________________
५
१०
१५
२०
६५
११४
न्यायविनिश्चयविवरणे
[ ११३
वास्तवस्य, ज्ञानस्य प्राकृतत्वेनाचेतनस्य वस्तुतः स्ववेदनाभावात्, चेतनोपाधिसामर्थ्यात्तु चेतना - यमानस्य तस्य स्वैवेदनमौपाधिकमेव न वास्तवमिति चेत्; उच्यते-
उपाधिसिद्ध चैतन्यं तत्कार्याय कथं क्षमम् ?
।
न मुखं मुखकार्याय दर्पणप्रतिबिम्बितम् ॥ ३३९॥ तत्कार्यकरणे वा तदवस्तु कथमुच्यताम् ! | वस्तु कार्यक्षमं यस्मात्कथ्यते वस्तुवेदिभिः ॥ ३४० ॥ कुर्वन्नपि भयं सत्यं रज्जुसर्पो न वस्तु चेत् । नैतत्सारम् ; भयाभ्यासादेव तस्य समुद्भवात् ॥ ३४१॥ सर्पज्ञानाद् भयाभ्यासेऽभिव्यक्ते हि भयं भवेत् । भयाभ्यासविहीनस्य तज्ज्ञानेऽपि तदत्ययात् ॥ ३४२॥ सर्पस्यानुपयोगश्चेत्कि' तज्ज्ञानमपेक्ष्यते । इति चेद् भयसंस्कारव्यक्तौ तच्छक्तिदर्शनात् ॥ ३४३॥ तद्व्यक्तिरपि सर्पाच्चेत्; न; अवस्तुत्वादशक्तितः । गम्यते तदवस्तुत्वमपि बाधकनिर्णयात् ॥ ३४४॥ तस्मादुद्बुद्धसंस्कार कार्यत्वेन विनिश्चितम् । न तत्सर्पाद्भयं नापितज्ज्ञानादुपजायते ॥ ३४५॥ संस्कारस्य च वस्तुत्वमस्खलत्प्रत्ययार्पितम् । न शक्यमेवापोतुं त्रिदिवाधिपतेरपि ॥ ३४६ ॥ तन्न कार्यक्षमं किंचिदवस्तु यदुपाश्रयात् । अवस्तु ज्ञानचैतन्यमर्थवित्यै प्रकल्प्यते ॥ ३४७ ॥ किञ्च केनैष गन्तव्यो "ज्ञाने चैतन्यसन्निधिः । न चैतन्येन तस्यात्मसंवित्त्यैव व्यवस्थितेः ॥ ३४८ ॥ न च ज्ञानेन चैतन्यस्यात्मनो वाऽपि वेदनम् । जडत्वात्, " उभयाज्ञाने ज्ञेयस्तत्सन्निधिः कथम् ॥ ३४९॥ तस्मात्स्वसन्निधिज्ञाने चिच्छक्त्या यदि वेद्यते । ज्ञानस्यापि तया वित्तिः स्वरूपस्यैव कथ्यताम् ॥ ३५० ॥ तद्वच बहिरर्थानां तथैव प्रतिवेदनात् । निष्प्रयोजनमेव स्यात्तदन्यज्ञानकल्पनम् ॥ ३५१ ॥
१ स्वसंवेद-आ०, ब०, प०, स० । २- द्वचै - ता० । ३ सरखं भा०, ब०, प०, स० । ४ सर्पज्ञानेऽपि । ५ - स्किन ज्ञा-आ०, ब०, प०, स० । ६ सर्पज्ञानम् । ७ सर्पज्ञानशक्ति । ८ सर्पावस्तुत्वम् । ९ सदुपा-आ०, ब०, प०, स० । यद्दष्टान्तात् । १० ज्ञानचैत- भा०, ब०, प०, स० । ११ उभयज्ञाने आ०, ब०, प०, स० । १२ ज्ञाने चैतन्यसन्निधिः ।