________________
१४ ]
प्रथमः प्रत्यक्ष प्रस्तावः
११७
विवेकः तस्मादस्ति वस्तुपु गृहीतेतरत्वेन विकल्प इति भावः । तंत्र परमाणूनां नीलाद्याकारः सज्ज्ञानः तस्य प्रत्यक्षेण परिज्ञानात्, असज्जानस्तु तेषामेव परस्परतो 'विवेकः तस्य सतोऽपि प्रत्यक्षेण वेदनात्, अन्यथा स्थूलाकार प्रतिवेदनाभावप्रसङ्गात् ।
विवेकः परमाणूनां प्रत्यक्षे यदि भासते । स्थूलैकाकारनिर्भासाभाव एव प्रसज्यते ॥ ३६३ ॥ न च नास्ति स निर्भासो निर्वाधात् स्वप्रवेदनात् । तदभावे न किञ्चित्स्यादणुज्ञानाप्रवेदनात् ॥ ३६४ ॥ शून्यवादापवादश्च ननु पश्चाद्भविष्यति । तेनालमुत्सुकायित्वात् प्रस्तुते दीयतां मतिः ॥ ३६५॥
सतोऽपि स्थूल निर्भासस्येन्द्रियत्वं न चेदसत् । तस्यैवेन्द्रियजत्वं यद्वक्ति प्रज्ञाकरः स्फुटम् ॥ ३६६॥
" को वा विरोधः " [प्र० वा० २।२२३] इत्यादि कारिकाव्याख्याने खलु अलकाकारेण - "यथैव केशा दवीयसि देशेऽसंसक्ता अपि घनसन्निवेशावभासिनः परमाणवोsपि तथेति न विरोधः " [ प्र० वार्तिकाल० २।२२३ ] इति ब्रुवाणेन परिस्फुटमेव परमाणुषु घनसन्निवेशप्रतिभासस्य इन्द्रियजत्वमुक्तम् । विकल्परूपत्वे हि तस्यान्यदेव किञ्चिदिन्द्रियज्ञानम्, १५ तत्र च परमाणवः परिमण्डलावभासिन एवेति कथं घनसन्निवेशावभासिनो यतः 'परमाणवोऽपि ' इत्यादि वचनमुपपन्नं भवेत् । विकल्पज्ञान एव ते घनसन्निवेशावभासिनो न इन्द्रियज्ञान इति चेत्; न; तयै तँगो (तद्गो) चरत्वात्, अन्यथा तंत्रापि विवेकस्यावभासने " तदनुपपत्तेः । अनवभासने" त्विन्द्रियज्ञानेऽपि अनवभासितविवेका एव ते घनसन्निवेशप्रतिभासिनो भवेयुरविशेषात् । तस्मादिन्द्रियज एव तन्निर्भासः " तत एव दूरविरलकेशघनसन्निवेशप्रतिभासस्य २० तथाविधस्यैव " निदर्शनत्वमुक्तम्, न केवलं विरलवस्तुनिबन्धनत्वेन निदर्शनसादृश्यं तन्निर्भा - सस्य, अपि तु इन्द्रियजत्वेनापीत्यवद्योतनार्थम् । ततो न परमाणून विवेकस्याध्यक्षेण ग्रहणं घनसन्निवेशस्यैव ग्रहणात् । " तदग्रहणे तद्व्यतिरिक्तो नीलाद्याकारः कथं गृह्यत इति चेत् ? न; दर्शनादभ्युपमाच्च । " हेतुभावाद्यते नान्या ग्राह्यता नाम काचन" [प्र०वा० २।२२४] इत्यादि व्याख्यानं कुर्वता हि "परेणोक्तम् - " परमाणूनामियं नीलाकारता" [ प्र० वार्ति- २५ काल० २।२२४]इति। ततोऽवगम्यते तत्प्रत्यक्षत्वं तेनाभ्युपगतम्, अन्यथा 'इयम्' इति प्रत्यक्षनिर्देशानुपपत्तेः । गृहीतोऽपि तदाकारो भ्रान्त एव स्थूलाकारादिवदिति चेत् ; न; ‘परमाणूनाम्’
१ तत्र प्रमाणानाम् स० । २ भेदः । ३ -धात्सप्रवे-आ०, ब०, प०, स० । ४ प्रमाणवार्तिकालङ्कारकृता । ७ परमाण्वविषयत्वात् । ८ विकल्पस्य परमाणु ५ - वेऽपि तस्य आ०, ब०, प०, स० । ६ विकल्पस्य । विषयत्वे । ९ विकल्पज्ञानेऽपि । १० घनसन्निवेशप्रतिभासानुपपत्तेः । ११ परमाणुविषयत्वे परमाणुभे दानवभासने । १४ परमाण्वग्रहणे । १२ – सत एव आ०, ब०, प०, स० । १३ निदर्शनमुक्तम् आ०, ब०, प०, स० । १५ प्रज्ञाकरेण । १६ नीलाकारता प्रत्यक्षत्वम् । १७ नीलाद्याकारः ।
१०