________________
११२ न्यायविनिश्चयविवरणे
[ १३ वचनान्न तेषामात्मवेदनमिति चेत् ; न ; वचनमात्रात् अपरिस्खलितप्रतीतिव्यापारोपदर्शितस्य तस्य प्रत्याख्यातुमशक्यत्वात् , अन्यथा अर्थवेदनस्यापि प्रत्याख्यानप्रसङ्गात् , “स्वरूपस्य स्वतो गतिः” [प्र०वा० १।६] इति तत्प्रत्याख्यानपरस्यापि वचनस्य भावात् । 'ज्ञानान्तरवेद्यमर्थज्ञानं
वेद्यत्वात् कलशवत्' इत्यनुमानानुग्रहात् पूर्वमेव वचनमुपपत्तिमत्, नापरमिति चेत्, न; 'स्वसंवेद्य५ मेव ज्ञानं वेद्यत्वात् सुखादिवत' इत्यनुमानानुग्रहस्य पैरवचनेऽपि भावात् । कुतः पुनः सुखादेरपि
स्वसंवेद्यत्वमिति चेत् ? कलशादेः अन्यवेद्यत्ववत् प्रतीतेरेव । कथमेवमपि तत्स्वसंवेदनस्वभाव. नियमस्यानुमानविषयत्वे न प्रतिज्ञाव्याघातः ? न ह्यान्तरभूतानुमानविषयतामावहत एव नियमेन स्वानुभवस्वभावत्वम् । अंतद्विषयत्वे तु कथमतद्विषयमनुमानं तत्प्रतिपादनपरस्य 'स्वरूप. स्य' इत्यादिवचनस्यानुप्राहकं यत्तदेवोपपत्तिमद्भवेदिति चेत् : उच्यते
संविदामन्यवेद्यत्वस्यानुमानं स्वविद्यदि । तदन्यवेद्यनियमप्रतिज्ञा तव भज्यते ॥३२८॥ स्वयमज्ञातसत्त्वं तत् अस्वसंवेदने कथम् । अर्थग्रहणमित्यादेर्वचसोऽनुग्रहक्षमम् ॥३२९॥ अननुप्राहकत्वेनाप्येवं तत्किन्न कल्प्यते । इत्थमेवान्यथा नेति नादृष्टं शक्यकल्पनम् ।।३३०॥ अन्यतो वेदनं तस्याप्यनुमानस्य चेन्मतम् । न तदानीं तत् , अन्यस्य वेदनस्याप्रवेदनात् ॥३३१॥ पश्चादेव तदस्तित्वे पश्चादपि न जायते । यदा तदा कथं नाम तदित्थम्भाववेदनम् ॥३३२॥ विषये सति तज्ज्ञानं स्यादेव नियमाद्यदि । तस्याप्यज्ञातसत्त्वस्य "तद्वित्त्वं कथमुच्यताम् ? ||३३३॥ तस्यापि वेदनाद्वित्तिरन्यतश्चेत्प्रकल्प्यते । न तदानीं तदन्यस्येत्यादि पूर्वप्रसञ्जनात् ॥३३४॥ चक्रकं भवतः प्राप्तमनवस्थाभयप्रदम् । ततोऽनुमानं स्वाभासस्वभावमभिवर्ण्यताम् ॥३३५॥ ततः प्रतिज्ञाव्याघातः समाधातुं न शक्यते । ततो नातिशयः कश्चिद्योगसौगतयोमिथः ॥३३६॥ तस्मात्प्रतीत्युपाध्यायैर्यथा वास्तु (वस्तु) प्रतीयते । तथैवाभ्युपगन्तव्यं निर्मुच्याग्रहवैशसम् ॥३३७॥
१ आत्मवेदनस्य । २ "तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत्"-प्रश० व्यो० पृ. १२९ । विधिविन्यायक पृ. २६७। ३ अर्थग्रहणं बुद्धिरिति वचनम् । ४ स्वरूपस्य स्वतो गतिरिति वचनेऽपि । ५ अनु. मानाविषयत्वे तु । ६ स्वसंवेदनात्मकं यदि । ७ अनुमानम्। ८ अन्यतो वेदनम् । ९ अन्यवेदनास्तित्वे। १० तद्वेदित्वम् ।