________________
१२२
न्यायविनिश्चयविवरणे
[ १४
तस्य गुणकर्मभ्यो व्यावृत्तिर्नापरेति चेत्; गुणकर्मभ्यो व्यावृत्तिरेव तस्य पृथिव्यादिष्वनुवृत्तिनपरेत्यपि कस्मान्न स्यात् ? अनृवृत्तप्रत्ययेन पृथगेवानुवृत्तेर्व्यवस्थापनादिति चेत्; न; व्यावृत्तप्रत्ययेनापि पृथगेव व्यावृत्तेर्व्यवस्थापनप्रसङ्गात् । व्यावृत्तप्रत्ययोंऽपि नापरोऽनुवृत्त - प्रत्ययात् । तथा च भाष्यम्- " कः पुनर्द्रव्यत्वनिमित्तो द्रव्यस्यानुवृत्तप्रत्ययः ? ' द्रव्यं ५ द्रव्यम्' इति । व्यावृत्तप्रत्ययोऽपि स एव" [ ] इति । तत्कथमसिद्धादेव व्यावृत्तप्रत्ययात् पृथग्व्यावृत्तेर्व्यवस्थापनमिति चेत्; न; वचनमात्रात् तत्प्रत्ययापलापस्य दुरुपपादत्वात्, अनुवृत्तप्रत्ययस्याप्यपलापस्य प्रसङ्गात् । शक्यं हि वक्तुम् - कः पुनः द्रव्यत्वनिमित्तः पृथिव्यादिषु व्यावृत्तप्रत्ययः ? रूपाद्युत्क्षेपणादिविलक्षणाः पृथिव्यादय इति द्रव्यमित्यनुवृत्तप्रत्ययोऽपि स एव इति । पृथगेवानुवृत्तप्रत्ययोऽनुभूयत इति चेत्; न; व्यावृत्तप्रत्ययस्या १० पृथगेवानुभवात् । व्याहतचैतत् - अनुवृत्तप्रत्ययस्यैव व्यावृत्तप्रत्ययत्वमिति, नीलप्रत्ययस्यैव तदपरसकलपदार्थप्रत्ययत्वप्रसङ्गात् एवञ्च सर्वस्य सर्ववेदित्वमुपायाभियोगनिरपेक्षमेव भवेत् । नीलात् तदपरसकलपदार्थजातस्य अर्थान्तरत्वान्नायमतिप्रसङ्ग इति चेत्; अनुगमाद्व्यावृत्तेरनर्थान्तरत्वं कस्मात् ? अनुगमप्रत्ययस्यैव व्यावृत्तप्रत्ययत्वादिति चेत्; तदपि कस्मात् ? अनुगमाद्व्यावृत्तेरनर्थान्तरत्वादिति चेत्; न; सुव्यक्तत्वात्परस्पराश्रयस्य । न च विषयवशात् १५ प्रतीतिव्यवस्था ; प्रतीतेः प्राक् विषयस्यैवासिद्धेः । प्रतीतिश्चानुवृत्तप्रतिभासवती व्यावृत्तप्रतिभासवती च भिन्नाकारैवेति कथन्न ततस्तद्विषयभेदसिद्धिः । युगपद् बुद्धिद्वयं न प्रतिभासत इति चेत्; नीलपीतयोरपि युगपग्रहणे बुद्धिद्वयं न प्रतिभासते एव । मा भूत् बुद्धिद्वयमिति चेत् ; किं तर्हि स्यात् ? एकैव बुद्धिरिति चेत्; सा यदि नीलविषयैव कुतः पीतप्रतिभासनम् ? न कुतश्चिदिति चेत्; न; नीलेऽप्यपरापरावयवानामेकावयव ग्रहणेनाऽग्रहणप्रसङ्गात् अखण्डै२० कावयवग्रहणमेवावशिष्येत । न च तैस्योपलब्धिरिति प्रतिविषयज्ञानभेदवादिनां निःशेषप्रतीतिविलोप एव स्यात् । अवयविप्रतीतेः नैवमिति चेत्; न; अवयवाप्रतीतौ तदप्रतीतेः । अतिबहलान्धकारथेलायामप्रतोतार्वैयवैवावयविप्रतीतिरिति चेत्; न; तदापि मध्यपाश्र्वादिभागेंप्रतिपत्ते रवश्यम्भावात्, अन्यथा पशुमनुष्यादिविभागपरिज्ञानप्रसङ्गात् । अस्ति च तदवस्थायां तत्परिज्ञानम् । तन्न अवयवप्रतिपत्तिविकला क्वचिदप्यवयविप्रतिपत्तिरिति दुरपवाद एव सकल२५ प्रतीतिविलोपः प्रत्यर्थनियतज्ञानवादिनाम् ।
अस्तु तर्हि नीलबुद्धिरेव पीतविषयेति चेत्; न; नीलाभिमुखेनैव रूपेण तस्यास्तद्विषयत्वविरोधात्, तदपर निरवशेषपदार्थ विषयत्वातिप्रसङ्गस्याभिहितत्वात् ।
तेन तारा निकुरम्बस्यैकज्ञानवेद्यत्वं प्रत्युक्तम्; एकज्ञानस्यैकताराभिमुखेनैव रूपेण तारान्तरविषयत्वानुपपत्तेः । तथा च सदसद्वर्गः कस्यचिदेकज्ञानालम्बनम् अनेकत्वात् तारानि३० कुरम्बवदिति न निदर्शनम्, साध्यविकलत्वात् । अस्त्येव तर्हि पीताभिमुखमपि रूपं तद्बुद्धे
१ अनायासम् । २ अनुगमप्रत्ययस्यैव व्यावृत्तप्रत्ययस्वे अनुगमाद् व्यावृत्तेरनर्थान्तरत्वम्, तस्मिंश्च अनुगमप्रत्ययस्य व्यावृत्तप्रत्ययत्वमिति । ३ अखण्डैकावयवस्य । ४- वयवावय-आ०, ब०, प०, स० । ५-गप्रतीतेरआ०, ब०, प०, स० । ६-गादिपरि-आ०, ब०, प०, स० । ७ नीलादिमुखे - भा०, ब०, प०, स० ।