________________
१०
१५
१०२
न्यायविनिश्चयविवरणे
[ १२३
भावात् । अभिजल्प एवासौ केवलं न प्रतिभास इति चेत्; न; स्वयं तत्परिच्छेदरूपत्वाभावप्रसङ्गात् । न ह्यप्रतिभासः परिच्छेदो नाम । भवतु स एव एकः प्रतिभासोऽभिजल्पवान्नापर इति चेत्; न; सर्वसंवेदननिर्विकल्पत्वप्रतिज्ञाव्याघातात्, तद्वदन्यस्याप्यभिजल्पवेत्त्वसम्भवाच्च । तथा हि-विवादाध्यासितः सर्वः प्रतिभासोऽभिजल्पवान् । तत्वात्तन्निर्विकल्पत्वसाधनप्रतिभासवत् ॥ ३०१ ॥ स्वतोऽभिजल्पशून्यानां प्रत्ययानां प्रवेदनात् । प्रत्यक्षेणास्य पक्षस्य बाधनं यदि कथ्यते ॥ ३०२ ॥ अनिश्चितस्वभावं चेत्तत्स्वसंवेदनम् तदा । असिद्धमेव तत्तच्च कस्यचिद्वाधकं कथम् ? ॥ ३०३ ॥ अपि सिद्ध हेतुसिद्धिः कथन्न वः । तथा चासिद्धिविच्छित्त्यै " हेतौ निर्णयवर्णनम् ॥ ३०४ ॥ यत्कृतं कीर्त्तिना तत्स्यादपर्यालोच्य भाषितम् । स्ववेदनस्य तत्सिद्धिर्निश्चयादेव हेतुवत् ॥ ३०५ ॥ निश्चयो नाभिजल्पेन विना वः सम्भवत्ययम् ।
तत्सिद्धाः प्रत्ययाः सर्वे साभिजल्पस्ववेदनाः ॥ ३०६ ॥ तथा च कस्यचिद्वाक्यं सविकल्पकवादिनः ।
"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते " ॥ ३०७ ॥
इति; तन्न तस्य स्वयं "तत्परिच्छेदरूपत्वात् 'तत्प्रयोजनवत्त्वम् ।
तत्परिच्छेदहेतुत्वादिति चेत्; न; अकृतसमयस्य " तदयोगात् । वाक्यमकृतसमयमेव स्वार्थपरिच्छेदनिमित्तम्, अनभ्यस्तशास्त्रव्याख्यानस्यापि दर्शनात, अन्यथा तदयोगादिति चेत्; न; एवमपि ' ततस्तदर्थज्ञानस्य "तदनुविद्धतया सविकल्पकस्यैव भावात् सर्वस्यापि " " ततस्तदर्थ - प्रतिपत्तिप्रसङ्गाच्च ।
न केवलस्यैव वाक्यस्य " तत्परिज्ञानकारणत्वमपि तु पदतदर्थ सम्बन्धपरिज्ञानसहितस्य, तस्य च सर्वत्राभावान्नातिप्रसङ्ग इति चेत्; कथं नातिप्रसङ्गः ? " तत्सम्बन्धपरिज्ञानस्यापि समयनिरपेक्षत्वे - 'सर्वत्र कस्मान्न भावः' इति परिचोदनस्य तदवस्थत्वात् । समयसापेक्षमेव तदिति चेत्; न; अशक्यसमयत्वप्रतिज्ञाव्याघातात् । " तज्ज्ञानस्य चाभिजल्पवत्त्वेन सविकल्पकत्वात्,
२५
२०
१ – वरवासम्भ-आ०, ब०, प०, स० । २ सर्वप्रति - आ०, ब०, प०, स० । ३ तथा आ०, ब०, प०, स० । ४ तत्सिद्धो आ०, ब०, प०, स० | ५ हेतोनिर्ण-आ०, ब०, प०, स० । ६" हेतोत्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः || ” ( प्र०वा० ३ | १४ ) इत्यनेन हेतोः असिद्धादिदोषपरिहारार्थे त्रिरूपत्वमुक्तं धर्मकीर्त्तिना । ७ न हि जल्पेन भा०, ब०, प०, स० । ८ वाक्यप० १।१२४ । ९ वचनप्रक्रमस्य । १० अभिजल्पपरिच्छेद । ११ निर्विकल्पत्वसाधनरूपप्रयोजनवत्त्वम् । १२ शब्दपरिच्छेदहेतुत्वायोगात् । १३ वाक्यात् । १४ शब्दानुस्यूतत्वेन । १५ अकृतस तस्यापि । १६ वाक्यात् । १७ तदर्थपरिज्ञान । १८ पदतदर्थसम्बन्ध । १९ अर्थज्ञानस्य ।