________________
१३]
प्रथमः प्रत्यक्षप्रस्ताव: वैशद्यस्य परोक्षमेव चावेशद्यस्येति चेत् , तद्विपर्ययः कस्मान्न भवति ? तथापि भिन्नाधिकरणत्वाविरोधात् । लोकव्यवहाराद्विपर्ययनिवृत्तिः, लोको हि प्रत्यक्षादिकमेव वैशद्यादेरधिकरणं प्रत्येति न परोक्षादिकम् , लोकप्रसिद्धस्य चेदं प्रत्यक्षादेविप्रतिपत्तिव्यवच्छेदाय लक्षणकथनमिति चेत् ; लोकस्यापि कुतोऽधिकरणनियमप्रतिपत्तिः ? प्रत्यक्षादिति चेत् ; अलमनुमानेन वैशद्यधर्मस्यापि तर्ते एव प्रतिपत्तेः । न ह्यप्रतिपन्नतद्धर्मकं प्रत्यक्षं तदपेक्षमधिकरणनियमं प्रत्येतुमर्हति । तन्नियः ५ मप्रतिपत्तिरनुमानान्तरादित्यप्यनेन प्रत्युक्तम् । तन्नेदमनुमानं प्रत्यक्षवैशद्यप्रत्यवबोधनसमर्थम् ।
इदं हि तर्हि स्यात्-प्रत्यक्षं विशदज्ञानात्मकम् , प्रत्यक्षत्वात् , यद्विशदज्ञानात्मकं न भवति न तत्प्रत्यक्षम् वथा अनुमानादिज्ञानम् , प्रत्यक्षं च विवादास्पदीभूतम् , तस्माद्विशदज्ञानात्मकमिति चेत् ; अत्रापि किमिदं प्रत्यक्षत्वं नाम यत्साधनत्वेनोपन्यस्तम् ? प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तमिति चेत् ; तदपि किम् ? इन्द्रियाश्रितत्वमेव, अक्षाणीन्द्रियाणि १० तानि प्रतिगतं तत्कार्यत्वेन तदाश्रितं प्रत्यक्षमिति व्युत्पत्तिविधानादिति चेत् ; न, हेतो गासिद्धत्वप्रसङ्गात् , अनिन्द्रियप्रत्यक्षे अतीन्द्रियप्रत्यक्षे चाऽभावात्, तदुभयप्रत्यक्षसद्भावस्य च प्रतिपादनात् ।
आत्माश्रितत्वं प्रत्यक्षत्वम् , अश्नुते स्वं परं च विषयत्वेन व्याप्नोतीत्यक्ष आत्मा तं प्रतिगतं प्रत्यक्षमिति व्युत्पादनादिति चेत् ; न ; स्मरणादेरपि प्रत्यक्षत्वप्रसङ्गात् आत्मा- १५ श्रितत्वाविशेषात् । तथा च तस्यापि वैशद्यम् , अन्यथा हेतोरनैकान्तिकत्वप्रसङ्गादिति नेदानीं वैधर्म्यदृष्टान्तो यतः केवलव्यतिरेकि साधनस्य प्रत्यक्षवैशद्यव्यवस्थापनपरस्य सम्भवः । अक्षमेव प्रतिगतं प्रत्यक्षं न स्मरणादिकं तथाविधम् , अन्यस्यापि संस्कारप्रबोधकादेरपेक्षणात् , ततः परापेक्षणात्परोक्षमेव तदिति चेत् ; न तहीन्द्रियज्ञानम् "अवग्रहादिधारणापर्यन्तं प्रत्यक्षम् , आत्मव्यतिरेकिणः श्रोत्रादेरपि तेनापेक्षणात् । श्रोत्रादेरपि आवरणक्षयोपशमविशेषाक्रान्तजीव-२० प्रदेशविशेषत्वान्न तदपेक्षणपरापेक्षणमिति चेत् ; न "तत्स्वभावभावेन्द्रियवत् द्रव्येन्द्रियस्यापि "निवृत्त्युपकरणरूपस्यापेक्षणात् तस्य "चात्मपरत्वेन प्रसिद्धत्वात् । भावेन्द्रियस्यैव साक्षादपेक्षणं न द्रव्येन्द्रियस्य, सत्यपि तस्मिन् अन्तरङ्गशक्तिवैकल्ये"शब्दादिसंवेदनाभावात् , तवैकल्ये पुनरसत्यपि तद्व्यापारे स्वप्नादौ सत्यशब्दादिसंवेदनसम्भवात् । केवलम् उपकरणप्रदेशपर्यवसितत्वाद् भावेन्द्रियस्य साक्षात्तदपेक्षात् , तदपेक्षमपीन्द्रियज्ञानमुपकरणापेक्षमिव लक्ष्यमाणं प्रत्या- २५ सत्तिनिबद्धोपचार परोक्षव्यपदेशमासादयति । अत एव गवाक्षसमानत्वप्रसिद्धिरिन्द्रियाणामिति चेत् ; भवतु कथमपि परापेक्षणात् परोक्षत्वम् , तथापि सावधारणस्याक्षप्रतिगमनस्य विघटना
विपर्ययेऽपि । तथाहि भि-आ०, ब०, ५०, स०।२-स्येदं आ०, ब०, प० । ३ -त्तिः अप्र-आ०, ब०, ५०, स०। ४ प्रत्यक्षादेव । ५ अधिकरणनियम । ६ -क्षं वै-आ०, ब०, ५०, स० । ७ “प्रतिगतमाश्रितमक्षम्"."-न्यायबिटी० पृ०१०। ८ "अक्षणोति व्याप्नोति जानातीति अक्ष आत्मा प्राप्तक्षयोपशमः प्रक्षीणावरणो वा, तमेव प्रतिनियतं प्रत्यक्षमिति ।"-राजवा० ॥१२ । ९ -की साध-आ०, ब०, १०, स०। १० अवग्रहणादि- ता०। ११ आत्मस्वभाव । १२ निर्वृत्तिः गोलकादिः, उपकरणञ्च अक्षिपक्ष्मादि। १३ द्रव्येन्द्रियस्य पुद्गलरूपस्य । १४ आत्मभिन्नत्वेन । १५ शब्दादे सं-आ०, ब०,५०,स० । १६ उपकरणापेक्षणात् । १७ -निबन्धोप-आ, ब०, ५०, स.।