________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव अर्थरूपे तत्सम्भव इति चेत् ; न; तस्यापि यदि ग्रहणम् ; तदा तनिर्विकल्पकमेव, तद्विषयस्याप्यतिसूक्ष्मसमयमात्रमग्नशरीरस्य अशक्यसमयत्वेनाभिजल्पवत्त्वायोगात् , परिस्फुटप्रतिभासत्वाच्च । यदि तस्य न ग्रहणम् ; तथापि न तत्र विकल्पसम्भवः । न ह्यग्रहणमेव विकल्पः, अतिप्रसङ्गात्-सर्वसंवेदनानामन्योन्यविषयापेक्षया तदप्रहणात्मकत्वाविशेषात् । अध्यारोपितार्थापेक्षया तर्हि विकल्पसम्भव इति चेत् ; न; अध्यारो. ५ पार्थापरिज्ञानात् । अर्थग्रहणमध्यारोप इति चेत् ; न; कथितोत्तरत्वात् । तदाहणं से इत्यपि तादृशमेव । न चापरमध्यारोपस्य रूपं पर्यालोच्यमानं सम्भवति । यत्र तर्हि ग्रहणमध्यारोपश्च तत्र तत्सम्भव इति चेत् ; ननु यदि ग्रहणारोपयोर्न भेदः किमुभयोपादानेन पौनरुत्यदोषात् ? ग्रहणमित्येव वा आरोप इत्येव वा वक्तव्यम्, तत्र च प्रागेव दूषणं प्रतिपादितमिति न पुनः प्रतिपाद्यते । यदि पुनर्भेद एव तैयोस्तथापि विज्ञानद्वयमेवैककालं प्रसक्तम्-यद्हणात्मकं १० तन्निर्विकल्पकं यच्चारोपात्मकं तत् सविकल्पकमिति; तदिदमप्यसमञ्जसम् ; आरोपस्य ग्रहणाग्रहणाभ्यां विचारितत्वात् । भवति चात्र परस्य वचनम्
"यदि ग्रहणमर्थस्य विकल्पः कथमत्र सः १ । अथाग्रहणमर्थस्य विकल्पः कथमत्र सः ॥ अथार्थारोपतस्तत्र विकल्पत्वं निरुच्यते । ग्रहणाग्रहणे मुक्त्वा तत्राप्यर्थोऽस्ति नापरः ॥ ग्रहणारोपसद्भावे विकल्प इति चेन्मतिः। ग्रहणारोपयोरैक्ये द्वयोः सम्भव इत्यसत् ॥ तत्रैकपक्षनिक्षिप्तो दोषः प्रागेव वर्णितः। अथ भेदस्तयोरस्ति द्वयमेव प्रसज्यते ॥
निर्विकल्पकसंवित्तिः सविकल्पा तदैव च ।" [प्र०वार्तिकाल० २।२४९] इति । तन्न स्वरूपेऽर्थरूपे वा निर्णयसम्भवः, तस्मादयुक्तं साकारग्रहणमिति चेत् ; नेदमतिनिर्बन्ध. प्रतिविधेयम् अतिमुग्धभाषितत्वात् । तथाहि-योऽयं तदैव चोदितस्य' इत्यादिवचनप्रक्रमः स यदि निष्प्रयोजन एव ; कथं तत्र प्रलापमात्रे प्रेक्षावतामादरो यतोऽयं शास्त्रोपनिबन्धः क्रियते ? कथं वा तत्प्रक्रमोपन्यासकारिणो निग्रहाधिकरणत्वं न भवेत् असाधनाङ्गवचनत्वात् १ सप्रयोजनत्वे २५ यदि तत्प्रयोजनं सकलसंवेदननिर्विकल्पकत्वसाधनादन्यदेव; स एव दोषः तद्वादिनो निप्रहाधिकरणत्वमिति प्रस्तुतानुपयोगिनस्तत्प्रक्रमस्यासाधनाङ्गवचनत्वात् । तनिर्विकल्पत्वसाधनमेव तत्प्रयोजनमिति चेत् ; तदपि तत्प्रक्रमस्य स्वयं तत्परिच्छेदरूपत्वात् , तत्परिच्छेदहेतुत्वाद्वा भवेत् ? स्वयं तत्परिच्छेदरूपत्वे सिद्धममिजल्पवत्त्वं तत्प्रतिभासस्य स्वभावभूतस्यैवाभिजल्पस्य तंत्र
-मात्रामग्न-भा०, ब०, ५०, स.। २ अध्यारोपः । ३ प्रहणारोपयोः। ४ "सविकल्पकसंवित्तिः अविकल्पा तदैव च ।"-प्र. वार्तिकाल । ५ यत्तदैव आ०, ब०, ५०, स०। ६ अभिजल्पपरिच्छेद । ७ तत्प्रभावा-भा०, ब०,०।