________________
१०८
न्यायविनिश्चयविवरणे
[ १२३
यात्तत्र' प्रवृत्तिरिति चेत्; कथं स्वयमतद्गोचरमतद्गोचरसहायमपि तत्र प्रवर्त्तकम् ? न ह्यन्धस्य तदन्तरसाचित्र्येऽपि रूपदर्शनसामर्थ्यम् । अथ बहिर्गोचर एव विकल्पः, तदव्यतिरितस्यापि तद्वेद्यस्य बीरूपत्वेनाध्यवसायादिति चेत्; न; तद्बहीरूपत्वस्यापि व्यतिरिक्तत्वेनाप्रवेदनात् । अव्यतिरेकेण वेदनमिति चेत्; न; 'कथं ततो भाविनि प्रवृत्तिः' इत्याद्यनुवृत्तेश्च५ क्रकोपक्रमात् अनवस्थानदौः स्थ्याच्च । कथं वा प्रवृत्तिकार्ये दर्शन सहायत्वं विकल्पस्य भिन्नविषयत्वात्, नीलज्ञानवत् पीतदर्शनस्य । तदेकत्वाध्यवसायात्; न; दर्शनस्य निर्विकल्पकत्वेन ततस्तदसम्भवात् । विकल्पात्तत्सम्भव इति चेत्; न; तेनापि तद्व्यतिरिक्तस्य तदेकत्वस्यानध्यवसायात् । अव्यतिरिक्तस्याध्यवसायेऽपि स्वरूपमेवाध्यवसितं न तदेकत्वम् । पुनरपि तस्य तदेकत्वाध्यवसाये स एव प्रसङ्गः 'न दर्शनस्य' इत्यादिरनवस्था च । ननु एवं व्यवहारी न विवेच १० यति प्रवृत्तिविरोधित्वात् । न हि प्रवृत्तिकामस्य तद्विरोधिनि विचारे सादरत्वं तत्कामत्वविरोधात् । किमिदानीमविचारितरमणीयमेव ज्ञानं प्रवृत्तिकामस्य पक्षतः ? तथा चेत्; अनर्थकं तर्हि "तं प्रति प्रमाणलक्षणप्रणयनम् । व्याख्यातारं प्रति नानर्थकम् "" "व्याख्यातारः खल्वेवं विवेचयन्ति " [प्र० वा० स्ववृ० १।७२ ] इति वचनादिति चेत्; न; तस्यापि प्रवृत्तिकामत्वाविशेषात् आहारादौ प्रवृत्तिदर्शनात् । न हि प्रवृत्त्युपायस्य विचारभीरुतां विवेचयन्नेव तत्कृतां १५ प्रवृत्तिमुपजीवितुमर्हति । विवेचयन्नपि सहजेन व्यामोहेन तामुपजीवतीति चेत्; न, विवेकव्यामोहयोः तमः प्रकाशवद्विरोधात् । अन्य एव विवेक आहार्यस्य अन्य एव च सहजव्यामोहस्य विरोधी, तंत्र शास्त्रोपनीतेन विवेकेनाहार्यस्य निवृत्तावपि को विरोधो यत्सहजस्य तस्यावस्थानं तत्कृतच प्रवृत्त्युपजीवनं न भवेदिति चेत् ? उच्यते
२०
२५
आहार्येण विरोधोऽस्य विवेकस्य कुतो मतः ।
विरुद्ध विषयत्वाच्चेत्; सहजेनापि " तन्न किम् ? || ३१४॥ अविरुद्धार्थतायां तु विवेको मोहतां व्रजेत् ।
" आहार्योऽपि ततो मोहस्तन्मोहात् नाशवान् कथम् ॥ ३१५॥ मोहो मोहाविरोधान्न मोहध्वंसाय कल्पते ।
न तमः क्षालनं लोके तमसैवोपलभ्यते ॥ ३१६ ॥
ततः शास्त्रस्य वैयर्थ्यमागतं सौगते मते ।
तन्नेदमिह साधूक्तम्-“शास्त्रं मोहनिवर्त्तनम् ॥३१७॥ [ प्र० वा० १७ ]
१ बहिरर्थे । २ परमार्थतः दर्शनं बहिरर्थागोचरं सत् बहिरर्थागोचर विकल्पसहायादपि कथं बहिरर्थे प्रवर्तक स्यादिति भावः । स्वयमतद्गोचरसहायमपि आ०, ब०, प०, स० । ३-त्वेनापि व्यवसा-आ०, ब०, प०, स० । ४ दर्शनात् एकत्वाध्यवसायासम्भवात् । ५ तत्प्रति-आ०, ब०, प०, स० । व्यवहारिणं प्रति । ६ "व्याख्यातारः एवं विवेचयन्ति न तु व्यवहर्त्तारः, ते तु स्वालम्बनमेव अर्थक्रियायोग्यं मन्यमानाः दृश्यविकल्यार्थावेकीकृत्य प्रवर्तन्ते ।" - प्र० वा० स्ववृ० १।७२ । ७ व्याख्यातुरपि । ८ आरोपितस्य व्यामोहस्य । ९ व्यामोहस्य । १० - नं भ-आ०, ब०, प०, स० । ११ विरुद्धविषयत्वम् । १२ आहार्येऽपि आ०, ब०, प०, स० । १३ यतः विवेकः सहजव्यामोहादविरुद्धः अतः स्वयं मोहरूपः सम्प्राप्तः तथा च कथं तेन आहार्यमोहस्य नाशः इति भावः ।