________________
१०
१५
२०
९२
न्यायविनिश्चयविवरणे
न तथा तत्प्रतीतिश्चेदन्यथा सा कुतो भवेत् ? । स्वत एवेति चेत्; नैवम्; विवादस्यावलोकनात् ॥ २८४॥ स्वत एवाविकल्पत्वं यदि तेस्य प्रसिद्ध्यति । विवदन्ते कथं तस्मिन्यथास्वं तीर्थिकाः परे ॥ २८५॥ प्रसिद्धेऽपिं विवादश्चेत्; स कुतस्तर्हि लुप्यताम् । प्रसिद्धत्वात् ; न तस्यान्यदस्ति निर्लुप्तिकारणम् ॥ २८६ ॥ अन्यतश्चेदकल्पं तद्यदि तत्र विवादतः । तँदेवासिद्धमन्यस्य कथं सिद्धिनिबन्धनम् ॥ २८७ ॥ तस्यापि सिद्धिरन्यस्माद्यदि कल्प्येत तादृशात् । भवन्तमनवस्थाख्या न मुञ्शृङ्खला ॥२८८॥ अन्यद्विकल्पकं चेत्; न; तत्त्वतस्तदसम्भवात् । कल्पितात्तु कथं तस्मात्कस्यचित्सिद्धिराञ्जसी ॥ २८९॥ अन्यथा कल्पनासिद्धपावकान्माणवादपि । कस्मादोदनपाकादिस्तत्त्वतो न भवत्ययम् ॥ २९० ॥ कल्पितोऽपि विकल्पैश्चेत्तत्त्वसंवित्तये तदा । प्रत्यक्षे सविकल्पर्त्यंसिद्धिः किन्न ततो भवेत् ॥ २९१॥ सोऽपि तत्र न चेदस्ति कस्य न ? व्यवहारिणः । तन्न; 'मूढस्तयोरैक्यं व्यवस्यति' अस्य बाधनात् ॥ २९२॥ व्याख्यातुर्नास्ति चेत्; कस्मात् ? कल्पनादोष निह्रवात् । अविकल्पत्वमप्येवं स कुतः प्रतिबुध्यताम् ? ॥२९३॥
[ ११३
[
यदि प्रत्यक्षस्याविकल्पत्वं स्वत एव; सविकल्पत्वमपि स्यात् । न हि तदपि स्वत एवाविद्यमानम् अन्यतः कुतश्चित्सम्भवति " व्यवसायात्मकं ज्ञानं प्रत्यक्षं स्वत एव नः " ] इति वचनाच्च । सविकल्पकत्वं न कुतश्चिदपि प्रतीयत इति चेत्; निर्विकल्प - त्वस्य कुतः प्रतीतिः ? स्वत एवेति चेत्; न; अन्यत्रापि समत्वात्, विवादावलोकनाच्च । यदि २५ प्रत्यक्षस्य स्वत एवाविकल्पत्वं प्रतियन्ति प्रतिपत्तारः, कुतस्तर्हि तत्र विवादमारचयन्ति नहि प्रतिपत्तिविषय एव विप्रतिपत्तिभूमिः ; विरोधात् । अस्ति " च विप्रतिपत्तिः - "केचित्प्रत्यक्षं निर्विकल्पकमिति । अपरे सविकल्पकमिति । अन्ये" सर्वविकल्पव्यपेतमिति । न च प्रसिद्ध एव विवादे विवादनिवृत्तिः सम्भवति; प्रसिद्धिव्यतिरेकेण तन्निवृत्तिहेतोरभावात् । तन्न स्वतस्तत्प्रतिपत्तिः " ।
1
१ प्रत्यक्षस्य । २ विचारश्चेत् आ०, ब०, प०, स० । ३ तदेव सि ता० । ४ - दिस्तद्वतो आ०, ब०, प०, स० । ५ - ल्पश्च तत्स्वसंवि-आ०, ब०, प०, स० । ६ त्वं सि-आ०, ब०, प०, स० । ७ तत्र स० । ८ प्र० वा० २।१३३ । ९ व्याख्यातुं ना आ०, ब०, प०, स० । १० व्याख्याता । ११ च प्रति-आ०, ब०, प०, स० । १२ बौद्धाः । १३ शब्दवादिनः । १४ ब्रह्मवादिनः । १५ प्रत्यक्षस्य अविकल्पत्वप्रतिपत्तिः ।