________________
१४]
प्रथमः प्रत्यक्षप्रस्ताव:
११२
न हि किश्चिदनिश्चिन्वत युज्यते निश्चयात्मकम् । स्वापमूर्छादिबोधेऽपि सत्त्वस्यातिप्रसञ्जनात् ॥३७३॥ नाप्येतन्निर्णयात्मत्वं मानसस्याप्रसिद्धिमत् । यतः प्रज्ञाकरस्येदमस्मिन्नर्थे वचः स्थितम् ॥३७४॥ "इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थिते । साक्षात्करणतस्तत्र प्रत्यक्ष मानसं मतम् ॥ [प्र. वार्तिकाल०२।२४३] इति इदमित्येवमुल्लेखान्नान्योऽन्यत्रापि निर्णयः ।
स चेदस्ति मनोऽध्यक्षे सिद्धं तन्निर्णयात्मकम् ॥३७६॥ तस्य च तदात्मकत्वं नीलादावेव न क्षणक्षयादौ उक्तदोषत्वात् । ततो गृहीतावशेषितस्य निश्चितावशेषितस्य च भावभागस्य भावात्तगृहणाय तन्निश्चयाय च प्रवर्त्तमानस्य प्रमाणान्तरस्य न १० वैफल्यमिति साधूक्तम्-'सदसज्ज्ञान' इत्यादि।
यदि वा यदुक्तमैन्यैः-'द्रव्यपर्याय' इत्याद्यर्युक्तम्, विरोधात् । अन्वयो हि द्रव्यस्य स्वभावः व्यतिरेकश्च पर्यायस्य, तयोश्च लक्षणतो विरोधात् कथमेकत्वम् ? सामान्यविशेषयोश्च, तयोरपि सादृश्यवैसँदृश्यरूपतया लक्षणतो विरोधस्य सुप्रसिद्धत्वात् । तत्कथं 'द्रव्यपर्यायसामान्यविशेषात्मकत्वमर्थज्ञानयोर्यतस्तद्वेदनं प्रत्यक्षम्' इति । तत्रेदमाह-'सदसज्ज्ञान' इत्यादि- १५ सम्यक् सङ्करादिपरिहारेण अक्ष्णोति व्याप्नोति स्वपर्यायानिति समक्षं द्रव्यम्, इतरे व्याप्तिविपययात् पर्यायाः । अथवा, समरूपतया अक्ष्यते गम्यत इति समक्षं 'तिर्यक् सामान्यम् । इतरे तद्रूपवैपरीत्याद् विशेषास्तेषां समक्षेतराणां सम्प्लवः। समित्ययमुपसर्गः एकत्वे, 'समर्थः' इत्यादौ दर्शनात्, प्लवः संवेदनम्, गत्यर्थस्य धातोर्ज्ञानार्थत्वात् । तदयमर्थः-समक्षेतराणां द्रव्यपर्यायाणां सामान्यविशेषाणां चैकत्वेन वेदनम् । केनेति चेत् ? प्रत्यक्षलक्षणेन । पूर्वश्लोकादनुवर्तमानस्य २० तृतीयापरिणामेन सम्बन्धात् । इदमत्र ऐदम्पर्यम्-न द्रव्यादीनामप्रतिपत्तौ तत्रैकत्वप्रतिषेधनमुपपन्नम्, अप्रतिपन्नप्रदेशे मशकप्रतिषेधस्याऽप्रवेदनात् । प्रतिपन्ना एव द्रव्यादय इति चेत्; कुतस्तत्प्रतिपत्तिः ? प्रत्यक्षादिति चेत् ; ततस्तर्हि
अन्वितानन्वितत्वेन यथा भेदोऽवगम्यते । द्रव्यपर्याययोस्तद्वदभेदोऽप्यवसीयते ॥३७७॥ प्रत्यक्षेणोपलब्धोऽपि यद्यभेदो विरुध्यते । विरुध्येतैव भेदोऽपि तद्विशेषानवेक्षणात् ॥३७८॥ ततश्च भावनैरात्म्यप्रवादो दुस्त्यजो भवेत् ।
उपपत्तिर्न तत्रापीत्येतदने वदिष्यते ॥३७९॥
निश्चयात्मकत्वसद्भावस्य प्रसन्नात् । सस्वस्यापि प्रस-आ, २०, ५०, स.।२ मनोऽध्यक्षस्य । ३ निर्णयात्मकत्वम् । तदात्मत्वं ता०, स०। ४ -स्य च भा-आ०, ब०, प०। ५ बौद्धः। तत्वसं० पृ. ११८, ४८९ । हेतुबि० टी० पृ. ९८ । ६ -दि यु-आ०, ब०, १०, स० । ७-वैसाट-आ०, २०, ५०, स.। "सदृशपरिणामस्तिर्यक खण्डमुण्डादिषु गोत्ववत्"-परीक्षामु. १४।