________________
९३
प्रथमः प्रत्यक्षप्रस्तावः ___ अन्यतश्चेत; न ; तस्यापि निर्विकल्पत्वे विवादास्पदत्वेन स्वयमेवासिद्धत्वात् । न चासिद्धमन्यसिद्धिनिबन्धनम् ; अतिप्रसङ्गात् । तस्यापि सिद्धिरन्यस्मानिर्विकल्पादिति चेत् ; न; भवतो दुर्विमोचाऽनवस्थामयवज्रशृङ्खलानिपातप्रसङ्गात् । अन्यतो विकल्पादेव तत्सिद्धिरिति चेत् ; न; वस्तुवृत्त्या तदभावात् । कल्पितात्तु न ततस्तात्त्विकस्याविकल्पत्वस्य सिद्धिः । न ह्युपप्लुतादुपायाद् अनुपप्लुतफलावाप्तिः, अन्यथा कल्पितादपि माणवकपावकात्तात्त्विकमेवौदन- ५ पाकादिकं भवेत् । सविकल्पत्वमपि प्रत्यक्षस्य तात्त्विकं तत एव सिद्धयेत् । नास्त्येव तादृशोऽपि विकल्पस्तत्रेति चेत् ; कस्यासौ नास्ति ? व्यवहारिण इति चेत् ; न; "विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति" [प्र० वा० २।१३३] इत्यस्य विरोधप्रसङ्गात् । अनेन प्रत्यक्षे सविकल्पत्वाध्यवसायस्य व्यवहारिषु प्रदर्शनात । व्याख्यातुरिति चेत् ; कुत एतत् ? तस्यासत्कल्पनाव्यापारोपप्लवप्रत्यस्त्यमयादिति चेत् ; तर्हि स कुतः प्रत्यक्षस्य निर्विकल्पत्वमपि प्रतिपद्यत इति १० महानयं परस्य विषमविचारगर्तावपातः। तन्न स्वत एव प्रत्यक्षस्याविकल्पत्वम् , अपि तु विकल्पव्यतिरेकादेव । न चावस्तुसतो विकल्पाद् वस्तुसद्व्यतिरेकः, ततो वस्तुसन्नेव विकल्पः । स चोक्तया नीत्या न सम्भवतीति कस्य दर्शनैकत्वपरिकल्पनं परैः प्रतन्यताम् ? तत्परिकल्पना हेतोरेकप्रवर्तनकार्यकारित्वस्य भागाश्रयासिद्धत्वात् । कथं भागाश्रयासिद्धत्वं स्याद्वादिप्रसिद्धस्यैवाभिधानात् , ईतरनिरपेक्षतया व्यवसायात्मनो विकल्पस्य एकप्रवृत्तिकार्यकारित्वादिति चेत् ? न ; १५ तथापि "तदसिद्धत्वस्याविचलनात् तद्विकल्पादन्यस्य "दर्शनस्याभावात् , पुरोवर्तिघनैकाकारस्तम्भादिप्रतिभासो हि तद्विकल्पः, न च तस्मादपरं दर्शनं प्रतीतिपथोपस्थितमस्ति, निरंशपरमागुस्वलक्षणाकारस्य पराभिमतस्य "तस्य स्वप्नेऽपि परिस्फुटप्रत्ययविषयत्वानवलोकनात् ।
भागतः स्वरूपासिद्धश्चायं हेतुः; तथा हि कदा पुनर्विकल्पस्य प्रवर्तकत्वम् ? अभ्यासे इति चेत् ; न; तदा दर्शनस्यैव "तदङ्गीकारात् , “विकल्पमन्तरेणापि त्वभ्यासात्प्रवर्त्तते" २० [प्र. वार्तिकाल• १।४ ] इति वचनात् । अपिशब्दात् 'विकल्पादपि प्रवर्त्तते' इत्यस्य समुच्चय इति चेत् ; न ; तस्यैवमैदम्पर्याभावात् , ततो "हेयोपादेय विषये धीरेव पूर्विका प्रवर्त्तनात्प्रमाणम्" [प्र. वार्तिकाल० ११४.] इत्युत्तरफक्किकाविरोधात्, "तया दर्शन एव प्रवर्तकत्वस्यावधारणात् । अत एवैवकारस्य व्यावीमाह, "न विकल्पादयः" [प्र. वार्तिकाल० ११४ ] इति । अनभ्यास इति चेत् ; न; तदानीमनुमानस्यैव प्रवर्तकत्वात् । विकल्पा- २५ न्तरस्य "सतोऽपि तत्रैवान्तर्भावाभ्यनुज्ञानात् , “यत्र तु नाभ्यासस्तत्रानुमानमेव प्रत्यभिज्ञादयः" [प्र. वार्तिकाल० १।४ ] इति वचनात् । अनुमानस्यैव 'तँदा दर्शनेन सहकप्रव.
विकल्पात् । २ -स्याता-आ०, ब०, १०, स०।३ कल्पितविकल्पादेव । ४ कल्पितोऽपि । ५ व्यवहारेषु आ०, ब०, ५०, स०। ६ नित्या आ०, ब०, ५०, स०। ७ भावाश्रय-मा०, ब०, स० । 'विकल्पे. तरयोरेकस्वम् एकप्रवर्तनकार्यकारित्वात्' इत्यत्र विकल्पस्यासिद्धस्वरूपत्वात् भागाश्रयासिद्धत्वम् । ८ इतरनिरपेक्षितयाध्यव-मा०, ब०, ५०, स०।९ -स्यैव प्रवृ- आ०, ब०, ५०, स०। १० स्याद्वादिसिद्धविकल्पस्य एकप्रवर्तनकार्यकारित्वाङ्गीकारेऽपि । ११ भागाश्रयासिद्धत्वस्य । १२ निर्विकल्पस्य । १३ दर्शनस्य । १४ प्रवर्तकत्वस्वीकारात् ।।५ 'अपि बुद्ध्याभ्यासात्' प्र०वार्तिकाल।१६ उत्तरफक्किकया। १७ ततोऽपि स०१८ अनभ्यासे ।