________________
न्यायविनिश्चयविवरणे भावान क्षणविवेकव्यवसायः" [ ] इति तदपर्यालोचितवचनं भवेत् , क्षणविवेकानुमानस्य च वैफल्यात् । निश्चिते समारोपाभावात् तद्व्यवच्छेदफलत्वानुपपत्तेः । तदयमभ्यासदशायां दृश्यप्राप्यविवेकव्यवसायप्रसवोचितायामपि तदेकत्वाध्यवसायमेवाभिदधानः पुनरनभ्याससमये तदनुचितेऽपि तद्विवेकव्यवसायमावेदयतीति सत्यं तथागतप्रज्ञ तव ताथागतः। किश्च
लिङ्गलिङ्गिविभागेन दृश्यप्राप्यार्थनिश्चयात् । अभ्याससमये मानमनुमानं तवोचितम् ॥३२१॥ अन्यदा तु प्रमाणत्वमध्यक्षस्योपपत्तिमत् । तदेकत्वावसायस्य निरभ्यासेन सम्भवात् ॥३२२॥ तत्क्रमन्यायमुल्लङ्घ्य कुर्वतस्तद्व्यतिक्रमम् । तव प्रज्ञाकरस्यापि कुतः प्रज्ञाविपर्ययः ? ॥३२३॥ यदि चाभ्यासतोऽध्यक्षं दृश्यप्राप्याविवेकदृक् ! पश्येत्सौगतमध्यक्षं क्षणानामन्वयं तथा ॥३२४॥ अभ्यासातिशयोद्भूतं तद्यतो भवतो मतम् । तत्सर्वं क्षणिकं ब्रूयात्कथं नाम महामुनिः ॥३२५॥ अन्यथा वस्तु पश्यंश्चेदन्यथोपदिशेदयम् । कथनाम प्रमाणं स्यादविसंवादवर्जनात् ? ॥३२६॥
अभ्यासोऽपि सुगतस्य क्षणिकतयैव भावेषु वथैवानुमानादिति चेत् ; व्यवहर्तुरपि तथैव स्यात्तथैव दर्शनात् , अन्यथा-"पश्यन्नयं क्षणिकमेव पश्यति" [. ] इत्यस्य विरोधात् ।
तन्न प्रज्ञाकरस्यैवमेकत्वाध्यवसायतः ।
भाविप्रवृत्तिचिन्तायामुपपत्तिमती मतिः ॥३२७॥
कथं तर्हि भाविनि प्रवृत्तिरिति चेत् ? तस्य सोक्षादेव दर्शनादिति ब्रूमः । यदि दर्शनं किं प्रवृत्त्या ? तस्या दर्शनार्थत्वात् , तस्य च सिद्धत्वात् , न हि सिर्द्धप्रयोजनहेतवः प्रयोजनार्थ
भिरभ्यर्थ्यन्त इति चेत् ; न; प्रवृत्तेर्दर्शनगोचरभाविरूपसहभाविस्पर्शादिप्राप्त्यर्थत्वात् । स्पर्शा२५ देरपि यदि दर्शनं न प्रवृत्तिः, वैफल्याद् , नाप्यदर्शने अतिप्रसङ्गादिति चेत् ; न; तस्य दृश्यमान
रूपतादात्म्येन कथञ्चिद्दर्शनस्यापि भावात् । सर्वात्मना दर्शनादर्शनयोरेव प्रवृत्तिवैफल्यातिप्रसङ्गदोषोपनिपातात् ।
एतेनेन्द्रियान्तरवैफल्यं प्रत्युक्तम् ; स्पर्शादेविशेषत इन्द्रियान्तरादुपलब्धेः । रूपस्यापि कथं भाविनो दर्शनम्, अनाविषयत्वात् , कथं वा तस्य स्पर्शायेकत्वं विरुद्धधर्माध्यासादिति ३० चेत् ? आस्तां तावदेतत् यथास्थानं निवेदनात् ।
पुनरभ्या-आ०, ब०, ५०, स०।२ तथागतः आ०, ब०, ५०, स.। ३ अन्यथा तु आ०,०, प०।४ तत्कमन्याय्यमु-ता०, त५ साकाक्षादेव आ०, ब०, ५०, स०। सिद्धिप्रयोजनहे-मा, ब०, प०।७ प्रवृत्तिवै-आ०,०,१०, स०।८ रूपसहभाविस्पर्शादेः । ९-त् तेने-ता०, स.।