________________
न्यायविनिश्चयविवरणे
[ १३
तत्प्रत्यक्षस्य निर्णयात्मकत्वात् तेन च स्वविषयस्य सर्वाकारेण ग्रहणान्न तद्विषये ज्ञानान्तरस्य शब्दान्तरस्य वा व्यापारः, सिद्धोपस्थायित्वेन वैयर्थ्यात् समारोपव्यवच्छेदस्य चाभावात् निश्चिते समारोपानुत्पत्तेरिति चेत्; न; तस्य प्रादेशिकत्वात् । तत्प्रत्यक्षं स्वविषयस्य प्रदेश एव ग्रहणे स्वशक्तिप्रयुक्त नियोगाधिष्ठितं न सर्वाकारेण, तथैव तस्य निर्वा५ धमवबोधात् तस्मादयमप्रसङ्ग एव । निष्प्रदेशमेव सकलं वस्तु कथं तस्य प्रदेशतो ग्रहणं "तग्रहणम् ? तग्रहणस्य विभ्रमरूपत्वप्रसङ्गादिति चेत्; आस्तामिदम्, अनन्तरमेव निरूपणात् । भवत्वेवं तथापि कथमिन्द्रियप्रत्यक्षस्य प्रामाण्यम् ? कथं च न स्यात् ? अप्रवर्त्तकत्वादिति चेत्; किं प्रवर्त्तकत्वेन प्रामाण्यं व्याप्तम् ? ने चेत् ; तदभावे तदभावानुपपत्तिः, अतिप्रसङ्गात् । व्याप्तमेवेति चेत्' ं; न; स्वसंवेदन योगिप्रत्यक्षयोरप्रामाण्यप्रसङ्गात् । न हि स्वसंवेदनं १० स्वरूपेऽन्यत्र वा प्रवर्त्तकम् ; स्वरूपस्यानुभूतत्वात्, अन्यस्य चाविषयत्वात् । नापि योगी तत्प्रत्यक्षात् क्वचित्प्रवर्त्तते कृतार्थत्वात् । वस्तुयाथात्म्यविषयत्वात्प्रामाण्यम् इन्द्रियप्रत्यक्षेऽपि समानम् । प्रवृत्तेः प्राक् तद्विषयत्वमेव कथमवगन्तव्यम्, प्रतिभासस्य सत्येतर विषयसाधारणत्वादिति चेत् ? न ; स्वसंवेदनादावपि प्रसङ्गात् । स्वहेतूप निबद्धात् कुतश्चित्सामर्थ्यात् प्रवृत्तिनिरपेक्षमेव स्वप्रामाण्यं तदवगच्छतीति चेत्; इन्द्रियप्रत्यक्षमपि किमेवं न भवेत् ? संशयादि - १५ दर्शनादिति चेत्; निःसंशयादेरेव तत्प्रामाण्यनिर्णयस्यावलोकनात् । न हि "सुचिराभ्यासपरिकलितपुरोवर्त्तिनीरनिकरनिर्भासवतः प्रत्यक्षस्याकृतप्रवृत्तिकस्यैव न प्रामाण्यपरिज्ञानम्, नापि सन्देहाय - नास्वादितविषयत्वम् । यत्रापि न स्वतस्तत्परिज्ञानं तद्धेतुशक्तिवैकल्यात्, तत्रापि कुतश्चिद् दर्दुरारावादेर्लिङ्गात् विषयतथात्ववेदने तत्परिज्ञानोपपत्तेरनुपयोगिन्येव प्रवृत्तिः । अथ प्रवृत्तिकामस्य यदि तन्न प्रवर्त्तकं किं तेन प्रमाणेनापीति चेत् ?; क एवमाह - ' तस्य न प्रवर्त्तकम्' इति ? २० प्रवृत्तिविषयोपदर्शकस्य प्रवर्त्तकत्वोपपत्तेः । नै' वर्त्तमानस्य प्रवृत्तिविषयत्वं तस्यानुभवात् प्रवृत्तेश्चानुभवार्थत्वात् । तत्फलसिद्धावपि प्रवृत्तौ तदनुपरमप्रसङ्गात् । अनुभवान्तरार्था पुनः प्रवृत्तिरिति चेत्; न; " तदन्तरकाले प्राचीनविषयानवस्थानात्, निर्विषयस्य चानुभवस्याभावात् । भावी तु भवतु प्रवृत्तिविषयः, प्रवृत्तिकामस्य तत्राभिलाषात् । किन्तु न तस्य प्रत्यक्षेण ग्रहणम्, इन्द्रियव्यापारस्य वर्त्तमानपुरोवर्त्तिपर्यायमात्रपर्यवसायित्वेन भाविभावागोचरत्वे तदुपनिबद्धजन्मनः प्रत्यक्षस्यापि तत्रात्र्यापारात् ।
प्रवृत्तिविषयत्वं न वर्त्तमानस्य दर्शनात् । प्रवृत्तिर्दर्शनाथैव दर्शने सति किं तया ? ॥ ३०९ ॥ निष्फलाऽपि प्रवृत्तिश्चेत्तस्या" उपरमः कथम् ।
२५
१०६
१ - रसि - आ०, ब०, प०, स० । २ -स्य भावा- आ०, ब०, प०, स० । ३ इन्द्रियप्रत्यक्षस्य । तस्य तत्प्रा-आ०, ब०, प०, स० । ४ तद्ब्रहृणमिति पदं निरर्थकं प्रतिभाति । ५ यदि व्याप्तं न स्यात् । ६ प्रव र्तकत्वाभावे प्रामाण्याभावो न स्यात् । ७ स्वसंवेदनयोगिप्रत्यक्षयोः । ८ - तूपनिबन्धात् आ०, ब०, प०, स० । ९ स्वसंवेदन योगिप्रत्यक्षम् । १० स्वचिरा - आ०, ब०, प०, स० । ११ न प्रवर्त-आ०, ब०, प०, स० । १२ अनुभवान्तरसमये । १३ भाविनि । तत्रापि व्या-आ०, ब०, प०, स० । १४ - इचेत्कस्या आ०, ब०, प०, स० ।