________________
न्यायविनिश्चयविवरणे
[ १५
भवतु तर्हि प्रथम एव विकल्पो बोधाकारभेदे बोधभेदस्यावश्यम्भावित्वादिति चेत्; तत्रापि न निर्विकल्पक भागस्य समारोपत्वं तस्य यथावस्थितस्वरूप संवेदनस्वभावत्वेन तत्त्वज्ञानत्वात् । तदभावे च कथं तद्द्व्यवच्छेदकत्वेनानुमानस्य प्रामाण्यम् ? एतदेवाह - ईक्षणे निर्विकल्पकज्ञानभागे । किम् ? अनन्तकार्यकारणतासमारोपव्यवच्छेदविकलस्यानुमानस्य न प्रामाण्यम् । ५ कुत इति चेत् ? कुतस्तत्र विपर्ययः विपर्ययाभावो यत इत्यर्थः । भवतु विकल्प भाग एव समारोप इति चेत्; कुतस्तस्य प्रतिपत्तिः ? अप्रतिपन्नस्य भावे अतिप्रसङ्गात्, ज्ञानत्वानभ्युपगमाश्च । स्वसंवेदनादिति चेत्; तदपि न निर्विकल्पकम् ; तस्य तस्मात्पृथक्कृतत्वात् । न हि पृथक्कृतं वेदनं स्वसंवेदनं नाम, अन्यवेदनाभावप्रसङ्गात् । अन्यत एव तस्य वेदनमिति चेत्; न; अन्यवेद्यत्वनियमे जडत्वप्रसङ्गात्, समसमयस्य अकारणत्वेनाविषयत्वाच्च । वेदनात् प्राच्यसमय १० एव विकल्पभाग इति चेत्; तदा तर्हि परिज्ञानशून्यस्य कथं बोधत्वम् ? स्वसंवेदनादिति चेत्; न; 'तदपि न निर्विकल्पकम्' इत्यादेः 'कथं बोधत्वम्' इति पर्यन्तस्य प्रसङ्गात् । पुनरपि स्वसंवेदनाद्बोधत्वमिति चेत्; न; अनवस्थावाहिनश्चक्रकस्य प्रसङ्गात् । कारणत्वेऽपि अतदाकारेण न तस्य वेदनम् ; साकारज्ञानवादस्य अनवसरत्वप्रसङ्गात् । आकारवत्त्वे तद्वेदनस्य पुनरपि विकल्पेतररूपत्वमेकस्य विज्ञानस्य प्राप्तम्, न चैतदुपपन्नम् उक्तदोषत्वात् । १५ पुनस्तदुभयाकारपृथक्काराभ्यनुज्ञाने तत्रापि 'न निर्विकल्पक भागस्य' इत्यादिकम् 'उक्तदोषत्वात्' इतिपर्यन्तमावर्त्तमानम् अनवस्थातरङ्गिणीमाकर्षतश्चक्रकस्योपनिपातकं भवेत् । तन्न स्वतस्तद्वेदनं निर्विकल्पकं यतस्तत्प्रतिपत्तिः, अप्रतिपन्नस्य समारोपस्यासत्त्वात् कथं तद्व्यवच्छेदकत्वेनानुमानस्य प्रामाण्यम् ? एतदेवाह - अतद्धेतु । तत् स्वसंवेदननिर्विकल्पकं धत्ते आत्मनि धारयतीति तद्भः तस्मादन्यः अतद्धः स्वसंवेदनप्रत्यक्षरहितो विकल्पभाग इत्यर्थः, तस्मिन् । तुशब्दः अपिशब्दार्थः, न केवलं दर्शनभागे किन्तु अतद्धेऽपि विकल्पभागे । किम् ? अनन्तकार्यकारणतासमारोपव्यवच्छेदविकलस्यानुमानस्य न प्रामाण्यम् । कुत एतदिति चेत् ? कुतस्तत्र विपर्ययः । विपरीतारोपो न कुतश्चिदप्यवगम्यत यत इत्यर्थ । विकल्पकमेव तर्हि तस्य स्वतो वेदनमिति चेत्; न तर्हि तत्प्रत्यक्षम्, कल्पनापोढस्य तत्त्वात्, अन्यथा लक्षणस्याव्याप्तिदोषापत्तेः । नाप्यनुमानम् ; विषयभेद् एव तद्भावात् । न चाप्रमाणात् प्रतिपन्नस्य प्रतिपन्नत्वं प्रमाणकल्पनावैयर्थ्यात् । अपि च, विकल्पभागो नामाभिजल्पयोग्य आकारः, तस्य च सामान्यरूपत्वेनावस्तुत्वात् कथं स्ववित्तिफलत्वम् ? अवस्तुनो निष्फलत्वात् । फलवत्त्वे वस्तुत्वापत्तेः । ततो न विकल्पकमपि तस्य स्वतो वेदनम् । अविदितस्य च असमारोपत्वात् कथं तदुद्व्यवच्छेदेनानुमानस्य प्रामाण्यम् । एतदेवाह - फलापोहे । फलमपोह्यते असम्बन्धित्वेन स्थाप्यते तस्मादिति फलापोहः सामान्याकारो विकल्पभागः तस्मिन् । किम् ? अनन्तकार्यका - ३० रणतासमारोपव्यवच्छेदरहितस्यै न प्रामाण्यम् ? कुत इति चेत् ? कुतस्तत्र विपर्ययो
१५
२०
१२६
१ ईचणे इति निर्विकल्पकभागे ज्ञान-आ०, ब०, प०, ज्ञानाविषयत्वात् । ३ चेत्तथा तर्हि आ०, ब०, प० । ४ - कत्वस्य वि-आ०, ब०, प०, स० । ५ -पि तन्निर्वि-आ०, ब०, प०, स० । ६ प्रत्यक्षत्वात् । ● - दोषोपपत्तेः ब०, प० । ८-स्य तत्प्रा-आ०, ब०, प० ।