________________
१३]
प्रथमः प्रत्यक्षप्रस्तावः सर्वसंवेदननिर्विकल्पत्वव्यावर्णनं प्रेक्षावत्त्वं परस्य प्रतिक्षिपति । पदस्य च शक्यसमयत्वे वाक्यस्यापि तदवश्यम्भावि, पदपर्यायविन्यासव्यतिरेकेण वाक्यस्यैवाभावात्. तदभावस्य चोत्तरत्र निरूपणादिति सिद्धमभिजल्पवत्त्वं वाक्यार्थपरिज्ञानस्येति कथमिव सर्वथा विकल्पाभावप्रवादः शोभेत ? तन्नास्य तत्परिच्छेदहेतुत्वेनापि तत्प्रयोजनत्वम्, विकल्पसिद्धिप्रसङ्गात् ।
विकल्पास्तित्वसमारोपव्यवच्छेद एवानेने क्रियते न तत्परिच्छेद इति चेत् ; न; ५ समारोपार्थापरिज्ञानात् । तदस्तित्वग्रहणं तदर्थ इति चेत् ; ननु तदेव नास्ति सर्वसंवेदन निर्विकल्पकत्वप्रतिज्ञानात् । कथमसतो ग्रहणं च ? ग्रहणं हि तस्य स्वरूपप्रतिभासनमेव, न चासतः स्वरूपम्; विरोधात् । ग्रहणमपि तस्य॑ समारोपादिति चेत्, न; 'समारोपार्थापरिज्ञानात्' इत्यादेः प्रसङ्गादनवस्थापत्तेश्च । तँदग्रहणं तदर्थ इति चेत्, तद्व्यवच्छेदस्तर्हि तहणं प्राप्तम् , तदिदं शान्तिविधानेन वेतालोत्थापनम्, विकल्पसद्भावव्याधिविध्वंसनार्थ तत्समारोपव्यवच्छेदं कुर्वता तदस्तित्वग्रहणस्यैव स्वचित्तपरितापकरस्योत्थापितत्वात् । प्रत्याख्यातं चाग्रहणस्य समारोपत्वम् । ग्रहणाग्रहणाभ्यामन्य एव तर्हि तदर्थ इति चेत् ; न; "ग्रहणाग्रहणे मुक्त्वा तत्राप्यर्थोऽस्ति नापरः" [प्र. वार्तिकाल० २।२४९] इति स्ववचनव्याघातापत्तेः । कथं वास्यं तद्व्यवच्छेदकरत्वम् ? विरोधादिति चेत् ; न ; निश्चयस्यैव समारोपविरोधात्, अस्य च वचनप्रक्रमस्याचेतनत्वेनानिश्चयरूपत्वात् । तद्विरोधिनिश्चयनिमित्तत्वेन अस्यापि १५ तद्विषेधित्वमिति चेत् ; न ; तन्निमित्तत्वे विकल्पस्यानिषेधात् । ततः स्थितम्-विकल्पानभ्युपगमे अतिनिष्प्रयोजन एवायं वचनप्रक्रम इति ।
भवतु तर्हि विकल्पः कल्पनया' न परमार्थतः, सर्वस्यापि संवेदनस्य स्वप्राह्यविषये शब्दसम्बन्धवर्जितस्यैव प्रवृत्तेः । तथा चोक्तम्
"असाक्षात्करणाकारे यत्र स्यात्कल्पनान्तरैः । व्यवहारः स एवात्र विकल्पो लोकसम्मतः ॥ दर्शनाभिमतिर्यत्र तज्ज्ञानमविकल्पकम् । "साक्षात्कृत्यविधि)मोक्षाच्च प्रत्यक्षमिति गीयते ॥ परमार्थतस्तु विज्ञानं सर्वमेवाविकल्पकम् ।
स्वग्राह्यविषये सर्वस्याविकल्पेन वृत्तितः ॥ [प्र० वार्तिकाल० २।२४९] २५
इति चेत् ; अत्राह-अञ्जसा परमार्थत एव साकारं न कल्पनयेति । तथा हिअस्ति वस्तुभूतो विकल्पः, तत्कल्पनान्यथानुपपत्तेः । अस्पष्टप्रतिभासे हि प्रत्यये परेण विकल्पत्व
क्रमविन्यास । २'तदैव चोदितस्यास्य' इति वचनप्रकमेण । ३ "सकलसंवेदननिर्विकल्पत्वपरिच्छेदः"-ता. टि०। ४ विकल्पास्तित्व । ५ विकल्पास्तित्वमेव । ६ विकल्पस्य । ७ विकल्पाग्रहण समारोपार्थः। ८ विकल्पग्रहणम् । ९ समारोपार्थः । १० वचनप्रक्रमस्य । अस्य वच-आ०, ब०,५०, स.। १२ समारोपविरोधि । १३ वचनप्रक्रमस्य । १४ अनिषेधप्रसङ्गात् । १५-या परमा-आ०, ब०, ५०, स०।१६ साक्षात्कृवदिमो-मा०, ब०, प., स.। "साक्षात्कृस्यधिमोक्षाच"-प्र. वार्तिकाल।