________________
९०
न्यायविनिश्चयविवरणे
[ १३ चेत् ; 'तस्यैव कुतः सम्भवः' इत्याद्यनुबन्धादन्योन्यसंश्रयस्य अत्रापि सुपरिस्फुटत्वात् । पुनरन्येन तत्कल्पनायामनवस्थापत्तिः ।
___नन्विदमेव तस्य' कल्पनं नाम यत्तन्निर्भासितया विकल्पोत्पाद इति चेत् ; कुतस्तदुत्पादः ? वासनाबलाच्चेत् ; कुतस्तस्य' दर्शनयोगपद्यम् ? 'तत एवेति चेत् ; न ; ५ पुनरपि 'युगपत्' इत्यादिस्ववचनविरोधात् ।
__किञ्च, कः पुनर्विकल्पः, को वा तस्य विषयः ? गौरिति परामर्शो विकल्पः, तस्य *गकारादिविषय इति चेत् ; न ; 'तस्य समस्तस्यैकविकल्पवेद्यत्वायोगात् , क्रमभावित्वात् । विकल्पोऽपि क्रमभाव्येक एवेति चेत् ; न ; क्रमवत्वे विषयवदेकत्वायोगात् , अन्यथा
ज्ञेयानित्यतया तबुद्धेरनित्यत्वव्यवस्थापन परस्याप्रेक्षावत्त्वमुपक्षिपति । व्यस्त एव से तद्विषय १० इति चेत् ; न; प्रतिवर्ण विकल्पभेदप्रसङ्गात् । अस्त्येव तथा तद्भेदः, तथा च परस्य वचनम्
"गकारादिवर्णविकल्पानामपि क्रमेणोदयमासादयतामेकत्वाभावः” [प्र. वार्तिकाल. २।१३३ ] इति; तदिदमसम्बद्धम् ; एकत्वाध्यवसायस्यैवमभावप्रसङ्गात्" , तदधिष्ठानस्य गौरित्येकस्य विकल्पस्याभावात् । अः (गः) इत्यस्तीति चेत् ; न; "'अयं गः' इति तदध्यवसाय
स्याप्रसिद्धः । व्यवहारप्रसिद्धस्य च तस्येदमुपायपरिचिन्तनम् । नच 'गः' " इत्यप्येकविकल्प१५ सम्भवः, गकारस्याप्यर्द्धमा त्रिकस्यानेकक्षणक्रमभाविन एकत्वानुपपत्तौ तद्गोचरविकल्पानेकत्व
स्यापि सुप्रसिद्धत्वात् । न च निरंशतद्भागविकल्पः शक्यनिरूपणः । एवमौकारादावपीत्यभाव एव विकल्पस्यापतितः । सोऽयं लाभमिच्छतो मूलच्छेदः-सतो विकल्पस्य दर्शनैकत्वाध्यवसायमुपपादयितुमुपक्रान्तेन तदभावस्यैवोपपादनात् । गकारभागेष्वेक एव विकल्प इति चेत्;
गकारादिवर्णेष्वप्येक एव स्यादिति दुर्व्याहृतमेतत्-"गकारादिवर्णविकल्पानामपि" इत्यादि। वस्तु२० वृत्तिपर्यालोचनया “तदुक्तं संवृत्या तु स एवायमित्येकत्वकल्पनया तदेकत्वं न निवार्यते इति
चेत् ; ननु वस्तुवृत्तिपर्यालोचनायां त एव "विकल्पा न सम्भवन्तीति प्रतिपादितम्, तत्कथं तेषां "क्रमेणोदयवत्त्वमन्यद्वा सम्भवति ? सम्भवतामपि "तेषां स्वसंविदितत्वात् परिस्फुटे भेदवेदने तदैव कथं तत्रैकत्वप्रत्यभिज्ञानविभ्रमः ? तत्स्वसंवेदनस्यानिर्णयरूपत्वेन तद्गृहीतस्यापि "तद्भे
दस्याऽगृहीतकल्पत्वादिति चेत; न; "न हि दृश्यस्य भेदेन तदैवैकत्वविभ्रमः" [प्र. १५ वार्तिकाल० २।२५४ ] इति स्ववचनोपद्रवापत्तेः ।
"अनेन दर्शनविषय एवा (व) निश्चिते भेदे तदैकत्वविभ्रमस्य प्रतिक्षेपात्
1 विकल्पविषयस्य । २ विकल्पस्य । ३ विकल्पादेव । ४ यतो हि निर्विकल्पेतरयोरैक्यं न युगपद्विषयसन्निधानमूलकं किन्तु विकल्पमूलकम् । ५ गकरादेर्वि-आ०, ब०, ५०, स०।६ गकरादेः । ७ "ज्ञेयानित्यतया नस्याऽध्रौव्यात्.."-प्र०वा०११।८ सौगतस्य । ९ गकारादिः । १० प्रतिवणम् । ११-मादधि-आ०,०, प०, स०। १२ एकत्वाध्यवसायाधारभूतस्य । १३-वादित्यस्ती-श्रा,ब०,५०,स०।१४ अयमिति भा०, ब० । १५ च इत्य-ता० । १६ इत्यप्यविकल्प-आ०, ब०, प०, स०। १७-मात्रेक-आ०, ब०, ५०, स.। १८ गकारादिवर्णविकल्पानामित्यादि वाक्यं कथितम् । १९ विकल्पना न आ, ब०,५०,स। २० क्रमेणोदयत्व-आ०, ब०, १०, स०।२१ विकल्पानाम् । २२ स्वसंवेदनगृहीतस्यापि । २३ विकल्पभेदस्य । २४ वचनेन ।