________________
१२० न्यायविनिश्चयविवरणे
[१४ ___कुतः पुनरेतदवगतम्-'द्रव्यपर्यायतादात्म्यं प्रत्यक्षतोऽवगम्यते' इति ? तत्राहसविकल्पाविनाभावी । स तत्सम्प्लवो विशेषेण संशयादिव्युदासेन कल्पनं समर्थनं विकल्पो निर्णय इति यावत्, तदविनाभावी तन्नान्तरीयकः तदात्मकत्वात् । एतदुक्तं भवति-प्रत्यक्षप्रयुक्तो हि तत्सम्प्लवो निर्णयस्वभावः ततस्तस्य तत्तादात्म्यावगमरूपत्वं स्वत एव निश्चितमिति किं तन्निश्चयार्थेन प्रमाणान्तरेणेति ? कथमेवं तत्र विप्रतिपत्तिः? न हि प्रत्यक्षत एव तत्तादात्म्यावगमे तत एव च तस्य तद्विषयत्वनिर्णये तत्र कस्यचिद्विप्रतिपत्तिर्भवितुमर्हति निर्णयस्य विप्रतिपत्तिप्रत्यनीकत्वात् । दृश्यते च तत्रानेकधा विप्रतिपत्तिः प्रवादिनामिति चेत् ; न; शास्त्रान्तरसंस्कारविकलानां तदभावात् । न हि कुण्डलितस्य प्रसारितस्य च पन्नगपतेरेकत्वे तद्विष.
यत्वे च प्रत्यक्षस्य तेषों विप्रतिपत्तिः सर्वेषां तत्रैकवाक्यत्वोपलम्भात् । तर्हि तान्प्रति शास्त्र१० मनर्थकमेव, स्वत एव विप्रतिपत्त्यभावे तन्निवर्तनस्य शास्त्रफलस्याभावादिति चेत् ; न;
तान्प्रत्यन्यपरत्वाच्छास्त्रस्य । ते हि कुतश्चित्प्रत्युत्पन्नशरीरेन्द्रियविषयनिर्वेदा मुमुक्षुतया मोक्षमार्गप्रश्नेन विदिततन्मार्गतत्त्वं देवं सप्रश्रयमुपपन्नास्तेन च सम्यग्ज्ञानं तन्मार्गमुक्ताः पृच्छेयुः 'किं तत् सम्यग्ज्ञानम्' इति ? तत्र सम्यग्ज्ञानव्यवहारविषयोपदर्शनाय तत्प्रसिद्धमेव द्रव्य
पर्यायस्वभावपदार्थगोचरं प्रत्यक्षादिज्ञानं शास्त्रेणानूद्यत इति कथमनर्थकत्वं तस्य ? तत एव १५ कैश्चिदुक्तम्-"प्रमाणानुवादः" [ ] इति । प्रवादिनां तु विद्यन्त एव विप्रतिपत्तयः ।
न चैतावता स्वविषयनिर्णयस्वभावरहितमेव प्रत्यक्षम्, निर्णीतेऽपि विषये कुतर्काभियोगबलात् अन्तरङ्गादपि दोषोपप्लवात् मन्दप्रज्ञानां विप्रतिपत्तिविधानोपपत्तेः, अन्यथा सकलप्रतिपत्तृनिश्चयाधिष्ठाने बहिर्विषयादौ विप्रतिपत्तिविरहाद् विज्ञानवादादिविकलं सकलं जगत्प्राप्नोति । तासां च विप्रतिपत्तीनां कचित् स्वमतानुरागविषमग्रहव्यापत्तिविकलेषु तत एव वचनमात्रो. २० पसूचिताग्निर्णयात्मनः प्रत्यक्षान्निवृत्तिरिति मन्वानेनेदमभिहितम्-'सविकल्पाविनाभावी'
इति । येषां तु बलवती स्वमतपक्षपातिनी मतिः तेषामपि तत एव प्रत्यक्षस्य विकल्पाविनाभावित्वात् यथाविहितवस्तुनिर्णयस्वभावापरव्यपदेशाद् अनुमानव्यवस्थापिताद् विप्रतिपत्तिव्यावृत्तिः, न च निर्णयरूपत्वाविशेषात् अध्यक्षनिर्णयवत् अनुमाननिर्णयस्यापि विप्रतिपत्तिविषयत्वेन तद
परानुमानव्यवस्थायामनवस्थानम्; स्वप्रसिद्धनिदर्शनबलोपनीतत्वेनानुमाननिर्णयस्य अशक्य२५ विप्रतिपत्तिमलोपलेपत्वात् । तच्चेदमनुमानम्-विवादाध्यासितं प्रत्यक्षम् अन्वयव्यतिरेकवद्वस्तु
निश्चयरूपं प्रत्यक्षत्वात् । किमत्र परप्रसिद्धमुदाहरणम् ? सदसज्ज्ञानप्रत्यक्षम् । तदाह'सदसज्ज्ञानविवेकतः' इति । सर्च गृहम् असच्च तद्विशेषणं देवदत्तादिवैकल्यं सयोर्ज्ञानं तस्य विवेकः प्रत्यक्षेण निर्णयः । ततस्तमुदाहरणत्वेनाश्रित्य सविकल्पाविना
भावीति । एकं हि प्रत्यक्षज्ञानं देवदत्ताभावतद्विशिष्टगृहविषयमुपजायमानं विशेषणप्रतिभासा३० द्विशेष्यप्रतिभासस्य तत्प्रतिभासाच विशेषणप्रतिभासस्य नीलपीतप्रतिभासवद् अर्थान्तरत्वादु
१ प्रत्यक्षस्य । २ द्रव्यपर्यायतादात्म्य । ३ खस्य । ४ विवादाभावात् । ५ प्रवादिनाम् । ६ -ज्ञानस्य ध्यव-मा०, ब०, ५०, स०। ७-यादौ प्रति-आ०, ब०, ५०, स०। ८-समतानु-आ०, ब०, ५०, स.। ९ “प्रत्यक्षादिति पाठः"-ता. टि. । १० 'देवदत्ताभाववद् गृहम्' इत्यत्र ।