________________
न्यायविनिश्चयविवरणे दसिद्धमेवेन्द्रियज्ञानस्य प्रत्यक्षत्वम् , अन्यथा स्मरणादीनामपि न तद्विघटनं भवेत् । तैरप्यन्तरङ्गशक्तिसाकल्यस्यैव साक्षादपेक्षमात् बहिरङ्गापेक्षणस्योक्तन्यायेनोपचरितत्वोपपत्तेः। भवतु परोक्षमेवावप्रहादिकमिति चेत् ; ने ; तस्येन्द्रियप्रत्यक्षत्वकथनविरोधात् । औपचारिकं तस्य प्रत्यक्षत्वमिति चेत् ; किमुपचारनिबन्धनम् ? वैशद्यमिति चेत् ; तदपि कुतः ? प्रत्यक्षत्वाच्चेत् ; न; ५ परस्पराश्रयात्-वैशद्यात्प्रत्यक्षत्वम् , ततोऽपि वैशद्यमिति । तद्वैशा स्वसंवेदनासिद्धमिति चेत् ; पर्याप्तमनुमानेन, तस्यापि तत्साधनार्थत्वात् , सिद्धस्य च साधनासम्भवात् । अवध्यादिज्ञानवैशद्यसाधनार्थमनुमानम् इन्द्रियज्ञानवैशद्यस्य स्वसंवेदनादेव सिद्धत्वादिति चेत् ; न ; अस्यहेतो रन्वयित्वस्यापि प्रसङ्गात्, इन्द्रिय॑ज्ञाने वैशद्यान्वितस्य प्रत्यक्षत्वस्य प्रतीतेः, तथा च कथ
मयं केवलव्यतिरेकी हेतुरुक्तः ? न चावध्यादिज्ञानवैशद्येऽपि अनुमानमर्थवत् ; तस्यापि स्वसं. १० वेदनसिद्धत्वाविशेषात् । तन्न व्युत्पत्तिनिमित्तं प्रत्यक्षत्वम् ।
अथ व्युत्पत्तिनिमित्तेनैकार्थसमवेतमन्यदेव 'प्रवृत्तिनिमित्तं प्रत्यक्षत्वम् , तच्च सर्वप्रत्यक्षव्यक्तिसाधारणमिति न भागासिद्धत्वं साधनस्येति ; किं तस्य सतो रूपं न वक्तव्यम् ? आवरणविगमविशेष इति चेत् ; न ; तस्य नीरूपस्याभावात् । नीलादिप्रतिभासविशेष एव स
इति चेत् ; न ; वैशद्यस्यैव तद्रूपत्वात् , तदन्यस्य विचारासहत्वात् । तदेव भवत्विति १५ चेत् ; न, साध्यस्यैव हेतुत्वप्रसङ्गात् प्रत्यक्षत्ववैशद्यशब्दयोरेकार्थत्वात् । 'प्रत्यक्षत्वात्विशदत्वेन प्रतिभासनात् , विशदज्ञानात्मकम्-तदात्मकं व्यवहर्त्तव्यम्' इति हेतुप्रतिज्ञयोरर्थ इति चेत् ; सिद्धं नः समीहितम् ,"अस्मत्प्रयोगस्यैवानया भङ्ग्या 'प्रतिपादनात् । न 'चौत्रापि केवलव्यतिरेकित्वं हेतोः ; नीलादेस्तत्वेनावभासमानस्य तद्व्यवहारविषयत्वेन प्रसिद्धस्य
साधर्म्यदृष्टान्तत्वात्। ननु यदि वैशद्यमेव प्रत्यक्षत्वम्, तस्येन्द्रियज्ञानेऽपि तत्त्वत एव भावात् मुख्य२० मेव तस्यापि प्रत्यक्षत्वं तत्कथं तस्य सांव्यहारिकत्वम् ? यत इदं शास्त्रकारस्य वचनं शोभेत
"प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः” [ लघी० श्लो० ३ ] ___इति चेत् ; न; 'सूत्रकारमतस्य व्यवहारस्य चानुसरणेन तथा वचनात् । तथा हिसूत्रकारस्य यत्परिस्फुटमात्ममात्रापेक्षं च तदेव प्रत्यक्षम्, इदं तु पुनरिन्द्रियज्ञानं परिस्फुटमपि
नात्ममात्रापेक्षं तदन्यस्येन्द्रियस्याप्यपेक्षणात् । अत एकाङ्गविकलतया परोक्षमेवेति मतम् । ११ ततस्तन्मतानुसरणेन अवध्यादिज्ञानस्य समग्रलक्षणतया प्रत्यक्षत्वप्रतिपादनार्थ मुख्यग्रहणम् ।
इन्द्रियज्ञानमपि व्यवहारे वैशद्यमात्रेण प्रत्यक्षं प्रसिद्धम् , अतस्तदनुसारेण 'तत्प्रत्यक्षत्वं न मुख्यत इति ज्ञापनार्थं संव्यवहारपदोपादानम् । मुख्यतया हि तत्प्रत्यक्षत्ववर्णने 'सूत्रविरोधः स्यात् तत्र तस्य परोक्षत्वकथनात्, ततो न किश्चिदवद्यम् ।
१ स्मरणादिभिरपि । २ -तन्यायोपचारितत्वो- ता० । ३ अवग्रहादेः। ४ अनुमानस्यापि । ५ वैशद्यसाधनार्थत्वात् । ६ अवेद्यादि-आ०, ब०, ५०। ७ हेतोरनन्वयित्व-आ, ब०, प, स०। ८-ज्ञानवै-ता० । ९ चावेद्यादि-आ०, ब०, ५०, स०। १०-प्रतिपत्तिनि-आ०, ब०, ५०। ११ अस्मत्प्रतियोग-आ०, १०, १०, स.। १२ प्रतिसाधनात् आ०, ब०, ५०, स०। १३ चात्र के-आ०,ब०,१०,स०। १४ इन्द्रियज्ञानस्य । १५ "आये परोक्षम्" [त. सू० १११] इति सूत्रणात् इन्द्रियज्ञानस्य परोक्षत्वं सूत्रकारमते । १६-रवै-ता। १७ इन्द्रियज्ञानस्य प्रत्यक्षत्वम् । १८त. सू. ११५।