________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव: यत्पुनरेतत्-स्पष्टं प्रत्यक्षं सन्निहितार्थत्वात् , पराभिमतदर्शनवदिति; तत्र किमिदमर्थस्य सन्निहितत्वम् ? स्वज्ञानजननसामर्थ्यमिति चेत् ; न; तस्य निषेधात् । योग्यदेशाद्यवस्थानमिति चेत्; क्व देशादेर्योग्यत्वम् ? अर्थज्ञानजनन इति चेत् ; न; तस्यापि तज्ज्ञानविषयत्वे तदयोगात् । अविषय एवासौ चक्षुरादिवदाधिपत्यमात्रेण प्रवृत्तेरिति चेत् ; न; अत्रापि "इन्द्रियमनसी विज्ञानकारणम्" [लघी० श्लो० ५४] इत्यस्य विरोधात् । न हीन्द्रियमनोभ्यामन्यस्यापि देशादेस्तद्धेतुत्वे तदु- ५ भयमेव तद्विज्ञानकारणमित्युपपन्नम् । अर्थस्य ग्राह्यत्वसम्पादने देशादेर्योग्यत्वमिति चेत्, न; तस्य ज्ञानशक्तित एव भावात्, अन्यथा तत्कल्पनावैयर्थ्यात् । तच्छक्तितः सर्वत्र कस्मान्न तदिति चेत् ; देशादिशक्तितोऽपि कस्मान्न भवति ? प्रतिनियतत्वात्तस्या इति चेत् ; ज्ञानशक्तरपि समानः प्रतिनियमः । यस्य तु न प्रतिनियतशक्तिकत्वं ज्ञानस्य तच्छक्तितो भवत्येव सर्वस्य ग्राह्यत्वम् । तन्न योग्यदेशाद्यवस्थानमर्थस्य सन्निहितत्वम् ।
नैकट्यमिति चेत् ; तदपि न देशकृतम्; दूरतारकादिप्रत्यक्षेष्वसत्त्वात् । नापि कालकृतम्; चिरभाविवस्तुविषर्यसत्य स्वप्नादिप्रत्यक्षेष्वविद्यमानत्वात्। एतेन तदुभयकृतं प्रत्युक्तम्; तदुभयदूरस्यापि सत्यस्वप्नसंवेदनविषयत्वात् । तदयं भागासिद्धो हेतुः, पक्षीकृतेष्वपि दूरतारकादिप्रत्यक्षेष्वविद्यमानत्वात् । अथ न तेषां पक्षीकरणम् ; कुतस्तर्हि तद्वैशद्यसिद्धिः? अन्यत इति चेत्; तदेवासन्नवृक्षादिप्रत्यक्षेऽपि वक्तव्यं व्याप्तेायात् किमनेन ? दूरासन्नादिप्रत्यक्षसाधारणं १५ किञ्चित्साधनमिति चेत्, न; यद्यथा निर्बाधमवभासते तत्तथैवास्ति यथा नीलं नीलतया, निर्बाधमवभासते च स्पष्टतया प्रत्यक्षमित्यादेर्भावात् ।
ग्रहणशक्यत्वमपि न तस्य सन्निहितत्वम् ; असिद्धः, ग्राह्यत्वस्य ज्ञानबलादेव द्विचन्द्रवद्भावात् । अनैकान्तिकत्वाच्च-स्मरणाद्यर्थस्य ग्रहणशक्यत्वेऽपितद्वेशद्याभावात् , तदर्थविषयत्वस्य च निरूपयिष्यमाणत्वात् । तन्नेदमपि तस्य सन्निहितत्वम् ।
यद्येवं कथमुक्तं शास्त्रकारेण-"स्पष्टं सन्निहितार्थत्वात्" [प्रमाणसं० श्लो० ४ ] इति चेत् ; न ; परमतानुज्ञामात्रेण तद्वचनात् । न हि शास्त्रकारस्येदं स्वतन्त्रवैशद्यसाधनम्, उक्तदोषाणामशक्यपरिहारत्वात् , अपि तु योऽसौ मन्यते सौगत:-"निर्विकल्पकं दर्शनं सन्निहितार्थस्वाद्विशदम्" [ ] इति; तं प्रत्यनेकान्तगोचरस्याप्यक्षज्ञानस्य वैशद्यं तेनैव तत्प्रसिद्धन हेतुना प्रतिपाद्यते सौकर्यार्थम् । परो हि तत्प्रसिद्धनैव हेतुना प्रतिपाद्यमानः प्रतिपत्तिसौकर्य २५ प्राप्नोति । न चात्र तस्य दोषोद्भावनमपि सम्भवति निर्दोषतया प्रसिद्धत्वात्, अन्यथा ततो निर्विकल्पै वैशद्यसाधनायोगात् । किं तर्हि शास्त्रकारस्य स्वतन्त्रं वैशद्यसाधनमिति चेत् ? उक्त
१-वं च वि-आ०, ब०, ५०, स.। २ योग्यत्वस्यापि । ३ न तहीन्द्रि-आ०, ब०, ५०, स०। १-वेन तदु-आ०,०प०स०।५ शानशक्तितः। ६ सर्वज्ञस्य । • वैशद्यमि-आ०, ब०, ५०,स०। ८-यस्य सत्य-मा०,०, प०, स.। ९ अर्थस्य । १० स्मरणादिषु वैशद्याभावात् । ११ स्मरणादीनाम् अर्थविषयत्वस्य १२ स्वतन्त्रं वै- आ०,०,१०, स०। स्वसिद्धान्तसम्मतवैशद्य। १३ "इन्द्रियगोचरो ह्यर्थः विशदप्रतिभासः. विप्रकृष्ट चार्थे अस्पष्टप्रतिभासिता ।"-प्र. वार्तिकाल. ११३०। १४-ल्पकवैश-मा०, ब., १०, स.। १५ स्वतन्त्रवै-मा०,०प०स०।
२०