________________
न्यायविनिश्चयविवरणे
[ १३
परिकल्पनमभ्यनुज्ञायते । तंत्र च न तावत्से एव तस्यै विकल्पत्वं कल्पयति ; स्वयमकल्पनात्मकत्वात् । ‘परमार्थतस्तु विज्ञानम्' इत्यादि वचनात् । न ह्यकल्पनात्मनस्तत्कल्पनम्; प्रत्यक्षेऽपि तत्प्रसङ्गात् । कैल्पनात्मापि तैस्यास्तीति चेत्; किर्मपरतत्कल्पनेन वैयर्थ्यात् । तदात्मापि यदि वस्तु एव, सिद्धं नः समीहितम्, पारमार्थिकस्यैव विकल्पस्य व्यवस्थापनात् । ५ सोऽपि कल्पित एवेति चेत्; न; तत्रापि 'न तावत्स एव' इत्यादेर्दोषात् चक्रकप्रसङ्गात्, अनवस्थापत्तेश्च । परतस्तत्रं तंत्कल्पनमिति चेत्; न; परेणापि स्वयमविकल्पात्मना तत्कल्पनाऽयोगात् । विकल्पात्मापि तस्येति चेत्; न; तस्य परमार्थत्वे परमतसिद्धिप्रसङ्गात् । कल्पितत्वेऽपि न स्वतस्तत्कल्पनम् ; उक्तदोषत्वात् । परतस्तत्कल्पनं चेत्; न; 'परेणापि' इत्यादिप्रसङ्गपौनःपुन्येन चक्रकानवस्थयोरप्रतिहतप्रसरत्वात् । ततो दुर्भाषितमेतत् - 'यत्र स्यात्कल्पनान्तरैर्व्यव१० हारः' इति ; परमार्थतः " कल्पनया च कल्पनान्तराणामेवासम्भवात् ।
भवतु तर्हि "परमार्थत एव कश्चिद्विकल्प:, तथापि किमायातं प्रत्यक्षस्य येन तदपि सविकल्पकमुच्यते इति चेत् ? अभिमतस्यापि कुतः सविकल्पकत्वम् ? तत्प्रतिभासस्याभिजल्पवत्त्वादिति चेत्; न; अकृतसमयेनाभिजल्पेन तस्य तद्वत्त्वायोगात् अतिप्रसङ्गात् । नापि कृतसमयेन ; विस्मृतेनापि तत्प्रसङ्गात् । अनुस्मृतेनेति चेत्; न; १५ तदनुस्मरणस्य "निर्विकल्पत्वे तद्विषयस्यान्यत्र " योजनाऽसम्भवात् क्षणक्षयादिवत् । सविकल्पक
तस्याप्यभिजल्पवत्त्वम् अनुस्मृतेनैवाभिजल्पेन, तदनुस्मरणस्यापि तद्वत्त्वं तदपरानुस्मृताभिजल्पेनेत्यनवस्थानान्न प्रकृतविकल्पनिष्पत्तिर्भवेत् । तन्नाभिजल्पवत्त्वात्तस्य सविकल्पकत्वम् । ""अभिजल्पयोग्यविषयत्वादिति चेत्; कोऽसौ तद्विषय: ? अनुवृत्तव्यावृत्तादिस्वभावो भाव एव, तदपरस्य तद्योग्यस्यासम्भवादिति चेत्; तदियमकस्मादस्माकं महानिधिप्राप्तिः प्रत्यक्षस्यापि २० 'र्तत एव सविकल्पकत्वोपपत्तेः, इदमेवाह 'द्रव्य' इत्यादि । द्रव्यं चान्वयरूपं सुवर्णवत्, पर्यायाश्च व्यावृत्तिधर्माणः कटककुण्डलादिवत्, सामान्यं च सदृशपरिणामस्वभावं कुण्डलयुगलवत्, विशेषश्च विसदृशपरिणामलक्षणः केयूरहारवत्, द्रव्यपर्यायसामान्यविशेषास्त एवार्थात्मानौ तयोस्तद्रूपत्वात् तयोर्वेदनं प्रत्यक्षलक्षणम्, अतश्च साकारमिति ।
१०४
तदेवंलक्षणं प्रत्यक्षं त्रिविधं भवति । कथं पुनः कारिकायामनुक्त' त्रैविध्यमवगम्यते ? २५ " प्रत्यक्षं विशदं ज्ञानं त्रिधा" [ प्रमाणसं ० श्लो० २] इति शास्त्रान्तरे प्रतिपादनादिति चेत्; न; सामान्यलक्षणस्यापि तत्रैव प्रतिपादनादिहावचनप्रसङ्गात् । इहापि वृत्तिकारेण त्रैविध्यमुक्तमेवेति चेत्; सोऽपि कथं कारिकायामकथितं कथयेत्, कारिकाविवरणस्यै वृत्तित्वात्, अनुक्तव्याख्यानस्य विपर्ययादिति चेत् ? न ; अत्रापि पृथक् पृथक् तत्समर्थनेन
१ तत्र न च तावत् आ०, ब०, प०, स० । २ अस्पष्टप्रतिभासः । ३ स्वस्य । ४ कल्पनास्वरूपमपि । ५ अस्पष्टप्रति भास्य । ६ परं तहक-आ०, ब०, प०, स० । ७ कल्पनास्वरूपमपि । ८ अस्पष्टप्रतिभासे । ९ विकल्पत्व । १० कल्पनाया व आ०, ब०, प० । ११ परमार्थ एव सा० । १२ तद्वत्तायो - आ०, ब०, प०, स० । १३ निर्विकल्पत्वेपित - आ०, ब०, प०, स० । १४- न्यत्प्रयोज -आ०, ब०, प०, स० । १५ आभिजल्प-आ०, ब०, स० । १६ अनुवृत्त व्यावृत्तादिस्वभाव भावविषयत्वादेव । १७ - विचारस्यैव आ०, ब०, प०, स० ।