा प्रत्यभिज्ञान
प्रसङ्गात् । न चैवम् , ततो न पराधिष्ठानत्वं रजतस्य येन तद्वदनधिगताधिष्ठानस्य विकल्पवैशद्य२० "स्याप्यध्यवसायः स्यात् । कथं तर्हि 'शुक्तिशकलमेव रजतरूपतया प्रत्यभासिष्ट' इति प्रत्यभिज्ञा
नमिति चेत् ? न; "तेनापि स्वहेतुदोषोपजनितविभ्रमात्मना ताद्रूप्यस्यासत एव प्रतिवेदनात्, तद्विभ्रमस्य च विचारादवगतेः । तन्न "निर्विकल्पवैशद्यस्य विकल्पे प्रतिसङक्रमः ।
नाऽपि विकल्पधर्मस्य निश्चयस्याविकल्पे; तत्प्रतिक्षेपन्यायस्य समानत्वात्। न तयोरितरेतराधिष्ठानप्रतिसक्रमः; स्वाधिष्ठानगतत्वेनैव तत्प्रतिभासस्य परेणाभ्युपगमात् , तत्कथमे२५ वमाशङ्केति चेत् ? किं पुनरेतदनात्मज्ञजल्पितम्
"मनसोयुगपद्वृत्तेः सविकल्पाविकल्पयोः । विमूहो "लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥" [अ० वा० २।१३३] इति ?
१ रजतप्रतिभासहेतुसान्निध्यम् । २ इन्द्रजालादिविद्या । ३ रजतत्वेन । ४ शुक्तिशकलस्य । ५ शुक्तिरूपेण । ६ रजतरूपेण । ७ शुक्तिशकलस्यैव । ८ रजतप्रतिभासैन । ९ ग्रहणान्न आ०, ब०, ५०, स.। १० रूपस्य ता०।११ रजतग्रहणम् । १२ रजतप्रतिभासकारणत्व। १३ शुक्तिशकलस्य । १४ आकाशे । शब्दस्य आकाशगुणत्वात् । १५-वे न च तस्य आ०, ब०, ५०, स.। १६ तद्वदनादिगता-आ०, ब०, ५०, स० । १७ -स्याप्यव्यव-आ०, ब०, ५०, स० । १८ ततोऽपि आ०,ब०,०प० । १९ -निर्विकल्पकवै-आ०, ब०, प., स.। २०निर्विकल्पविकल्पधर्मयोः। २१.-सविकल्पवि-ता.। २२-शीघ्रवृत्तेः ।