________________
९८
न्यायविनिश्वयविवरणे
[ १३
न्यायेन प्रत्यक्षमेवेति ब्रूमः । तत्र यः तत्प्रसिद्धमपि तन्न तथा व्यवहरति स तेनैवाध्यक्ष प्रेतिसिद्ध(प्रसिद्ध ) तत्प्रतिभासेन हेतुना तद्व्यवहारः कार्यते तथाविधापरव्यवहार विषय निदर्शनोपदर्शनात् । तदुक्तं सिद्धिविनिश्चये
“पश्यन्स्वलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् ।
यद्व्यवस्यति वैशद्यं तद्विद्धि सदृशस्मृतेः ।। " [सिद्धि वि०प्र० परि०] इति । ततः सूक्तम् -'प्रत्यक्षलक्षणं प्राहुः स्पष्टमञ्जसा' इति ।
तदेवं तद्वचनसामर्थ्यात् परोभ्यम्पष्टमञ्जसेति निवेदितं भवति प्रत्यक्षप्रतियोगित्वात् परोक्षस्य । तत्प्रतियोगित्वं च तद्विरुद्धधर्माध्यासादेव । न हि तद्धर्माक्रान्तस्यैव तत्प्रतियोगित्वम् ; अतत्प्रतियोगिन एव कस्यचिद्भावापत्तेः । तत्प्रतियोगित्वमेव तस्य कैस्मात् ? अवैशद्यात् । तदपि - १० कुतः ? तत्प्रतियोगित्वात् । परस्पराश्रय इति चेत्; नेदमिदानीं प्रयत्नसाध्यं प्रसिद्धत्वात् । तत्प्रति योगित्वं हि तद्विजातीयत्वम्, तच्च लोकत एव प्रसिद्धम् । केवलं प्रत्यक्ष वैशद्येन लक्षिते परोक्षमवैशद्येन लक्षितव्यम्, अन्यथा तद्विजातीयत्वायोगादित्येतदेवात्र प्रतिपत्तव्यम् । यद्येवं क प्रत्यक्ष प्रस्तावत्वमस्येति चेत् ? न; प्रत्यक्षस्यैव प्राचुर्यात् । भवति हि प्राचुर्येण व्यपदेशो यथा माकन्दवनमिति । न हि तत्र माकन्दा एवं, स्तोकशी वृक्षान्तराणामपि सम्भवात्, एवं सामर्थ्यात्परो१५ क्षलक्षणनिवेदनेऽपि प्रत्यक्षस्यैव प्राचुर्यात् तेनैवायमाद्यः प्रस्तावो व्यपदिश्यते नापरेण विपर्ययात् । प्रत्यक्ष प्राचुर्यञ्च तद्भेदस्येन्द्रियादिप्रत्यक्षस्य सविस्तरं निरूपणात् ।
,
किं पुनरिदमवैशद्यं नाम ? व्यवहितवस्तुविषयत्वमिति चेत्; न; देशकालव्यवायेऽपि क्वचिद्वैशद्योपलम्भात् । स्वभावव्यवहितस्यै तु ग्रहणमेव नास्ति । न चाग्रहणमेवावैशद्यम्; स्याद्वादिमतस्यानेवंविधत्वात्, अतिप्रसङ्गाच्च नीलदर्शनस्यापि तदापत्तेः, तस्यापि नीलव्यतिरिक्तनिरवशेषपदार्था२० न्तरपरिच्छेदपर ङ्मुखत्वात्, अविषयबाहुल्यनिबन्धनाच्च अवैशद्यप्राचुर्याविशदमेव वा सकलं छद्मस्थसंवेदनं प्राप्तम्, विषयस्तोकनिबन्धनस्य वैशद्यलेशस्य सतोऽप्यसत्कल्पत्वात् ।
वेदनान्तरसापेक्षत्वमवैशद्यमिति चेत्; उत्पत्तौ, ज्ञप्तौ वा तदपेक्षणम् ? उत्पत्ताविति चेत्; न; अतिप्रसङ्गात्, सर्वस्यापि वेदनस्य पूर्वपूर्ववेदनसापेक्षतयैवोत्पत्तेः । विषयज्ञप्तौ तु तदपेक्षणे प्रामाण्यमेव न स्यात्, स्वपरपरिच्छेदं प्रत्यनन्यसापेक्षस्यैव तत्त्वप्रतिज्ञानात् -"सिद्धं यन्न परापेक्षम् " [सिद्धिवि० प्र [०प्र० परि०] इत्यादिवचनात् । प्रमाणस्य चेदमवैशद्यचिन्तनम् । ततो यदि 'ईदृशमवैशयं न प्रामाण्यम्, तच्चेत् नेदृशमवैशद्यम्' इत्येकं सन्धित्सोरन्यत्प्रच्यवेत । तन्नेदमप्यवैद्यधम् । ध्यामलित प्रतिभासित्वमिति चेत्; उच्यते
२५
यामावभासित्वमप्यवैशद्यमाञ्जसम् ।
रूपदर्शन एवेदं यन्त्र शब्दादिवेदिने ॥ २९४ ॥
१ प्रत्यक्ष सिद्धमपि ।
प्रतिषिद्ध - प० । ३ तत्सिद्धसदृश प० । ४ तस्मात् आ, ब० प०, स० । ५ एवास्तोक -आ०, ब०, प०, स० । ६-स्य तद्रह - भा०, ब०, प०, स० । ७ वेदनान्तरापेक्षणे । ८ - णस्ये. दमवे-आ०, ब०, प०, स० ।