________________
१५]
प्रथमः प्रत्यक्ष प्रस्तावः
तथा च तदेकत्वज्ञानम् अविपरीतार्थविषयत्वात् कथमध्यारोपः ? यतोऽनुमानात्तव्यवच्छेदः; तदभावे च कथं तस्यं प्रामाण्यम् ?
विरुद्धधर्माध्यासेऽपि निर्विकल्पेतरात्मना ।
तदात्मनश्चेद्बोधस्याभेद एव प्रतीतितः ॥ ३८२ ॥ तद्वदेव क्रमेणापि प्रतीतेरनुपद्रवात् ।
विरुद्धधर्माध्यासेऽपि भावैकत्वं न दुष्यति ॥ ३८३॥ एकत्वज्ञानमेवं चाविपरीतार्थगोचरम् । अध्यारोपः कथं यस्य व्यवच्छेदोऽनुमाबलात् ॥ ३८४ ॥ नाध्यारोपव्यवच्छेदान्नापि वस्तुग्रहात्ततः ।
प्रामाण्यमनुमानस्य स्याद्वादन्यायविद्विषाम् ॥ ३८५॥ एतदेवाह 'एक' इत्यादिना -
[ एकत्र निर्णयेऽनन्तकार्यकारणतेक्षणे । अतद्धेतुफला पोहे कुतस्तत्र विपर्ययः ॥ ५ ॥ ]
१२५
१०
एकत्र एकत्वे ''बुद्धेः' इति शेषः । भावप्रधानश्च निर्देशः । तस्मिन् किम् ? इत्याह- अनन्तकार्यकारणता । कारणं प्रमाणमित्यर्थः । " हेतुरपदेशो लिङ्गं निमित्तं १५ प्रमाणं कारणमित्यनर्थान्तरम्" [ वैशे० सू० ९।२।४ ] इति वैशेषिकाणां सूत्रदर्शनात् । कारणस्य भावः कारणता, प्रामाण्यमिति यावत् । तत्प्रतिषेधोऽकारणता प्रामाण्याभाव इत्यर्थः । कस्य ? अनन्तकारिणः । अन्तो विनाशः, प्रक्रमवशात् समारोपस्येति गम्यते, तं करोतीति शीलं तत्कारि न तत्कारि अनन्तकारि तस्य अनुमानस्येत्यर्थः । अनुमानप्रामाण्याभावसाधने साधनमेतत् द्रष्टव्यम् । तदयमर्थो भवति-न समारोपव्यवच्छेदेन प्रामाण्यमनु- २० मानस्य तत्र तस्यासाधकतमत्वात् । तदेव कस्मादिति चेत् ? व्यवच्छेद्यस्य समारोपस्यैवाभावात् । इदमेवाह - कुतस्तत्र विपर्ययः । तत्र बहिरन्तश्च भावेषु कुतः प्रत्ययात् विपर्ययः समारोपः, न कुतश्चित् एकत्वप्रत्ययस्य विपर्ययत्वेनाभिप्रेतस्य सम्यग्ज्ञानत्वादिति भावः । कदा न विपर्ययः ? इत्याह-निर्णये निश्चये । कस्येत्यपेक्षायां समक्षेत्यादिकमिह षष्ठयन्तमभिसम्बन्धनीयम् । तदयमर्थः - समक्षेतर सम्प्लवस्य समक्षस्य द्रव्यस्य इतरेषु पर्यायेषु समित्ये- २५ कत्वेन च प्लवस्य ज्ञानस्य निर्णय इति विकल्पा विकल्पाद्यक्रमपर्यायैकत्वज्ञानवत् क्रमभाविसुखदुःखादिनानापर्यायैकत्वज्ञानस्यापि तत्वज्ञानतया निश्वये नासौ समारोपः तदभावान्न तद्व्यवच्छेदेकत्वेनानुमानस्य प्रामाण्यमिति समुदायार्थः । तन्न द्वितीयो विकल्प उपपन्नः ।
१ अनुमानस्य । २ " एकत्र निर्णयेऽनन्तकार्यकारणतेक्षणे । अतद्धेतुफलापोहे कुतस्तत्र विपर्ययः ॥ इति वार्तिकेन" -ता० टि० । ३ बुद्धिरिति आ०, ब०, प०, स० । ४ - त्वादेव क - ता० । ५ - दरूपत्वेन आ०, ब०, प० स० ।