________________
१॥३] प्रथमः प्रत्यक्षप्रस्तावः
१०५ त्रैविध्यावगमात् । करिष्यते हि 'सदसज्ज्ञान' इत्यादिना इन्द्रियप्रत्यक्षस्य 'परोक्षज्ञान' इत्यादिनाऽनिन्द्रियप्रत्यक्षस्य, 'लक्षणं समम्' इत्यादिना चातीन्द्रियप्रत्यक्षस्य समर्थनम् । अत इन्द्रियप्रत्यक्षादिभेदेन त्रिविधमेव तदिति भवत्येव निर्णयः । तत्र
हिताहिताप्तिनिर्मुक्तिक्षममिन्द्रियनिर्मितम् ।
यद्देशतोऽर्थज्ञानं तदिन्द्रियाध्यक्षमुच्यते ॥३०८॥
इन्द्रियाणि चक्षुरादीनि तैर्निर्मितं तद्धेतुकं यदर्थस्य बहिर्घटादेः ज्ञानं तदिन्द्रियप्रत्यक्षं परिस्फुटत्वेन तल्लक्षणयोगात् । कुतः पुनश्चक्षुरादीन्द्रियकार्यत्वं घटादिप्रत्यक्षस्यावगम्यत इति चेत् ? कुतोऽयं प्रश्नः ? सर्वत्र कार्यकारणभावस्यैवासम्भवादिति चेत् ; न ; स्ववचनव्याघातात्-प्रस्तुतं हि प्रश्नवचनं परस्य स्ववचनम् , तदेव व्याहन्येत । यदि न सर्वत्र तेद्भावसम्भवः, तस्याहेतुकस्यासम्भवात् व्योमकुसुमवत् । सम्भवेऽपि देशकालादिनियमानुपपत्तेः । हेतुनिबन्धनो हि भावानां १० तन्नियमः कथं तदभावे भवेत् ? तथा चँ वादिवत् प्रतिवादिप्राश्निकादेरपि तत्प्रश्नवचनप्रसङ्गान्न कस्यचिदुत्तरवादित्वं न परीक्षकत्वं नापि नियामकत्वमिति प्राप्तम्, प्रश्नकृत एव तदनुपपत्तेः । वादिन एव तत्प्रश्नवचनं तस्यैव "हेतुहेतुमद्भावनिश्चयाभावान्न प्रतिवाद्यादेविपर्ययादिति चेत् ; "तन्निश्चयपूर्वकं तर्हि "तद्वचनमङ्गीकर्तव्यं तन्नान्तरीयकत्वात् , तथा च कथं सर्वत्र कार्यकारणभावाभावः ?"तद्वदन्यत्रापि "व्याप्तिव्यतिरेकयोः"सद्भावोपपत्तेः। तद॑यं तन्निश्चयतत्पर्यनुयोगवचनयोः १५ कार्यकारणभावं स्वयमेवोपदर्शयति सर्वत्र तदभावच कथयति इति कथं स्ववचनव्याघातपाशबन्धान्निर्मुच्येत ? तन्न तदभाव(तद्भाव )स्यासम्भवात्तत्पर्यनुयोगवचनम्", सम्भवेऽपि तस्य दुरवबोधत्वात्" । "दुरवबोधं खल्विदं यत्किञ्चित्कस्यचित्कार्य कारणं चेति, तद्भावस्य पूर्वापरभावाधिकत्वात् , तत्र च प्रत्यक्षस्य सन्निहितविषयमात्रपरिच्छेदस्वभावत्वेनाप्रवृत्तेः । तदप्रवृत्तौ तत्पूर्वकत्वेनानुमानस्यानुत्पत्तेरिति चेत् ; तदप्यसमीचीनम् ; "तदनवबोधतत्पर्यनुयोग- २० वचनयोरपि तद्भावपरिज्ञानाभावापत्तेः । भवोत्वति चेत् ; न तहीदमुपपन्नम्-'तदनवबोधात् तत्पर्यनुयोगः' इति । तदनयोहे तुफलभावपरिज्ञाने “सत्येव एवंवचनोपपत्तेर्नान्यथा रध्यापुरुषवत् । कथं तर्हि "तद्भावपरिज्ञानम् ? परस्यापि कथमिति चेत् ? भवतु परस्यापीदै चोद्यं न तावतैव स्वपक्षे समाहितं भवतीति चेत् ; आस्तां तावदेतत् , हेतुफलभावपरिज्ञानस्य यथावसरमुत्तरत्र निरूपणात् । तस्मादुपपन्नम् इन्द्रियकार्यं यत्तदिन्द्रियप्रत्यक्षमिति । २५
१ न्यायवि०का० ५। २ न्यायवि. का. ११। ३ न्यायवि. का. १६८। ४-हन्यते भा०, ब०, ५०, स.। ५ कार्यकारणभाव । ६ प्रश्नवचनस्य । ७ देशकालादिनियमः। ८ चानादिवत् आ०, ब....स। देशकालादिनियमाभावे । १ उत्तरवादित्वाद्यनुपपत्रोः। १०-द्भावाभावनि-ता।" हेतुहेतु. मद्भावनिश्चयपूर्वकम् । १२ प्रस्तुतप्रश्नवचनम् । १३ प्रस्तुतप्रश्नवचनवत् । १४ अन्वयव्यतिरेकयोः। १५ तद्भावोता.। १६-यं निश्च-आ०, ब०,०। १७ हेतुहेतुमद्भावनिश्चय । १८ कार्यकारणभावस्य । १९ 'कुतः पुनश्चक्षुरादीन्द्रियकार्यत्वं घटादिप्रत्यक्षस्य अवगम्यते ?' इति पर्यनुयोगवचनम् । २. कार्यकारणभावस्य । २१ -तू कल्पितं खल्विदं आ०, ब०, प० । २२ दुरवबोध कल्पितं य-स। २३ पूर्वापरभावे । २४ कार्यकारणभावानवबोध । २५ कार्यकारणभाव । २६ हेतुहेतुमद्भावनिश्चयगर्भ वचनम् । २७ तदनवबोधतत्पर्यनुयोगयोः। २८ सत्येवं व-आ०, ब०, ५०, स०।२९ सद्भावप-आ०, ब०, १०, स०।३० तावत्येव आ०, ब०, १०, स०।