________________
स्यान्मतम् - न विवेकाग्रहणं धर्मकीर्तेरभिप्रेतं सकलोपाधिवेदनस्यैव तदभिमतत्वात् । ५ " तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः” [प्र० वा० ३ | ४४ ] इति वचनात् । च तस्यानभिप्रेतं सौगत सिद्धान्ततया प्रत्येतव्यम्, तद्वचनमूलत्वात् तत्सिद्धान्तपरिज्ञानस्य । नित्रन्धनकार तु सदपि विवेकापरिज्ञानवचनमनादेयमेव 'तस्मात् दृष्टस्य' इत्यादि प्रत्यनीकस्वात् । न हि तस्यैव शास्त्रं व्याचक्षाणस्य तन्मतविरुद्धं वचनमुपपन्नमिति; तदसत् ; "न च बुद्धिगोचराः " [ ] इति धर्मकीर्तिनैव प्रतिपादनात् । अनेन हि विवेकरूपतयैव पर१० माणूनामबुद्धिगोचरत्वमुच्यते न नीलादिरूपतया; प्रतीतिबाधप्रसङ्गात् । कथं तर्हि तस्मादित्यादिकं तस्य वचनमिति चेत् भवत्वयं तस्य दोषः, परस्परविरुद्धाभिधानात् । न तावता विवेकाग्रहणं तस्यानभिप्रेतम्' इत्यवसीयते । ततः सिद्ध एव सौगतस्यापि गृहीतेतररूपतया भावभेदः निश्चितानिश्चितरूपतया च । तदाह - 'संवादविसंवादविवेकतः' इति । संवादो निर्णय एव " नातः परो विसंवादः" [ ] इति वचनात् । तद्भावो' विसंवादः तयोरपि १५ विवेक एकवस्तुविषयतया निश्चय एव जैनवत् सौगतस्यापि तद्भावात् । तथा हि
२०
११८
न्यायविनिश्चयविवरणे
[ १२२४
इति वचनात् । न हि स्वलक्षणस्वभावस्य भ्रान्तत्वम् ; बेहिरर्थवादाभावप्रसङ्गात् । न चायं ज्यायान् द्वाद एव स्थित्वा "परमाणूनाम्" इत्यादिवचनात् । ततः सिद्धम् - परमाणुपु नीलाद्याकारस्य सत एव ग्रहणम्, अग्रहणं च विवेकस्येति सदसज्ज्ञानत्वं तयोः ।
1
२५
नीलवत्क्षणभङ्गादेर्मनोऽध्यक्षादवेदने ।
“एकस्यार्थस्वभावस्य” इत्यादि सूक्तं वचः कथम् ? ॥ ३६७॥
वेदने तु ततस्तस्यै' निश्चयो यदि नीलवत् । तत्रानुमानवैफल्यं तद्वदेव कथं न वः ? ॥ ३६८ ॥
न गृहीतिर्गृहीतत्वान्निश्चितत्वान्न निश्चयः । तस्यानुमानादन्यत्तु फलं तस्य किमुच्यताम् ? ॥ ३६९ ॥ निश्चिते च समारोपो विरोधान्नोपजायते । फलं यतोऽनुमानस्य तद्विच्छेदः प्रकल्प्यताम् ॥ ३७० ॥ समारोपव्यवच्छेदमनुमानात्तदिच्छता ।
वक्तव्यः क्षणभङ्गादेर्मनोऽध्यक्षान्न निश्चयः || ३७१ || " तस्येव यदि नीलादेरपि तस्मान्न निश्चयः । मानसं कथमध्यक्षं निश्चितं निश्चयात्मकम् ॥ ३७२ ॥
१ बहिरर्थवदभाव - भा०, ब०, प०, स० | २ बहिरर्थवादे । ३ नीलाद्याकार- विवेकयोः । ४ न तस्याभिप्रेतं आ०, ब०, प०, स० । ५ - त्वात्सत्सि - भा०, ब०, प०, स० । ६ प्रज्ञाकरस्य । ७ तस्मात् दृष्टस्य भावस्येत्यादि । ८ धर्मकीर्तेः । ९ - वोऽपि विसं -आ०, ब०, प०, स० । १० प्र०वा० ३।४२ । ११ क्षणभङ्गादेः । १२ समारोपव्यवच्छेदः । १३ तस्यैव आ०, ब०, प०, स० । क्षणभङ्गादेवि ।