________________
१३]
प्रथमः प्रत्यक्ष प्रस्तावः
ने दर्शनानन्तरार्थापि तत्काले विषयास्थितेः ॥ ३१० ॥ भावित्वाकाङ्क्षितत्वेन प्रवृत्तिविषयोऽपि सन् । नेन्द्रियोपनिबद्धेन प्रत्यक्षेणोपलभ्यते ॥ ३११ ॥ वर्त्तमानपुरोवर्त्तिव्यापृतादिन्द्रियात्कथम् ।
भावे भाविन्यतादृक्षे प्रत्यश्वमुपजायताम् ? ॥३१२॥ अदृष्टेऽपि प्रवृत्तिश्चेत् भाविन्यभ्युपगम्यते । अतिप्रसङ्गदोपेण कथमेवं न लिप्यसे ? ॥ ३१३॥
१०७
इति चेत्; अत्र प्रज्ञाकरस्य निर्वाह: - 'अभ्यासदशायां वर्त्तमान एव जलादिरूपे भाविनस्तद्रूपस्योपादानत्वेन तत्सहभाविनश्च स्पर्शादेः तदेकसामम्यधीनतया तत्सहकारित्वेनाध्यारोपाद् दृश्यदर्शनमेव भाविनि प्रवर्त्तकम् । न चैवमतिप्रसङ्गिनी प्रवृत्तिः; अध्यारोपविषय एव तदुपग- १० मात् । न चाध्यारोपस्याप्यतिप्रसङ्गित्वम् ; सत्येव सम्बन्धे तद्भावात् । अनभ्यासे तु तदध्यारोपाभावात्, भाव्यविनाभावितोयाद्याकार विशेष लिङ्गदर्शनोपनिबद्धादनुमानात्प्रवृत्तिः' इति; तत्रेदमुच्यते - कोऽयं तदध्यारोपो नाम ? दृश्यप्राप्ययोरेकत्व ग्रहणमिति चेत् ; न तहींदं प्रत्यक्षतः सम्भवति तस्य क्षणपर्यवसितवस्तुविषयत्वेनाभ्यनुज्ञानात् । पारमार्थिकस्यैव तस्य तद्वस्तुविषयत्वम्, सांव्यवहारिकस्य तु तदेकत्वग्रहणमविरुद्धमेव । यदाह - " सांव्यवहारिकप्रत्य - १५ क्षापेक्षा तु कर्त्तत्वस्य प्रतीतिरित्युच्यते” [ ] इति । तात्पर्यमत्र - कर्त्तृत्वं हि क्रियायां स्वातन्त्र्यम्, क्रिया च पूर्वापरात्मिका । न तत्र वास्तवस्य प्रत्यक्षस्य प्रवृत्तिः, अतः सांव्यवहारिकस्यैव तस्य तत्र व्यवहार इति ; तदिदमसम्बद्धमेव ; क्षणमात्रपर्यवसितवस्तुविषयस्यैव प्रत्यक्षस्य सांव्यवहारिकत्वात् । न हि पारमार्थिकस्य तस्य तंद्विषयत्वम् ; सकलविकल्पातीतसंवेदनपरमार्थविषयत्वेन " तदङ्गीकारात् । तदयं स्वमतमपर्यालोचयन्नेव यथावाञ्छितं कचिदन्यथाऽपि २० कथयतीति कथमनुन्मत्तः ? " विकल्पेन तर्हि तदेकत्वं वेद्यत इति चेत्; न; तस्यै 'तद्व्यतिरि क्तस्य "तेनाप्रतिवेदनात्, विकल्पस्य बहिर्विषयत्वानभ्युपगमात् । अव्यतिरिक्तस्य वेदनमिति चेत् ; कथं "ततो भाविनि प्रवृत्तिः १, बहिर्विषयादपि जलादिदर्शनात् " तत्र तामनिच्छन् बहिःस्पर्शगन्धमप्यनाददा (घा) नाद्विकल्पादिच्छतीति कथं स्वस्थः ? 'तंदर्शनादेव तद्विकल्प सहा
१ तद्दर्शनान्तरास्थापि स० । दर्शनान्तरास्थापि आ०, ब०, प० । २ "तत्र भाविस्वरूपे तत्कारणस्वेनैकतारोपः । परत्र तु स्पर्शादौ तदेकसामध्यधीनत्वेनेति न विशेषः " - प्र० वार्तिकाल० १।१ । ३ - नत्वे तत्सहआ०, ब०, प० । ४ - सङ्गादिनिवृत्ति-आ०, ब०, प०, स० । ५ तस्य लक्षण - भा०, ब०, प०, स० । ६ प्रत्यक्षस्य । ७ क्षणपर्यवसितवस्तु । ८ " न च प्रत्यक्षतः कर्तृत्वमपि पूर्व प्रतिपन्नम्, पौर्वापर्ये प्रत्यक्षस्यावृत्तेः । सांव्यवहारिकप्रत्यचापेक्षया तु प्रतीतिरित्युच्यते ।" - प्र० वार्तिकाल० ११२ । ९ क्षणमात्र पर्यवसितवस्तुविषयत्वम् । १० " इदं च पुनर्बाह्यार्थमाश्रित्य ग्राह्यग्राहकभावश्चाभ्युपगम्य उच्यते । परमार्थतस्तु सकलमेव स्वसंवेदनमात्रं नेन्द्रियादिप्रत्ययप्रविभागोऽस्ति ।" - प्र० वार्तिकाल० २।२५० । ११ विकल्पलेन आ०, ब०, १२ एकत्वस्य । १३ विकल्पव्यतिरिक्तस्य । १४ विकल्पेन । १५ विकल्पात्। १६ बहिर्विषये । १७ प्रवृत्तिम् । १८ - प्यनादर्शनाद्वि- ता० । १९ व्यवहारतः बहिर्विषयकप्रत्यक्षादेव ।
प०, स० ।