________________
१॥३]
प्रथमः प्रत्यक्षप्रस्ताव अर्थवेदनवत्तस्मात्प्रतीतं स्वप्रवेदनम् ।
अशक्यमेवापह्रोतुमितरस्याप्यपह्नवात् ॥३३८॥ ___ संवेदनानामन्यवेद्यत्वनियमानुमानं यदि स्वसंवेदनस्वभावम्; कथन्न तन्नियमप्रतिज्ञाव्याघातः ? न चेत् तत्स्वभावम्; तर्हि तदेवासिद्धसत्ताकं कथम् "अर्थग्रहणम्" [न्यायभा०] इत्यादेवचनस्यानुप्राहकं परिकल्प्यताम् ? तदननुप्राहकत्वस्यापि परिकल्पनाप्रसङ्गात् । न ह्यनुपल. ५ म्भगोचरीकृतं किञ्चिद् 'इत्थमेव नान्यथा' इति शक्यमवस्थापयितुम् , भावेषु तदतद्भावव्यवस्थाया उपलम्भनिबन्धनत्वात् । अन्यथा उपलम्भस्यैव आनर्थक्यादतिप्रसङ्गाच्च । स्वत एव तद्वेदनमन्यतस्तु वेदनं विद्यत एवेति चेत; न; अनुमानसमसमयस्य तस्यावेदनात् । युगपद्वेदनोत्पत्तेरनभ्युपगमाच्च । पश्चादेव तद्वेदनमिति चेत् ; न; पश्चादपि यदा तन्न जायते तदा कथ. अनुमानस्य इत्थम्भावाध्यवसायः स्यात् ? स्यादेवायम्, सति विषये तत्संवेदनस्यावश्यम्भावा- १० दिति चेत् ; न; तस्याप्यविदितस्य अनुमानस्वरूपेत्थम्भावगोचरत्वानवगमात् । तस्याप्यन्यतो वेदनं चेत् ; न; अनुमानसमेत्यादेरनुगमेन चक्रकोपनिपातात् । पुनरन्यतस्तस्यापि वेदनपरिकल्पनायाम् अनवस्थापत्तेश्च । ततोऽनुमानस्य विषयनियमं व्यवस्थापयितुकामेन स्वाभासस्वभावं सदभ्युपगन्तव्यमिति कथन्न भवतोऽपि प्रतिज्ञाव्याघात: ? यदिमौ अन्यवेद्यानन्यवेद्यनियमवादिनौ न परस्परमतिशयाते । तस्मान्निरवद्यप्रत्ययोपाध्यायोपदर्शिते वर्त्मनि प्रवर्त्तमानैः प्रेक्षावद्भिः १५ स्वपक्षानुरागपरिग्रहपरिहारेण यथाप्रतीति भावतत्त्वमभ्यनुज्ञातव्यम् । प्रतीयते चार्थसंवेदनवत् संवेदनानामात्मसंवेदनमपि; तत्कथं शक्यापलापम् ? अर्थवेदनस्याप्यपलापेन ज्ञानवानॊच्छेदप्रसङ्गात् । स्वपरपरिच्छेदविकलस्य ज्ञानत्वायोगात् मृदादिवत् । न च ज्ञानाभावे ज्ञेयमपि किञ्चित् ; तदधीनत्वात्तव्यवस्थायाः इति विजयेरन् सकलवस्तुधर्मनैरात्म्यवादिनः । तदुक्तम्-'ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ।" [ आप्तमी० का० ३० ] इति ।
एतेन परोक्षा बुद्धिरिति प्रत्युक्तम् ; अर्थस्यापि परोक्षत्वप्रसङ्गात् । अनुभवोपारूढत्वान्नैवमिति चेत्, तदुक्तम्- "स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते”[शाबरभा० ११११५] इति; तदसत्; अन्तर्देशसम्बद्धतया बुद्धरपि प्रत्यक्षत एवानुभवात् । तदनुभवापलापे चार्थानुभवस्याप्यपलापान ज्ञानं नापि किञ्चिज्ज्ञेयमिति दुष्परिहरः शून्यवादग"वपातो मीमांसकस्य । न च ज्ञानानुभवाभावेऽर्थानुभवसिद्धिरिति करिष्यत एवात्र प्रबन्धः । तस्मादर्थवेदनान्यथानुपपत्त्या २५ विज्ञानस्य स्ववेदनप्रसिद्धिः।
एतेन कापिलानामपि ज्ञान व्याख्यातम्; तस्यापि 'स्ववेदनशून्यस्य अर्थवेदनत्वानुपपत्तेः । प्रतीतमर्थवेदनमिति चेत् ; न; स्वसंवेदनस्यापि प्रतीतेः । सत्यम् ; तस्यापि प्रतीतिर्न तु
अर्थवेदनस्यापि । २-नसमयस्य मा०,०, १०, स०।३ अन्यवेदनस्य । ४-वाद्यवसा-मा०, ..,५०, स०।५-तेनत-मा०, ब०, १०, स०।६ ज्ञयव्यवस्थायाः। ७ "अर्थविषया हि प्रत्यक्षबुद्धिर्म बुधन्तरविषया"न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते स्वनुमानादवगच्छति ।"तस्मादप्रत्यक्षा बुद्धिः।" -शाबरभा० ॥५। ८ दुष्परिहारः शू-आ०, ब०, ५०, स० । ९ स्वसंवेद-आ०, ब०, ५०, स०।