________________
न्यायविनिश्चयविवरणे
[१४ सदसज्ज्ञानसंवादविसंवादविवेकतः।
सविकल्पाविनाभावी समक्षेतरसम्प्लवः ॥४॥ इति ।
अस्यायमर्थः-सङ्गतम् इन्द्रियं कारणत्वेन यस्मिन् तत् समक्षम् इन्द्रियप्रत्यक्षं तच्च इतरच प्रमाणान्तरमनुमानादि तयोः सम्प्लव एकविषयत्वेनोपसर्पणं समक्षेतरसम्प्लवः, उपपद्यते' इति ५ शेषः । कुत एतत् ? दृष्टत्वात् । न हि दृष्टमनुपपत्तिपर्यनुयोगस्य भूमिः; अतिप्रसङ्गात् । सत्यम् , प्रत्यक्षविषय एव प्रमाणान्तरसवारो दृश्यते स त्वंपूर्वार्थाधिगमस्य समारोपव्यवच्छेदस्य च तत्प्रयोजनस्याभावात् निष्प्रयोजनः पर्यनुयुज्यत इति चेत् ; अत्राह-'सविकल्पाविनाभावी' इति । विकल्पो गृहीतेतरत्वेन निश्चितेतरत्वेन चार्थस्य कथञ्चिद्भेदः तदविनाभावी तनान्तरीयकस्तन्निबन्धनः स प्रस्तुतः तत्सम्प्लव इति ।
गृहीतश्चागृहीतश्च यदि प्रत्यक्षगोचरः । अपूर्वाधिगमस्तस्मिन् किन्न मानान्तरात्फलम् ॥३६१॥ निश्चितश्चेतरश्चैवमर्थश्चेदक्षगोचरः ।
तत्रारोपोपपत्तेस्तद्व्यवच्छेदैः प्रमान्तरात् ॥३६२॥
न खल्वस्मदादिप्रत्यक्षं निरर्वशेषाभावोपाधिप्रतिपत्तौ समर्थम् ; विकलोपाधिविषयतयैव १५ तस्यानुभवात् । ततस्तेद्गृहीतावशिष्टस्य भावभागस्य भावात् तदुपग्रहप्रवृत्तस्य प्रमाणान्तरस्य
अपूर्वार्थाधिगमान्न निष्प्रयोजनतया शक्यः पर्यनुयोगः । न च निश्चयात्मकत्वेऽपि प्रत्यक्षस्य ततः सर्वतद्विषयोपाधीनां निश्चयः; क्वचिन्निश्चयरूपस्यान्यत्रानिश्चयात्मनश्च परिच्छेदस्य ततः सम्भवात् । निश्चयात्मनः प्रत्यक्षात् कथमनिश्चयात्मा परिच्छेद इति चेत् ? न; एकान्तेन तस्य तँदा
त्मकत्वाभावात् । कथं तर्हि व्यवसायात्मकं ज्ञानं प्रत्यक्षमित्युक्तमिति चेत् ? न; अभिप्रायापरि२० ज्ञानात् । न ह्यनेन प्रत्यक्षाभिमतज्ञानस्य अनिश्चयरूपस्वभावान्तरप्रतिक्षेपः क्रियते, सत्यपि
रूपान्तरे व्यवसायरूपापेक्षयैव तस्य प्रत्यक्षत्वं नेतरभागापेक्षयेति एवम्परत्वात्तद्वचनस्य । ततो निश्चयावशेषितस्यापि भावोपाधे वान्न तद्विषयस्य प्रमाणान्तरस्य नैष्फल्यपर्यनुयोगः सुलभावकाश इति ।
स्यादाकूतम्-एतदेव विप्रतिपत्तिस्थानं यदेकस्य गृहीतेतरत्वेन निश्चितेतरत्वेन च २५ विकल्प इति, तत्कथं तन्निबन्धनः समक्षेतरसम्प्लव इति ? तन्न; निश्चितस्य विप्रतिपत्तिस्थान.
त्वायोगात् , निश्चित एव तद्विकल्पो जैनवत् सौगतस्यापि । तदाह-'सदसज्ज्ञान इत्यादि । सद् विद्यमानम् असद् अविद्यमानं च ज्ञानं ययोस्तयोविवेको निश्चयः सौगतस्यापि सदसज्ज्ञान
-क्षमतीन्द्रिय-मा०, ब०, ५०, स०। २-जनं पर्य-आ०, २०, ५०, स०। ३-दन-पा०, ब०,५०, स०।४-वशेषोपाधि-आ०, ब०, ५०, स०।५ प्रत्यक्षगृहीत । ६ प्रत्यक्षात् । ७ निश्चयात्मकत्वाभावात् । ८ लघी. का०६०। "इदमनन्तरोक्तं स्पष्टं विशदं व्यवसायात्मकं ज्ञानम् । कथम्भूतम् ! खार्थस. निधानान्वयव्यतिरेकानुविधायि प्रतिसंख्यानिरोध्यविसंवादकं प्रत्यक्षं प्रमाणं युक्तम् ।"-सिद्धिवि०टी०प० ९६ । ९ निश्चितावशिष्टस्य, अनिश्चितस्येत्यर्थः । निश्चयाविशेषि-आ०, ब०, ५०, स०।