________________
५
ननु च निश्चयो नामाभिजल्पवान् प्रतिभासः । स च संवेदनस्य स्वरूपे वा स्यात्, अर्थरूपे वा ? न तावत्स्वरूपे; तस्य अशक्यसमयत्वात् । अभिजल्पसमयो हि क्रियमाणः 'इदमस्य वाचकं वाच्यं वा' इति क्रियते । न च क्षणमात्रपर्यवसितं तत्स्वरूपमन्यद्वा किञ्चिदस्येत्यनुवदितुं शक्यम्, क्षणादूर्ध्वं तदभावात् असतश्चानुवादायोगात् । न च तत्सत्ताक्षण एवानुवादः ; तैस्यानुविवदिषित वस्तुस्वरूपसंवेदनपूर्वकत्वेन समसमयत्वानुपपत्तेः । अस् १० स्मरणोपनीतस्यानुवाद इति चेत्; किमिदं तेन तस्योपनयनं नाम ? स्वस्वरूपवेदनमिति चेत्; न; असतस्तद्योगात् । न ह्यसत् स्वरूपेण वेदितुं शक्यम्; सत्त्वप्रसङ्गात् । न हि स्वरूपप्रतिभासनाद् अन्यदन्यस्यापि सत्त्वम् । असतोऽपि सत्त्वेनाध्यारोप इति चेत्; अध्यारोपितस्यैव तर्हि तदाकारस्य शैक्याभिजल्पसमयत्वं न संवेदनस्वरूपस्य तस्य पूर्वापरीभावविधुरशरीरत्वेनाशक्यानुवादत्वात् । न चाकृतसमयस्याभिजल्पस्य तंत्र योजनम् ; सर्वस्य सर्वत्र योजनप्रसङ्गात्, १५ इत्यनभिजल्पानुषङ्गमेव सर्वस्यापि ज्ञानस्य स्वरूपवेदनम् - उत्पद्यमानमेव हि तत् संवित्तिविषयभावं बिभर्त्ति तद्व्यतिरेकेण तत्संवित्तेरभावात् तदा च न पूर्वापरभावो नाप्यभिजल्पयोजनं यतः सविकल्पकत्वं भवेत् । तस्मात्तत्क्षण एव जातस्य साक्षाद्वेदने निर्विकल्पकत्वमेव । सहजाभिजल्पसंसर्गात् सविकल्पकत्वमेवेति चेत्; न; सहर्जस्य अभिलापस्याभावात् । भावेऽपि स्वतस्तद्विविक्तत्वात् संवेदनस्य न " तत्संसृष्टत्वेन वेदनम् । समसमयत्वेन' वेदनमेव संसर्ग इति २० चेत्; न; तस्येतरेतराध्यासरूपत्वात् तस्य च वाच्यवाचकभावनिबन्धनत्वात् । तद्भाव न स्वाभाव्यादेव, सर्वस्यापि तत्प्रतिपत्तिप्रसङ्गात् समयवैयर्थ्यापत्तेश्च । समयादिति चेत्; न; तदैवोत्पन्ने 'तेंदशक्यत्वस्य निरूपितत्वात् । भवति चात्र परस्य वचनम् -
"
१००
न्यायविनिश्चयविवरणे
[ १३
क्षणात् " [ ] इत्यत्र 'निश्चितेनानिश्चितदर्शनात्' इत्यर्थग्रहणात् । ओङ अभिव्याप्तौ
अभिव्याप्तिश्च शक्त्यपेक्षया ततो यस्य यावती शक्तिः तावत्येव विषये सा वेदितव्या । तदयमर्थःआ समन्तात् करणमाकार: शक्यविषयाभिव्यापी निश्चयः, तेन सह वर्त्तत इति साकारं प्रत्यक्षलक्षणम् । सामर्थ्यलक्षितं च परोक्षमिति ।
२५
""" तदैव चोदितस्यास्य साक्षाद्वित्तौ न कल्पना । अभिलापेन संसर्गादिति चेन्नाभिलाप (प )ता || ज्ञानस्य तद्विविक्तत्वे कथं संसर्गसम्भवः ।
समानकालविन्मात्रान्नैव संसर्ग उच्यते ।। " [ प्र० वार्तिकाल० २।२४९] इति । तन्न संवेदनस्याभिजल्पवत्त्वं स्वरूपे सम्भवति ।
१ आभावोऽभि-आ०, ब०, प०स० । २ अभिव्याप्तिः । ३ "विकल्पो नामसंश्रयः " - प्र०वा० २।१२३ ।
४ अनुवादस्य । ५. शक्त्याभि-आ०, ब०, प०, स० । शक्यसङ्कतत्वम् । ६ तत्प्रयो-आ०, ब०, प०, स० । ७ - त्र प्रयोज - आ० ब०, प०, स० । ८ -नेन नि-आ०, ब०, प०, स० । ९ - स्याप्यभि - आ०, ब०, प०, स० । १० अभिजल्पसंसृष्टत्वेन । ११ -यत्वे वेद-आ०, ब० । १२ -३च न तत्स्वा-आ०, ब०, प० । १३ चेत्तदेवोत्प-आ०, ब०, स०| १४ सङ्केताशक्यत्वस्य । १५ तदेव चो-आ०, ब०, प०, स० । “तदेव चोदिते तस्य अभिलापस्य संसर्गादिति चेन्नाभिलापिता । सुखस्य तद्विविक्तत्वे समानकालविन्मात्रान्नैष .." प्र० वार्तिका० ।
1
१६- जल्पत्वं आ०, ब०, प०, स० ।