________________
प्रथमः प्रत्यक्षप्रस्ताव:
१।४]
१२३ रिति चेत् ; सिद्धं तर्हि द्रव्यत्वादिसामान्यप्रत्ययस्यापि अनुवृत्तरूपाभिमुखादन्यदेव व्यावृत्तरूपाभिमुखं रूपम् , अन्यथा तस्य तद्विषयत्वायोगादिति न सर्वथा अनुवृत्तप्रत्ययादनन्तरमेव व्यावृत्तप्रत्ययः, तथात्वे वा “गोत्वमनुवृत्तबुद्धिहेतुत्वात् सामान्यम्" [ ] इत्येतदेव भाष्यमर्थवत् सामान्यस्य तबुद्धश्च तद्विषयस्य भावात् , “व्यावृत्तबुद्धिहेतुत्वाद्विशेषः" इति तु नार्थवत् विशेषस्य तबुद्धश्च तद्विषयस्याभावात् । अनुवृत्तादिभाष्यस्यैव व्यावृत्तादि- ५ भाष्येण व्याख्यानमिति चेत् ; न ; अवाचकत्वात् । न ह्यनुवृत्ततत्प्रत्ययपदार्थयोः व्यावृत्ततत्प्रत्ययपदें वाचके । न चावाचकेन व्याख्यानम् ; तस्य व्यामोहनत्वात् , ततः प्रत्ययभेद एव भाष्यभेदोपपत्तिर्नान्यथा । तदयम् 'अनुवृत्तबुद्धि' इत्यादिना भाष्येण अनुवृत्तव्यावृत्तप्रत्यययोर्भेदमाचक्षाण एव 'कः पुनः' इत्यादिना तयोरभेदमेवाचष्ट इति कथमनुन्मत्तः आत्रेयः ? तन्न व्यावृत्तरूपस्य विशेषस्योपचारः। एकवृत्तित्वं विशेषो द्रव्यत्वस्योपचर्यते “एकवृत्ति- १० विशेषः" [ ] इति तल्लक्षणादिति चेत् ; न ; तस्यापि मुख्यस्यैव भावात् । अनेकवृत्तिनि कथमेकवृत्तित्वमिति चेत् ? न ; तस्य प्रेस्थे कुडववत् अनेकवृत्तिनि सम्भवप्रमाणसिद्धत्वात् अवधृतस्यासिद्धिरेव, न ह्यनेकवृत्तिन 'एकवृत्तित्वमेव' इत्यवधृतमेकवृत्तित्वं सिद्धमिति चेत् ; कः पुनरवधारणार्थः ? व्यावृत्तिरन्यत इति चेत् ; सैव तर्हि विशेषो नैकवृत्तित्वमात्रम् , सा चैकवृत्तिवदनेकवृत्तिन्यपि भवन्ती विशेषः कस्मान्न भवेदविशेषात् ? १५ एकवृत्तित्वोपाधिरेव “सा विशेषव्यपदेशाय कल्प्यते नानेकवृत्तित्वोपाधिकेति चेत् ; कुत एतत् ? सत्तासामान्ये सत्यामपि तस्यां विशेषव्यपदेशादर्शनादिति चेत् ; न; द्रव्यत्वादिषु विशेषव्यपदेशस्य तत एव दर्शनात् । ततो न विशेषोपचारस्य किञ्चित्प्रयोजनं मुख्यत एव विशेषात्सकलतत्प्रत्ययानां निष्पत्तेः । तस्मान्मुख्यत एव द्रव्यत्वे अनुवृत्तव्यावृत्ताकारद्वितयोपपत्तौ तत्प्रत्यक्षस्य अन्वयव्यतिरेकवद्वस्तुनिश्चयरूपत्वेन साध्यवैकल्यानुपपत्तेः उपपन्नमेतत् २० 'अन्वयव्यतिरेकवद्वस्तुनिश्चयस्वरूपं प्रत्यक्षं प्रत्यक्षत्वात, द्रव्यत्वसामान्यविशेषप्रत्यक्षवत्' इति । न चेदनुमन्तव्यम् अप्रसिद्धमुदाहरणम् द्रव्यत्वस्याप्रत्यक्षविषयत्वात्, अन्यथा अनुमानेन तद्व्यवस्थापनावैफल्यादिति; "प्रत्यक्षत्वेऽपि तस्य दृढनिर्णयार्थमनुमानमिति परैरभ्युपगमात् । तथा च भाष्यम्-"भवतु वा द्रव्यत्वं प्रत्यक्ष तथाप्यनुमानोपन्यासः दाार्थ इत्यदोषः" [ ] इति ।
___ अथवा , संशयप्रत्यक्षम् अत्रोदाहरणम्, तदाह-संवादविसंवादविवेकतः' इति । संवादविषयत्वात् संवादो बोधस्वभावः विसंवादो विरोधः, तद्विषयत्वात्तद्धर्मों संवादविसंवादौ अवधारणानवधारणस्वभावी, संवादविसंवादौ बोधनिष्ठौ निर्णयानिर्णय धर्मों तयोविवेकः तत्प्रत्यक्षेण निश्चयः तस्मात् सविकल्पाविनाभावीति । तथा च प्रयोगः-प्रत्यक्षम्
१ व्यावृत्तप्रत्ययस्य अनुवृत्तप्रत्ययादभिन्नत्वे अनुवृत्तप्रत्यये एव अवशिष्यमाणे । २-यप्रथमाद्विवचं पदे मा०,०, १०, स०।३ "प्रथमाद्विवचनम्"-ता. टि.। ४ एकवृत्तित्वरूपविशेषस्यापि । ५ प्रस्थे क्लुप्तपदेनेक -मा०, ब०, १०, स०। ६ अन्यतो व्यावृत्तिः। ७ भवन्ति वि-श्रा०, ब०,१०,स०। ८ अन्यतो व्यावृत्तिः। ९ अन्यतो व्यावृत्तौ । १० प्रत्यक्षेऽपि आ०, ब०, ५०, स० । ११ -र्णयौ धौ आ०, ब०,५०,०।