________________
प्रथमः प्रत्यक्षप्रस्तावः
१२१ भयाकारं परस्यापि प्रसिद्धम् । तथा च विश्वरूपस्य वचनम्-"ततोऽपि विशेषणविशेष्यत्वेन प्रतिभासादभावगृहयोरेकज्ञानावलम्बनत्वम्"[ ] इति । तच्च तदुभयप्रतिभासलक्षणाकारापेक्षया सव्यतिरेकम्, तदाकाराधिष्ठानसंवेदनापेक्षया तु सान्वयम् इत्यन्वयव्यतिरेकवद्वस्तुरूपमिति सिद्धं तद्विषयस्य स्वसंवेदनस्यान्यस्य वा प्रत्यक्षस्यान्वयव्यतिरेकवद्वस्तुनिर्णयरूपत्वमिति साध्यावैकल्यमुदाहरणस्य ।
____ अथवा, सामान्यविशेषज्ञानमत्र उदाहरणम् । तदाह-'सदसज्ज्ञानविवेकतः' इति । सीदति स्वविशेषव्यापकत्वेन गच्छतीति सत्, न सीदति विजातीयविशेषव्यापकत्वेन न गच्छतीत्यसत् । सच्चासावसच्च सदसत् सामान्यविशेष इत्यर्थः । प्रसिद्धश्चायमर्थः परस्य । तथा च "सामान्यं विशेष इति बुद्ध्यपेतम्" [वैशे० सू० १।२।३] इति । अत्र भाष्यम्"तत्रैकं गोत्वं बुद्धिवशात्सामान्यं विशेष इति. 'चोच्यते, अनुवृत्तबुद्धिहेतुत्वात्सामान्यं १० व्यावृत्तबुद्धिहेतुत्वाद्विशेषः।" [ ] इति । तस्य ज्ञानं तत्प्रत्यक्षं सदसज्ज्ञानं तस्य विवेको निश्चयः । तस्मादुदाहरणात् सविकल्पाविनाभावीति । तथा हि
यत्सामान्यविशेषस्य व्यावृत्त्यनुगमात्मनः । विनिश्चायकमध्यक्षं काणादस्य प्रसिद्धिमत् ॥३८॥ तदुदाहरणादन्यदपि प्रत्यक्षमञ्जसा ।
व्यावृत्त्यनुगमात्मार्थनिश्चयाङ्गं निबुध्यताम् ॥३८१॥ स्यान्मतम्-गोत्वस्यान्यस्य वा सामान्यरूपमेव वस्तुसत् न विशेषरूपं तत्तु परमुपचारात् , ततो न वस्तुसड्यावृत्त्यनुगमात्मनिर्णयरूपत्वं तत्प्रत्यक्षस्य । ततः साध्यवैकल्यमुदाहरणस्य, तथा च "द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च" [वैशे० सू० १।२।५] इति । अत्र भाष्यम्-"तत्र द्रव्यत्वमनेकवृत्तित्वादञ्जसा सामान्यं २० सत् व्यावृत्तप्रत्ययहेतुत्वादौपचारिकी विशेषाख्यामपि लभते" [ ] इति । तत्रेदमुच्यते-कः पुनरसौ विशेषो द्रव्यत्वे यस्योपचारः क्रियते ? गुणकर्मभ्यो व्यावृत्तत्वमिति चेत् ; न; तस्य मुख्यस्यैव भावात्, अन्यथा तव्यावृत्तप्रत्ययस्यैवानुदयप्रसङ्गात् , तस्य तद्विशेषनिबन्धनत्वात् । उपचारसिद्धात्तद्विशेषात्तत्प्रत्यय इति चेत् ; न ; तत्प्रत्ययाभावे तदुपचारस्यैवायोगान् । तदयं परस्पराश्रयः -व्यावृत्तप्रत्ययाद्विशेषोपचारः, तदुपचाराच्च तत्प्रत्यय २५ इति । यदि च द्रव्यत्वस्य गुणकर्मभ्यो व्यावृत्तत्वमौपचारिकम् , तदनुवृत्तत्वं तर्हि पारमार्थिकमिति गुणकर्मणामपि द्रव्यत्वोपपत्तेः सुव्यवस्थितो द्रव्यादिभेदः स्यात् । पृथिव्यादिष्वनुवृत्तिरेव
देवदत्ताभाववद् गृहमिति ज्ञानम् । २-ति न साध्यादिवै-आ०,ब०,१०,स०। ३ पृथिवीत्वादिकमित्यर्थः । "अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । "एवं पृथिवीत्वरूपत्वोत्क्षे. पणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः।"-प्रश०भा० पू० १६५।५ चौद्यते आ०,०, १०, स.। "एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि, खाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ।"-प्रश०भा०पू०१६६।६ गुणकर्मभ्यो द्रव्यं व्यावृत्तमिति प्रत्ययस्य । ७ गुणकर्मव्यावृत्तिनिवन्धनस्वात् । ८ गुणकर्मानुत्तत्वम् ।