________________
न्यायविनिश्चयविवरणे
[ १४
अन्वयव्यतिरेकवद्वस्तुनिर्णयरूपं प्रत्यक्षत्वात् संशयप्रत्यक्षवत् । अन्वयवत्त्वच संशयवस्तुनो बोधरूपेण तस्य व्यतिरेकस्वभावव्यापित्वात्, व्यतिरेकवत्त्वञ्च निर्णयानिर्णयरूपाभ्यां तयोः परस्परतो व्यावृत्तेः । प्रसिद्धं चैतत्परस्यापि । तथा च संशयलक्षणसूत्रे' भोप्यम् - "तत्रायमूर्द्धतासामान्यविशिष्टस्य धर्मिणोऽवधारणं निर्णयः स्थाणुर्वा पुरुषो वेति विशेषानवधारणं ५ संशयः, एक एव प्रत्ययः ।" [ ] एकस्यावधारणानवधारणात्मकत्वानुपपत्तिरिति चेत्; दृष्टत्वादप्रतिषेधः । दृष्टमिदम् एकं ज्ञानं सामान्यविशिष्टस्य वस्तुनोऽवधारणं सद्विशेषानवधारणात्मकं यथा स्थाणुर्वा पुरुषो वेति । दृष्टस्य चापवो न युक्त इति । तन्न संशयप्रत्यक्षस्य साध्यविकलत्वम् ।
१२४
आदर्श मुखज्ञानप्रत्यक्षम् अत्रोदाहरणम् अनेनैव प्रतिपादितं पतिपत्तत्र्यम् । तत्रापि १० संवादनविपये मुखज्ञाने परस्परप्रत्यनीकतया विसंवादविषययोः सम्यङिमध्याप्रतिभासयोः तत्प्रत्यक्षेण निश्चयतः साध्यवैकल्यदोषानवकाशात् । प्रयोगश्चात्र - 'प्रत्यक्षम् अनुगमव्यतिरेकात्मकवस्तु निर्णयस्वभावं प्रत्यक्षत्वात् आदर्शमुखज्ञानप्रत्यक्षवत्' इति । 'आदर्श मुखज्ञानमनुगमव्यावृत्तरूपम्' इत्यविप्रतिपत्तिस्थानमेव वैशेषिकस्य । सम्यङ्प्रिध्याप्रतिभासयोः परस्परव्यावृत्तयोर्बोधात्मना तेन व्याप्तेः स्वशास्त्रप्रसिद्धत्वात् । तथा च " आत्मेन्द्रियार्थसन्नि १५ कर्षात्" इत्यादौ भाष्यम् - "तंत्रादर्शादिषु मुखम् ' 'अभिमुखं मुखम्' इति च भ्रान्तः प्रत्ययो मुखमित्येतावता सम्यक्” इति । ततः स्थितम् अनन्तरोक्तादनुमानात् परप्रसिद्धनिदर्शनबलोपहितात् प्रत्यक्षस्य विकल्पाविनाभावित्वनिश्चये तदेवोपवर्णितस्वभावं समक्षेतर सम्प्लवमवस्थापर्यंत प्रवादिनां विप्रतिपत्तिमलं प्रक्षालयितुं क्षमत इति । तन्न प्रत्यक्षस्य निश्चयात्मकत्वेऽपि प्रमाणान्तरशब्दान्तरवैफल्यम्, भावस्य सांशत्वेन प्रत्यक्षापरिच्छिन्नस्यापि तद्भागस्य २० तद्विषयत्वोपपत्तेः प्रत्युत निरंशवस्तुवादिनामेव तद्वैफल्यं विषयाभावात् प्रत्यक्षेणैव सर्वात्मना भावस्य परिच्छेदात् । न भावपरिच्छेदात् प्रमाणान्तरस्यानुमानस्य शब्दस्य वा साफल्यम् अपि तु समारोप व्यवच्छेदादिति चेत्; कोऽयं समारोपो नाम ? अतस्मिन् तदध्यवसायी विकल्प इति चेत्; ननु न तस्य निर्विकल्पकमेव रूपम् " अभिलापसंसर्ग" [ न्यायबि० पृ०१३] इत्यादिवचर्नस्य निर्विषयत्वप्रसङ्गात् । नापि विकल्पकमेव; “सर्वचित्तचैत्तानाम्’[न्यायवि० २५ पृ० १९] * इत्यादिवचनव्यापत्तेः । उभयरूपत्वे च तद्भेदेन तदात्मनो ज्ञानस्य भेदो वा स्यात्, अभेदो वा ? यद्यभेदः; तदानीम् अक्रमवत् क्रमेणापि सत्यपि विरुद्धधर्माध्यासे भावस्य कथनदेकत्वमविरुद्धं भवेत् । वक्ष्यते चैतत् - "विरुद्धधर्माध्यासेन स्याद्विरुद्ध' न सर्वथा ।" इति" ।
१ “सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः ।" - वैशे० सू० २।२।१७ । २ आत्रेयकृतम् । ३. "आत्मेन्द्रियार्थसन्निकर्षात् यन्निष्पद्यते तदन्यत् ।" - वैशे० सू० ३।१।१८ । ४ तत्रादर्शनादिआ०, ब०, प०, स० । ५ मुखमिदं च भ्रा-आ०, ब०, प०, स० । ६ यन् प्र-आ०, ब०, प०, स० । ७ प्रमाणान्तर शब्दान्तरविषयतोपपत्तेः । तद्विषयोप-आ, ब०, प० । ८ " अभिलापसंसर्गयोग्य प्रतिभासप्रतीतिः कल्पना”–न्यायबि॰पृ० १३ । ९ - पि निर्विक - आ०, ब०, प०, स० । १० " सर्वचित्तचेत्तानामात्मसंवेदनम् ( स्वसंवेदनम् ) " - न्यायबि० पृ० १९ । ११ न्यायवि० इलो० १२६ ।