________________
११५]
प्रथमः प्रत्यक्षप्रस्तावः
१२७ विपरीतारोपो न कुतश्चिन्निश्चीयते यत इत्यर्थः । सत्यम् ; विकल्पेतराकारयोर्वस्तुवृत्तेर्न नानात्वं विकल्पान्तरोपनीतं तु तदभेदमाश्रित्य समारोपास्तित्वमास्थीयत इति चेत् ; न ; विकल्पान्तरस्यापि प्राच्याद्दोषादसम्भवात् । तस्यापि विकल्पान्तरोपनीतत्वकल्पनायामनवस्थापत्तेः। तस्मात् समारोपव्यवच्छेदकारित्वेनानुमानं प्रमाणयता गृहीतेतरादिरूपेण वस्तु सांशमभ्युपगन्त. व्यम् , अन्यथा समारोपासम्भवेन तस्य तद्व्यवच्छेदकारित्वानुपपत्तेरिति 'एकत्र' इत्यादि- ५ वार्तिकतात्पर्यम् । अपि च, समारोपव्यवच्छेदो नाम तन्निवृत्तिमात्रम्, भावान्तरस्वभावो वा स्यात् ?
निवृत्तिमात्रं विच्छेदो यदि तस्योपकल्प्यते । तदा तत्करणान्मानमनुमानं कथं भवेत् ? ॥३८६॥ अन्यथा स्वापमूर्छादेर्मानत्वं केन वार्यते । ततोऽपि यत्समारोपनिवृत्तिर्न विशिष्यते ॥३८७॥ तेदाप्यारोपसद्भावाभ्यनुज्ञाने कथं भवेत् । चैतन्यशून्यस्वापादिप्रंवादस्त तात्त्विकः ॥३८८॥ तत्तृतीयं प्रमाणं ते भवेत्स्वापादिसब्जितम् । अचेतनत्वात् , यत्तस्य नान्तर्भावः प्रमाणयोः ॥३८९॥ प्रमाणसङ्ख्याव्याघातव्याघ्रादेवमनुद्रुतात् । 'कुर्वीथाः दुर्विदग्धस्त्वं कथमात्माभिरक्षणम् ? ॥३९०॥ भावान्तरं समारोपव्यवच्छेदो यदीष्यते । तदप्यज्ञानरूपं चेत किन्न स्वापप्रमाणता ॥३९१॥ स्वापादपि यदज्ञानं किञ्चिद्वस्तूपजायते । अज्ञानकरणाद्भेदस्तन्न स्वापानुमानयोः ॥३९२॥ "तत्त्वज्ञानस्वभावश्चेत्तत्रापि द्वैतकल्पनम् ।
तज्ज्ञानमनुमानं तत्, यद्वा तस्मात्परं भवेत् ? ॥३९३॥ अनुमानमेव तत्त्वज्ञानमिति चेत् ; अत्राह -
एकत्र निर्णयेऽनन्तकार्यकारणतेक्षणे ।
अतद्धतुफलापोहे कुतस्तत्र विपर्ययः॥५॥ इति । कुतः ? कस्मात् । तत्र तेषु भावेषु। विपर्ययो विपरीतारोपः ? न कुतश्चित् । स हि न तावनियतभावविषयः सम्भवति । कदा न सम्भवति ? इत्याह-'अनन्त' इत्यादि ।
-श्चीयत इ-आ०, ब०, ५०, स०।२ अनुमानस्य । ३ समारोपस्य । ४ तत्कारणात्मा- आ.ब., १०, स०।५ तदास्यारोप-भा०, ब०,५०। स्वापाद्यवस्थायाम् । ६ "गाढसुप्तस्य विज्ञान प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चितम् ॥"-प्र०वार्तिकाल. १४९। ७ बौद्धस्य । ८ कुवर्ता दुर्विदग्धस्तं भा०, ब.०,स.९ अज्ञानकारणा-आ०, ब०,१०,स। १. समारोपव्यवच्छेदात्मक भावान्तरं तत्वज्ञानरूपञ्चेत्, तदा विकल्पद्वयं भवति ।