________________
१३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
न च तद्वेदनं सर्वं स्पष्टमेवेति युक्तिमत् । शब्दादिगोचरस्यापि स्मरणादेः प्रसिद्धितः ॥ २९५॥ किञ्च ध्यामलितत्वं चेदर्थधर्मोऽभिमन्यते । ज्ञानस्य तेनावैशद्यं कथं नामोपपत्तिमत् ? ॥ २९६ ॥ अन्यथार्थस्य नीलत्वान्नीलं तद्वेदनं न किम् ? । ज्ञानधर्मो मतं तच्चेत्; चाक्षुषं तत्कथं भवेत् ? ॥ २९७॥ अन्धकारप्रतिच्छायं गृह्यते तद्धि चक्षुषा । न ज्ञानं चाक्षुषं चक्षुरमूर्त्तो यन्न वर्त्तते ॥ २९८ ॥ तस्यानुभधर्मत्वे तत्किं यदि न किंञ्चन ।
कथं भाति ? विभात्येव मृगतृष्णाम्बुवद्यदि ॥ २९९॥ कथं तेनाप्यवैशद्यं वेदने परिकल्प्यताम् ।
साकारज्ञानवादस्य कथं प्रच्युतिरन्यथा ? ॥ ३०० ॥
१९.
ध्यामलित प्रतिभासित्वमवैशद्यमित्यनुपपन्नम्, अव्यापकत्वात्, रूपज्ञान एव तस्य भावात् शब्दादिवेदनेषु विपर्ययात् । न च शब्दादिज्ञानं सर्वमपि स्पष्टमेवेत्युपपन्नम् ; तद्विषयस्याप स्मरणादेः परोक्षज्ञानस्य सुप्रसिद्धत्वात् ।
१०
१५
अपि च, इदं ध्यामलितत्वमर्थधर्मश्चेत्; कथं तेन ज्ञानमविशदव्यपदेशं प्रतिलभेत ? विषयधर्मस्य विषयिण्युपचाराश्चेत्; परमार्थतस्तर्हि सकलमपि ज्ञानं विशदमेवेति प्राप्तम् । न चैतदुचितम्, अनभ्युपगमात् । अर्थस्यै च ध्यामलितत्वात् तज्ज्ञानस्यापि तत्त्वे नीलत्वापि तस्य स्यात् तदर्थस्य नीलत्वात् । तन्नायमर्थधर्मः ।
नापि ज्ञानधर्मः ; चक्षुर्विषयत्वात् । न हि चक्षुषो ज्ञानगोचरत्वम्; तस्य मूर्त्तिमत्पदार्थ - २० विषयत्वेन प्रसिद्धत्वात् ज्ञानस्य चामूर्त्तिमत्त्वात् । न च ध्यामलिताकारस्य चक्षुर्विषयत्वमसिद्धम् ; अन्धकारप्रतिकञ्चुकस्य तस्य चक्षुर्वेद्यतयैव प्रतीतेः । अनुभयधर्म एवायमिति चेत् ; न ; ज्ञानार्थव्यतिरेकिणस्तृतीयस्य राशेरभावात् । नीरूपमेवेदमिति चेत्; तादृशस्य कुतः प्रतिभासनम् ? कारणदोषसामर्थ्यान्मृगतृष्णि काजलवदिति चेत्; भवत्वेवम्, तथापि कथं तेन ज्ञानस्यावैशद्यम् ? तदाकारत्वादिति चेत् ; न ; साकारसंवेदनवादप्रतिक्षेपाभावप्रसङ्गात् । तन्नेदमवैशद्यम् ।
२५
'अवस्तुसामान्याकारत्वं तत्' इत्यप्यसमञ्जसम्; साकारवादनिषेधेन तन्निषेधात् । तस्मादर्थज्ञानस्यैव प्रतिबन्धकादृष्टविगमविशेष निबन्धनं परिणति विशेष एव " कश्चित्तदित्यनवद्यम् । तदेवं प्रत्यक्षं तल्लक्षणसामर्थ्यात्परोक्षं च वैशद्याऽवैशद्याभ्यां लक्षितम् । तच्चोभयं निर्वि कल्पकमेवेति कश्चित्, तत्राह - 'साकारम्' इति । करोतिः " अत्र निश्चयार्थः । " कृतेनाकृतवी
1
१ शब्दादिवेदनम् । २ घ्यामलितत्वम् । ३ -स्य घ्या-आ०, ब०, प०, स० । ४ - स्यापि पीतत्वे आ०, ब०, प०, स० । ५ ध्यामलितत्वे । ६ - मपि स्था-आ०, ब०, प०, स० । ७ - व्यतिरेकेण तृ-आ०, ब०, प० । ८ कथन्न ज्ञा-आ०, ब०, प०, स० । ९ - नमपरिणतिविशेषः क-आ०, ब०, प०, स० । १० अवैशद्यम् । ११ - ति कुतश्चि-आ०, ब०, प०, स० । १२ - ति तत्र नि-आ०, ब०, प०, स० ।