________________
न्यायविनिश्चयविवरणे
[१/५
अन्तशब्दोऽत्रावधिवाची, स च द्विधा - पूर्वान्तः परान्तश्चेति । न विद्येते अन्तौ ययोस्ते अनन्ते, कार्य च कारणं च कार्यकारणे, पुनरस्य अनन्तशब्देन कर्मधारयः - परान्तरहितत्वात् अनन्तं कार्यम्, पूर्वान्तरहितत्वादनन्तं कारणम्, तयोर्भावोऽनन्तकार्यकारणता, अनादेः कारणप्रबन्धस्ये अनन्तस्य च कार्यप्रवाहस्य भाव इति यावत् । तस्या ईक्षणमनुमानम्, तस्या५ प्युक्तन्यायेन वस्तुविषयत्वात् ईक्षणव्यपदेशविषयत्वोपपत्तेः । यद्येवमीक्षणस्य विकल्पाविरोधात् भवत्येव सत्यपि तस्मिन् विपर्यय इति चेत्; अत्राह - निर्णये निश्चयात्मनि तदीक्षणे न निर्विकल्पे अनुमानस्य निर्विकल्पत्वाभावात् । प्रतिसमारोपं तद्वघवच्छेदकानुमानभेदाभ्युपगमेन यदि 'कुतस्तत्र विपर्ययः' इत्युच्यते, तदा सिद्धसाधनमिति चेत्; अत्राह - एकत्र एकस्मिंस्तदीक्षण इति । तदयमर्थः - यथा तदहर्जातप्रथमचित्तगोचरं कुतश्चिद् व्याहारादिविशेषाल्लिङ्गा१० दुपजायमानमनुमानं तच्चित्तस्वरूपस्य चेतनत्वस्य निश्चयात् तद्गतमचेतनत्व समारोपं व्यवच्छिनत्ति तथा खण्डशस्तन्निश्चयानङ्गीकारादन्यस्यापि तत्स्वरूपस्य हेतुमत्त्वसजातीयहेतुकत्व शरीराद्यनुपादानत्वादेस्तेनैव निश्चयात् अहेतुकत्वविजातीयहेतुकत्व शरीराद्युपादानत्वादिसमारोपाणामपि ततै एव व्यवच्छेदोपपत्तेः, यदुक्तम् - " आद्यं चित्तमहेतुकं न भवति कादाचित्कत्वात् घटवदि । तथा तच्चितं प्राक्तनचित्तप्रभवं चित्तत्वात् अवलग्नचित्तवदिति, तथा १५ यस्मिन्नविकृतेऽपि यद्विक्रियते न तत्तदुपादानं यथा गव्यविकृतेऽपि विक्रियमाणो गवयो नवोपादानः, विक्रियते चाविकृतेऽपि शरीरादौ चित्तम्" [ ] इति, तद्वदन्यदपि तथाविधमनुमानं तत्सर्वं व्यवच्छेद्याभावेन व्यवच्छित्तिफलविकलत्वादेनर्थकमेव । तथा तेन तस्य हेतुमत्त्वं निश्चिन्वता यदपेक्षमस्य हेतुमत्त्वं तदपि प्राक्तनं चित्त निश्चेतव्यम् । " तन्निश्चाभावे तदपेक्षस्य तद्धेतुमत्त्वस्य निश्चयायोगात् । तथा च स्वयमुक्तम्
२०
१२८
“द्विष्ठसम्बन्धसंवित्तिर्नेकरूपप्रवेदनात् ।
द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥” [ प्र० वार्तिकाल० १।१ ] इति ।
तदपि निश्चीयमानं हेतुमदेव निश्चीयते इति तद्धेतुभूतमपि प्राक्तनं चित्तं तेनैव निश्चेतव्यम् । एवं तावद्वक्तव्यं यावदनादिस्तद्धेतुप्रबन्धस्तेनैव निश्चितो भवति, तथा चादिमत्संसारसमारोपव्यवच्छेदस्यापि तत एव भावात् न तदर्थमनुमानान्तरे प्रयतितव्यमिति । एतद् २५ अपूर्वान्तकारणेक्षणग्रहणेन दर्शयति ।
१ - स्यानवसान -आ०, ब०, प०, स० । २ अनुमानस्यापि । ३ चित्तनिश्चय । ४ अनुमानेन । ५ अनुमानादेव । ६ द्रष्टव्यम् - प्र० वा० ३।३४ । ७ "तस्मात्सत्रादिविज्ञानं स्वोपादानबलोद्भवम् । विज्ञानत्वादिहेतुभ्य इदानीन्तनचित्तवत् ॥” -तत्वस० श्लो० १८९७ । ८ " अविकृत्य हि यद्वस्तु यः पदार्थों विकार्यते । उपादानं न तत्तस्य युक्तं गोगवयादिवत् ॥” -प्र० वा० १६१ | " यत्पुनर्वस्त्वविकृत्यैव यद्विकार्यते न तत्तदुपादानं यथा गवयमविकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेर निष्टाचरणादिना दुर्मनस्कृतादिलक्षणस्य विकारस्योपादानं क्रियते ।" - तश्वस० प० पृ०५२८ । ९- दनर्थमेव स० 1 १० आद्यचित्तस्य । ११ प्राक्तनचित्तनिश्चयाभावे । १२ तेनैवं नि-स० । १३ यावदनादिसद्धेतु-आ०, ब०, प०, स० ।