________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव: अतत्परमेव' एतद्वचनम् , न हि सर्वमेव वचनं स्वप्रतिपाद्यवस्तुतत्परमेव, अतत्परस्यापि प्रतिवादि चित्तव्याकुलीकरणबुद्ध्या प्रयोगसम्भवादिति चेत् ; नैतन्न्याय्यम् ; विकल्पस्य विकल्पान्तरादिवत् निर्विकल्पादपि भेदस्यागृहीतकल्पत्वप्रसङ्गात् , तद्भेदस्याप्यभिलापानभिलापवत्त्वलक्षणस्य स्वसंवेदनादेवानिर्णयस्वभावात्प्रतिपत्तिप्रतिज्ञानात् । अभिमतमेवेदं परस्य तंत्राप्येकत्वविभ्रमस्याभ्यनुज्ञानादिति चेत् ; कथमिदानोम्
"प्रत्यक्ष कल्पनापोडं प्रत्यक्षेणैव सिद्ध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥” [प्र. वा० २।१२३ ] इत्येतदनवसरं न भवेत्?न हि यद्गृहीतमगृहीतकल्पमेव तदेव परप्रतिपत्त्यङ्गत्वेन प्रेक्षावद्भिरुपक्षिप्यते। तन्नेदमभिहितार्थतत्परं न भवति वचनम् अतिप्रसङ्गात् । स्वसंवेदनसिद्धस्यापि विकल्पेतरभेदस्य (स्या ) सिद्धत्वे कथं तत्रैकत्वाध्यवसायः निर्विवादस्य सिद्धत्वात् , तत्र च तदनुपपत्तेरिति १० चेत् ; अयमपरः परस्यैव दोषोऽस्तु, पौर्वापर्यमनालोच्य वचनात् ।।
अपि च, गकारादिविकल्पानाम् एकत्वप्रत्यभिज्ञानमपि 'य एव गकारविकल्पः स एवौकारादिविकल्पः' इत्युदयमासादयदपरापरपरामर्शरूपत्वात् न नानात्वेन निर्मुच्यते, तत्कथं तदन्यव्यवस्थितैकत्वस्वभावं गकारादिविकल्पानामेकत्वमध्यारोपयितुमर्हति ? तत्रापि प्रत्यभिज्ञानादन्यस्मात् एकत्वाध्यारोपपरिकल्पनायाम् अनवस्थाप्रसङ्गात् । तन्न गौरित्ययमेको १५ विकल्पः, कथमस्य दर्शनैकत्वाध्यवसायः, स्वयमविद्यमानस्य तदयोगात् ?
सत्यम् ; न वस्तुवृत्त्या विकल्पसम्भवः, संवृत्यैव तत्सम्भवात् । न च तस्य विचारसूचीमुखनिपातेन निर्लोपनमुपपन्नम्। सकलव्यवहारविलोपप्रसङ्गात् , विकल्पाधीनत्वात्सर्वस्यापि लोकव्यवहारस्य । तस्मादविचारितरम्यसद्भाव एव विकल्प इति चेत् ; न; दर्शनात्तद्व्यतिरेकस्यापि तथात्वप्रसङ्गात् । न हि धर्मिणो विकल्पस्याविचारक्षमत्वे तद्धर्मस्य दर्शनव्यति- २० रेक स्य विचारक्षमत्वम् । मा भूदिति चेत् ; कथमिदानी" भावतो" दर्शनस्य निर्विकल्पकत्वम् ? तदप्यविचारक्षममेवेति चेत् ; "सविकल्पत्वं तर्हि तस्य भाविकं भवेत् । तदप्यभाविकमेव दर्शनात्तव्यतिरेकस्यापि तद्व्यतिरेकवदभाविकत्वादिति चेत् ; "विकल्पेतरविभागविनिर्मुक्तं तर्हि भावतः प्रत्यक्षमिति तथैव तल्लक्षणमभिधातव्यम् , तत्कथमुक्तम् “प्रत्यक्ष कल्पनापोढम्" [प्र०वा० २।१२३ ] इति । स्वत एव प्रत्यक्षस्याविकल्पत्वं न विकल्पव्यतिरेकात्” । न हि स्वत एवाविद्यमानं "तव्यतिरेकाद्भवति, विकल्पान्तरस्यापि प्रसङ्गादिति चेत् ; न समीचीनमेतत् ;यस्मात्
सविकल्पत्वमप्येवं स्वतः कस्मान्न कल्प्यते ।
तस्यापि “यत्स्वतोऽसत्त्वे परतोऽपि न सम्भवः ॥२८३॥ १-वतद-आ०, ब०, १०, स०।२-दिचेतव्या-मा०,०,स। ३ तदभेदस्या-ता० । निर्विकल्पसविकल्पभेदस्य। "सर्वचित्तचैत्तानामात्मसंवेदनस्य प्रत्यक्षस्वात्"-प्र.वार्तिकाल०२।२४९।५निर्विकल्पकसविकल्पकयोः। ५-साये नि-आ०,०,५०, स०। ७ इत्याचयमा-आ०, ब०, ५०, स०। ८ सांवृतविकल्पस्य । ९ विचाराक्षमत्वप्रसझात् । १.-कविचार-स.।११-नीमभाव-आ०,ब०,१०,स.। १२ वस्तुतः । १३ सविकल्पकत्वं भा०, ब०, ५०, स.। १४ सविकल्पस्वमपि। १५ विकल्पे तरभाग-स०।१६ -ल्पत्वव्य-आ०,व०प०,स०। १७ विकल्पव्यतिरेकात् । १८ यत्सतोऽसत्त्वे आ०, ब०, ५०, स० ।