________________
प्रथमः प्रत्यक्षप्रस्ताव:
तद्विवेकाविरुद्धार्थो मोहो वा सहजस्तव । विवेक एव संवृत्तो व्याख्यातुरिह धीमतः ॥३१८॥ आहार्येतररूपाभ्यां व्याख्याता रहितस्ततः । क्वचित्कथं प्रवर्तेत कुतश्चिद्वा निवर्तताम् ॥३१९॥ पुनर्मोहान्तरं तस्य सहजं यदि कल्प्यते । पूर्वसर्वप्रसङ्ग स्यात् सानवस्थानचक्रकम् ॥३२०॥
शास्त्रोपैनिबद्धजन्मनो विवेकस्याहार्येणापि मोहेन तद्विरुद्धविषयत्वादेव विरोधो नान्यथा। मोहस्य हि दृश्यप्राप्ययोरेकत्वं तद्विवेकस्य तु तन्नानात्वं विषय इति ; यद्येवं सहजेनापि तस्य विरोधः स्यात् तस्यापि तदेकत्वविषयत्वाविशेषात् । अविरोधे तु सहजमोहवत्तद्विवेकस्यापि तदेकत्वगोचरत्वेन तस्यापि मोहरूपत्वम् , आरोपितविषयत्वात् , तथा च कथमाहार्यस्यापि मोहस्य १० तस्मादपवर्त्तनम् ? । न हि मोहादेव मोहान्तरमपसरति तस्य तदविरोधिरूपत्वात् । न हि तमस एव तमःप्रक्षालनं क्वचिदप्युपलब्धम् । तथा च मोहप्रसरहेतुरेव शास्त्रं न मोहवि. ध्वंसकरमिति न साधु भाषितमेतत्-"शास्त्रं मोहनिवर्त्तनम् ।" [प्र. वा० ११७ ] इति । मोहस्य वा सहजस्य विवेकैकार्थत्वेन विवेकरूपतापत्तौ न व्याख्यातुराहार्यः सहजो वा मोह इति कथं तस्य क्वचित्प्रवर्त्तनं निवर्त्तनं वा कुतश्चित् ? पुनरपि सहजमोहान्तरपरिकल्पनाददोष १५ इति चेत् ; न ; पूर्वनिरवशेषप्रसङ्गपौनःपुन्यादनवस्थादौःस्थ्यावहस्य चक्रकस्य प्रसङ्गात् । तन्न अविचारितरम्ये संवेदनप्रामाण्ये शास्त्रप्रणयनमर्थवत्, विचारपरिशुद्धं तत्प्रामाण्यमिति । व्यामोहनिषेधार्थत्वात् न हि तस्यानर्थक्यमिति चेत् ; न ; तन्निषेधस्य प्रवृत्तिकामैस्तद्विरोधित्वेनानभ्युपगमात्। कस्यचित्कचित्प्रवृत्तिरपि नास्त्येव पूर्वापरीभावस्यादर्शनवेद्यत्वादिति चेत् ; न ; भेदमात्रस्यैवमप्रतिपत्तिप्रसङ्गात् । भवतु सर्वभेदविनिर्मुक्तं संविन्मानं तत्त्वम्- "स्वरूपस्य स्वतो २० गतिः" [प्र० वा० ११६ ] इति वचनादिति चेत् ; आस्तां तावदेतत्-'स्वतस्तत्त्वम्' "इत्यादौ विचारात् । तन्न अभ्यासदशायामेकत्वाध्यारोपात्प्रत्यक्षस्य भाविविषयत्वोपपत्तेः भाविनि प्रवर्तकत्वम् ।
नाप्यनभ्यासदशायाम् अनुमानस्य ; लिङ्गाभावेन तस्यैवाभावात्" । दृश्यमेव जलादि लिङ्गमिति चेत् ; न ; तस्य प्राप्यैकत्वेनाध्यवसितत्वात् । न हि साध्यमेव साधनम् ; अति- २५ प्रसङ्गात् , स्वभावहेतोरपि व्यवसितसाध्यव्यतिरेकस्यैव लिङ्गत्वात् । दृश्यमपि व्यवसितप्राप्यव्यतिरेकमेवेति चेत् ; न ; तव्यवसायस्याभ्यासनिबन्धनत्वेन तदभावे अनुपपत्तेः क्षणविवेकव्यवसायवत् , अन्यथा तैव्यवसायस्याप्यनभ्यास एव सम्भवात् यदुक्तम्-"अभ्यासपाटवाद्य
१ वासवजस्तव आ०, ब०,१०,१० । २-पनिबन्ध -आ०, ब०, ५०, स० । ३ विवेकस्य । ४ सहजव्यामोहस्यापि । ५ विवेकस्यापि । ६ विवेकात् । ७ शास्त्रं तदेव मोह-मा०, ब०प०,स०। ८ शास्त्रप्रणयनस्य । ९ प्रवृत्तिविरोधित्वेन । १० प्रत्यक्षाविषयत्वात् । ११ न्यायवि०श्लो० ५६ । १२-त् अदृश्य-भा०,ब०,५०,स० । १५ साध्यभिन्नतया ज्ञातस्य । १४ क्षणविवेकव्यवसायस्यापि ।