________________
१॥३] प्रथमः प्रत्यक्षप्रस्तावः
१११ ननु यदि भाविन्यपि प्रत्यक्षं प्रवर्तकं कथं तर्हि भाष्यकारैर्वर्तमान एव तस्य तत्त्वमुक्तमिति चेत् ; न; वर्तमानप्रवृत्तित एव भाविप्रयोजनावाप्तेः न तदर्थमेकत्वाध्यवसायेन प्रत्यक्षस्य भाविविषयत्वं प्रति सौगतेन प्रयतितव्यमिति निवेदनार्थत्वात् तथा वचनस्य । यथा च ततस्त. दवाप्तिस्तथा तैरेव सविस्तरं निरूपितम् । यत्पुनः "अभ्यासेऽपि भाविज्ञानमनुमानम्" [ ] इति तेषां वचनम् ; तदप्येकत्वाध्यवसायप्रयत्नसाधितमपि प्रत्यक्षं न प्रत्यक्षमिति ५ निवेदनार्थम् । कथन्न प्रत्यक्षमिति चेत् ? आरोपितविषयत्वात् । आरोपितं हि दृश्ये तत्कारणत्वेन भाविरूपं तज्ज्ञानस्य विषयः, तादृशस्य च सविकल्पकत्वान्न प्रत्यक्षत्वम् , कल्पनापोढस्य तत्त्वात् । व्यवहारी नैवं मन्यत इति चेत् ; किं पुनर्व्यवहारादन्यत्र कल्पनापोढत्वं प्रत्यक्षलक्षणमुक्तम् ? तथा चेत् ; न तत्प्रमाणम् , “प्रामाण्यं व्यवहारेण" [प्र. वा० ११७ ] इति वचनात् । न चाप्रमाणं प्रत्यक्षम् ; प्रमाणविशेषस्य तत्त्वात् । ततो व्यवहारादेव कल्पनाविरहस्य प्रत्यक्षलक्षण- १० त्वात् नारोपितविषयस्य प्रत्यक्षत्वं विकल्पकत्वात् । एतेन कुश्चिकाविवरमणिप्रभामणिज्ञानस्यापि प्रत्यक्षेत्वं प्रत्युक्तम् ; आरोपितविषयत्वेन विकल्पकत्वाविशेषात् । तर्हि विकल्पकं तदिति वक्तव्यं किमनुमानं तदित्युक्तमिति चेत् ? न; परस्य निदर्शनाभावनिवेदनार्थत्वात् । परस्य हि वचनम्-"अभ्यासे भाविज्ञानवत् प्रभामणिज्ञानवच्च आरोपितविषयमपि प्रमाणमनुमानम् अर्थाविसंवादात्" [ ] इति । तत्रेदमुच्यते-निदर्शनज्ञानं किन्नाम प्रमाणम् ? १५ न प्रत्यक्षम् ; विकल्पकत्वात्। न च तेन्मानं प्रमाणम् ; प्रमाणद्वयनियमव्यापत्तेः । तस्मादनुमानमेव तत्। न च तस्य निदर्शनत्वम् , अनुमानान्तरवत् विवादविषयत्वात्। विवादे किं निमित्तमिति चेत् ; अनुमानान्तरे किम् ? आरोपितविषयत्वमिति चेत् ; न ; प्रकृतेऽपि तद्भावात् , अन्यथा सस्य स्वलक्षणविषयत्वेनाध्यक्षाविशेषप्रसङ्गात् । ततो न किञ्चिनिदर्शनं यदनुमानप्रामाण्यसाधनं प्रत्युपयुज्यत इति निवेदनार्थं भाविज्ञानस्यानुमानत्ववचनम् । ततः समञ्जसं प्रत्यक्षस्य भावि- २० विषयत्वेन तत्र प्रवर्तकत्वम् इति सूक्तम्-हिताहितप्राप्तिपरिहारक्षममिन्द्रियप्रत्यक्षम् । हितस्यानुकूलवेदनीयतत्कारणरूपस्य अहितस्य च प्रतिकूलवेदनीयतत्कारणरूपस्य यथासंख्येन प्राप्तौ परिहारे च तस्य शक्तिसम्भवादिति सुविवेचितमिन्द्रियप्रत्यक्षम् ।
अनिन्द्रियप्रत्यक्षं तु सर्वचेतसां स्वसंवेदनम् , तस्य क्षयोपशमविशेषापरनामधेयाद् अनिन्द्रियादुत्पत्तेः, तद्विशेषव्यतिरिक्तस्य त्वनिन्द्रियस्य "सतोऽपि स्वसंवेदनं प्रत्यनुपयोगात् , २५ सथा च भाष्ये सविस्तरं निर्णीतम् । कथं पुनः संवेदनानामात्मवेदनमिति चेत् ? कथमर्थवेदनम् ? निर्बाधात्तदनुभवादिति चेत् ; समानमात्मवेदनेऽपि । स्वरूपपरिच्छेदपरावृत्ततया बहिरङ्गोपग्रहमात्रव्यामृताना" तेषामनुभवात् , "अर्थग्रहणं बुद्धिः" [न्यायभा० ३।२।४६] इति
अकलङ्कदेवैः । २ प्रत्यक्षस्य । ३ प्रवर्तकत्वम् । ४ प्रत्यक्षत्वात् । ५ "तस्मात् मणिप्रभायामपि मणिज्ञानं प्रत्यक्षमेव"-प्र. वार्तिकाल. २०५७ । ६ बौद्धेन हि अनुमानप्रामाण्यसाधनाय मणिप्रभामणिज्ञानं दृष्टान्तत्वेनोपन्यस्तम् (प्र. वा. २०५७)। तच मणिप्रभामणिज्ञानस्य अनुमानत्वापादनेन विघटत इति भावः । . परस्यापि वच-भा०, ब०, ५०, स०। ८ मणिप्रभामणिज्ञानम् । ९ विकल्पमात्रम् । १० स्वतोऽपि सः। ११ व्यावृत्तानाम् भा०, ब०,५०, स०।