________________
१३]
प्रथमः प्रत्यक्ष प्रस्तावः
बहिरर्थग्रहे तस्या ज्ञानं चेत्साधनं मतम् ।
ज्ञानग्रहे परं ज्ञानं साधनं परिकल्प्यताम् || ३५२॥ ज्ञानानामनवस्थैवं कापिलानां प्रसज्यते । ज्ञान विना ज्ञानादेवमर्थमहो न किम् ? || ३५३॥ तत्र चैतन्यसंवेद्यो ज्ञाने चैतन्यसन्निधिः | ज्ञानवेद्यः से चेज्ज्ञाने स्वसंवेदनमिष्यताम् || ३५४ ॥ अन्यथा ज्ञानचैतन्यद्वयस्याप्रतिवेदनात् ।
तेन तद्वयसान्निध्यं दुर्बोधं हि निवेदितम् ॥ ३५५॥ यदि तद्द्वयसान्निध्यमन्यज्ज्ञानेन वेद्यते ।
न तस्यापि जडत्वेन तद्वत्तौ शक्त्यसम्भवात् ॥ ३५६॥ तस्यापि चितिसान्निध्याचिद्रूपत्वोपकल्पने । वेद्यं तदपि सान्निध्यं बोधस्यैवापरस्य वः || ३५७ ॥ तत्राप्येवं विचारे स्यादनवस्थानवैशसम् । चिच्छक्तिसन्निधिज्ञानं निर्मूलं यन्निकृन्तति ॥ ३५८ ॥ ततश्चित्सन्निधिज्ञानमनुपाधि स्ववेदनम् ।
ज्ञानत्वात्तद्वदन्यच सर्व विज्ञानमुच्यताम् ॥ ३५९ ॥
तदिदं वचनं वस्तुस्वरूपमेपि विचका कापिलैः ( मविविच्य कापिलैः ) कथितम् - "तस्मात्तत्संसर्गादचेतनं चेतनावदिह लिङ्गम् " [सांख्यका० २०] इति । ततः सिद्धमनिन्द्रियप्रत्यक्षं तस्य स्ववेदनरूपत्वात् । तस्य चोक्तन्यायेन सर्वसंवेदनेषु साधितत्वात् ।
अतीन्द्रियं तु प्रत्यक्षमवितथमव्याबाधं लोकोत्तरं कालत्रयत्रिलोकाधिकरणनिरवशेषपदार्थतत्त्वसाक्षात्करणदक्षमतिस्पष्टमुत्कृष्टं ज्योतिः । तँत्सद्भावे च प्रमाणं 'लक्षणम्' इत्यादौ, " अन्यत्र च यथावसरं निरूपयिष्यते ।
तदेतत् त्रिविधमपि प्रत्यक्षं द्रव्यादिस्वभाववस्तुगोचरमिति साधूकम्- 'द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम्' इति ।
प्रत्यक्षं त्रिविधं देवैः 'दीप्यतामुपपादितम् । द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥३६०॥
कश्विदाह-यदि साकारं निश्चयात्मकं प्रत्यक्षं तत एव निरवशेषोपाधिगर्भस्य भावस्य निश्वयात् किं प्रमाणान्तरेण अपूर्वार्थाधिगमस्य तत्फलस्याभावात्, समारोप व्यवच्छेदस्य च निश्चिते समारोपाभावेनासम्भवादिति ; अत्रेदमाह
११५
१ चिच्छकेः | २ चैतन्यसन्निधिः । ३ शक्यसं-आ०, ब०, प०, स० । ४ - पि चेति आ०, ब०, प०, स० । ५ - मपि विच्छिकाकापि-आ०, ब०, प० । -मपि विच्छिताकापि स० । ६ तद्भावे आ०, ब०, प०, स० । ७ न्यायवि० श्लो० १६८ । प्रमाणसं ० इलो० ९ । ८ दिव्यताम् आ०, ब०, प०, स० । देवैः उपपादितं त्रिविधं प्रत्यक्षं दीप्यताम् इत्यन्वयः ।
१०
१५
२०
२५