________________
न्यायविनिश्चयविवरणे
[१॥३ तनकार्यकारित्वमिति चन; न; दर्शनस्य तदा प्रवर्तकत्वानभीष्टः अ यासवत , अनुमानवैफल्यप्रसङ्गात् । केवलमप्रवर्तकं दर्शनमनुमानसहितं तु प्रवर्तकमिति चेत् ; न; प्रेमाणसम्प्लवस्यासग्मतत्वात् । तन्न एकप्रवर्तनकार्यकारित्वं हेतुः; असिद्धत्वात् । तदयं प्रदेशान्तरे विकल्पस्य प्रवर्तकत्वं प्रतिपिध्य पुनरन्यत्राभ्युपगच्छन स्ववाचैव स्वचरितं विडम्बयतीति कथमनुन्मत्तः ५ प्रज्ञाकरः ? तन्नेदं विकल्पे वैशामुपचरितं तन्निबन्धनाभावात् ।
कि तर्हि ? वस्तुभूतमेव । कुत एतत् ? अनुपचरितत्वे सति वेद्यमानत्वात् तदन्यस्वरूपवत् । अञ्जमापदेनानुपचरितत्वमुक्तम, वेदामानत्वं तु केनेति चेत् ? न ; आत्मवेदनपदेन तस्याप्युक्तत्वात् । तदयमत्र प्रयोगः-तात्त्विकं सविकल्पकप्रत्यक्षस्य वैशयम् , उपचारविरहे सति
स्वानुभवगोचरत्वात् , तदपराकारवदिति । न चेदमाश्रयासिद्धं साधनम ; तत्प्रत्यक्षवैशद्यस्य स्वसंवे१० दनप्रत्यक्षसिद्धत्वात् । अत एव न स्वरूपासिद्धम् । नाऽपि विरुद्धम ; अंसति उपचरिते च वैशये
यथोक्तस्य साधनस्यासम्भवात् । अत एव न व्यभिचारवत् । तस्मादसिद्धत्वादिमलविकलत्वाद् भवत्येव अतस्तत्प्रत्यक्षस्य तात्त्विकी वैशद्यसिद्धिः ।
___ अथ न तद्वैशा स्वसंवेदनवे विप्रतिपत्तेः । न चेयमनुमानादन्यतः शक्यनिवर्त्तनेति तदेव वक्तव्यम् । तच्चेदमेव-विशदमेव प्रत्यक्षं प्रमाण द्वितयान्यथाऽनुपपत्तेः । प्रत्यक्षं परोक्षमिति १५ हि प्रमाणद्वितयं प्रमाणोपपन्नतया प्रत्याय्यमानमनुपपन्नमेव भवति यदि प्रत्यक्षमप्यविशदमेव,
परोक्षस्यैव प्रमाणस्य व्यवस्थितेः अवैशद्यस्य तल्लक्षणत्वात् ; न चैवम् , ततो विशदमेव प्रत्यक्षमिति । तत्रेदं विचार्यते-न प्रमाणस्वरूपव्यतिरिक्तं तद्वित्वम् असम्प्रतिपत्तेः । प्रमाणस्य च स्वरूपं प्रत्यक्षत्वपरोक्षत्वे । तयोश्च यदि प्रत्येकं तत्साधनत्वम् , उभयोपादानमपार्थकमिति कथमकिञ्चि
करत्वं नाम न साधनदोपः ? समुदितयोस्तत्साधनत्वे प्रत्यक्षमेवैकं प्रमाणं प्राप्तं तल्लक्षणस्यैव २० वैशद्यस्य तत्समुदायेन साधनात्, न परोक्षं तल्लक्षणसाधनोपायाभावादिति विरुद्धो हेतुः, इष्टविरुद्धसाधनात् । इष्टं हि प्रमाणद्वित्वं तद्विरुद्धं चैकप्रमाणत्वम् , तत्साधने च स्पष्टमेवेष्टविरुद्धसाधनत्वं तस्य । परोक्षप्रमाणावेशद्यसाधनेऽप्ययमेव हेतुरिति चेत् ; कथमेवं प्रत्यक्षवैशद्यसाधने परोक्षावैशयेन तत्साधने च "तदपरेण व्यभिचारवत्त्वं हेतोर्न भवेत् ? अथ वैशद्यमवैशा वा
न प्रत्येकं तत्समुदायसाध्यम् , अपि तु समुदितमेव तदयमदोष इति चेत् ; तदप्येकाधिकरणम् , २५ भिन्नाधिकरणं वा स्यात् ? एकाधिकरणं चेत् ; तदात्मकमेकमेव प्रमाणमिति न प्रमाणद्वयसिद्धिः",
अतो हेतुविरुद्धप्रतिज्ञार्थः स्यात् । भिन्नाधिकरणमिति चेत् ; किं कस्याधिकरणम् ? प्रत्यक्षमेव
१ अनभ्यासे । २ -नभीष्टेष्टिरभ्या-आ०, ब०, प०, स० । ३ एकस्मिन् प्रमेये बहूनां प्रमाणानां प्रवृत्तिः प्रमाणसम्प्लवः। बौद्धमते हि “न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भवः । तस्मात् प्रमेयद्वित्वेन प्रमाणद्विस्वमिष्यते॥" [प्र. वा. २।६३ ] इत्युक्तत्वात प्रमाणव्यवस्थैव न तु सम्प्लवः । क्षणिकत्वाच्च पदार्थानां नैकत्राथें बहुप्रमाणानां व्यापारः । द्रष्टव्यम्-प्र. वार्तिकाल० २।१३२। ४ हेतोरसि-ता०। ५ सविकल्पकप्रत्यक्ष। ६ असदुप-प० । असद्यप-आ, ब०, स०। ७ विप्रतिपत्तिः। 6-णद्वितीया-आ०, ब०, ५०, स०। ९ तस्यापरोक्षप्रमाणवैशय -आ०, ब०, ५०, स०।१० प्रत्यक्षवेशद्येन । ११ -सिद्धेरतो हेतुविरुद्धार्थः आ०, ब०,५०. स.।