________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव नन्वनेनापि न 'तथा तत्प्रतिसङक्रमः प्रतिपाद्यते, निर्विकल्पेतरैकत्वव्यवहारमात्रस्य प्रतिपादनादिति चेत् ; कः पुनरयं तद्व्यवहारो नाम ? तद्व्यवसाय इति चेत् ; कथन्न तथा प्रतिसक्रमो व्यवसीयमानस्य तदेकत्वस्यैव प्रतिसङक्रमार्थत्वात् ? तद्वचनमिति चेत् ; न; 'व्यव. स्यति' इति विरोधात् । न च व्यवस्यतीति वक्तीत्यर्थः, शाब्दिकसमयस्यैवमभावात् ।
___ कुतो वा तयोरेकत्वव्यवहारः ? यौगपद्यादिति चेत् ; नियमवतः, नियमरहिताद्वा ? ५ नियमवतश्चेत् ; सहोपलम्भनियमात् वास्तवमेव तदेकत्वं नीलतज्ज्ञानवत् , कथं तस्य व्यवहारमात्रसिद्धत्वं सहोपलम्भनियमस्यानैकान्तिकत्वप्रसङ्गात् ? नियमरहिताच्चेत् ; न ; नीलधवलयोरपि प्रसङ्गात् । एकार्थकारित्वादिति चेत् ; कः पुनरेकोऽर्थः ? प्रवर्त्तनमेव, तथा च प्रज्ञाकर:-"प्रवत्तनस्यैकस्य कार्यस्य भावात्" [प्र. वार्तिकाल० २।१३३ ] इति ; तदपि न निरूपितम् ; 'रूपादावपि प्रसङ्गात् ; उदकाहरणादेरेकस्य कार्यस्य तत्रापि भावात् । १० अस्त्येव साधारणशक्तिप्रयुक्तः "तत्राप्येकघटव्यवहार इति चेत् ; विशेषशक्तिप्रयुक्त एव रूपे रस इति रसे वा रूपमिति किन्न भवति तद्व्यवहारः ? तच्छक्तेरन्योन्यमभावादिति चेत् ; विकल्पाविकल्पयोरपि तर्हि कथं "विशदनिश्चयव्यवहारः तस्यापि विशेषशक्तिप्रयुक्तत्वात् , "तस्याश्च परस्परमसम्भवात् । सम्भवे वा न विशेषशक्तिः, तत्प्रयुक्तस्य "तव्यवहारस्योभयत्राप्यनुपचरितत्वं भवेत्।
कुतः पुनर्विकल्पेतरयोर्योगपद्यम् , अयोगपद्ये सहकारित्वाभावेनैकप्रवृत्तिकारित्वानुपपत्तेरिति ? अत्र परस्य वचनम् “युगपद्विषयसन्निधानादेव” [प्र. वार्तिकाल० २।१३३] इति ; तदेतन्नातीव चतुरस्रम् ; विकल्पस्यापि वस्तुत एव स्पष्टत्वप्रसङ्गात् सन्निहितविषयत्वात् , दर्शनस्यापि तत एव स्पाष्ट्यात् । अत एव "देवस्य वचनम्-"स्पष्टं सन्निहितार्थत्वात्" । [ प्रमाणसं० श्लो० ४ ] इति । नास्त्येव विकल्पस्य विषय इति चेत् ; न ; २० 'युगपत्' इत्यादिस्ववचनस्य व्याघातप्रसङ्गात् । न ह्यसतो"युगपदन्यथा वा सन्निधानं सम्भवति । कल्पितोऽस्त्येव "तद्विषयो न वस्तुबलागत इति चेत् ; केन तत्कल्पनम् ? तेनैव विकल्पेनेति चेत् ; तस्यैव कुतः सम्भवः तद्धतोरभावात् ? तद्विषयसन्निधानं तद्धेतुश्चेत् ; तदपि कुतः ? तस्मादेव विकल्पादिति चेत् ; न ; परस्पराश्रयदोषस्य "सुव्यक्तत्वात् । अन्येन "तत्कल्पनं चेत् ; तेनापि दर्शनविषयेण समसमयस्यैव तस्य" कल्पने न युगपद्विषयसन्निधानम् । २५ तत्समसमयस्य कल्पने न तस्यापि दर्शनयोगपद्यम् । युगपद्विषयसन्निधानाद्भवतु को दोष इति
तदा तत्प्र-आ०, ब०, १०, स०।२ निर्विकल्पेतरैकत्वस्यैव । ३ निर्विकल्पेतरयोः । ४ चेन्न नियमआ०, ब०, १०, स०।५ एकत्वस्य । ६ -मात्रासि ०, ब०, ५०, स०। पुनरेकार्थः स०। ८-नैकस्य स०। ९ रूपरसादावपि । १० रूपादावपि । ११ विकल्पे विशदव्यवहारः निर्विकल्पे च निश्चयव्यवहार इति । १२ विशेषशक्तेः । १३ विकल्पे विशदव्यवहारस्य निर्विकल्पे च निश्चयव्यवहारस्य मुख्यत्वमेव स्यानारोपित्वमिति भावः । १४ प्रज्ञाकरगुप्तस्य । १५ सन्निहितविषयत्वादेव । १६ अकलङ्कस्य । १७ -चनव्या
आ०,०प०स०। १८ युगपद्यथा वा आ०,ब०,५०,०। १९ विकल्पविषयः। २० सति तद्विषयसन्निधाने विकल्पोत्पत्तिः, सति च विकल्पे तद्विषयसन्निधानमिति । २१ विकल्पविषयकल्पनम् । २२ विकल्पविषयस्य ।
१३