________________
११५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
१२९
तथा मरणचित्तस्य कुतश्चिदनुमानं यथा तच्चैतन्यं निश्चिन्वत् तदचेतनत्व समारोपं व्यवच्छिनत्ति, तदुक्तेन न्यायेन तदपरस्वरूपस्यापि भाविचित्तप्रतिसन्धायित्वादेस्तेनैव निश्वयात् तदप्रतिसन्धानादिसमारोपस्यापि तत एव व्यवच्छेदोपपत्तेर्न तदर्थ मन्त्यचित्तलक्षण समग्रकारण. लिङ्गोपनिबद्धप्रसवं भाविचित्तानुमानं स्वभावानुमानतया परैरभ्युपगम्यमानमर्थवत्तां प्रतिलभते, चित्तान्तरप्रतिसन्धायित्वमपि तेन तस्य निश्चिन्वता तदपि चित्तान्तरं निश्चेतव्यम् निश्चयमन्त- ५ रेण तत्प्रतिसन्धायित्वनिश्चयायोगात्, तदपि निश्चीयमानं तदपरचित्तप्रतिसन्धाय्येव निश्चीयत इति तत्प्रतिसन्धेयमपि चित्तं तेनैव निश्चेतव्यम्, एवं तावदभिधातव्यं यावदनन्तस्य प्रतिसन्धेयचित्तप्रबन्धस्य तेनैव निश्चयः कृतो भवति । तथा च संसारपर्यवसायसमारोपस्य तत एव व्यवच्छेदान्न तदर्थमनुमानान्तरमास्थातव्यम् इत्येतत् परान्तरहित कार्येक्षणग्रहणेन दर्शयति ।
ननु कारणात्समग्रादेव कार्यं न तद्विपरीतान्, ततः सम्भवत्यपि कार्यप्रबन्धस्ये पर्यव - १० सायः, तत्कथमपरान्तरहितत्वं तस्येति चेत्; न; तस्य पर्यवसायित्वे सन्तानावस्तुत्वस्य वक्ष्यमाणत्वात् । तन्नैकस्मिन् चित्तसन्ताने साफल्यमनुमानभेदस्य, तद्गतसकलसमारोपव्यवच्छेदस्यैकस्मादेव सिद्धत्वात् । सन्तानान्तरेषु साफल्यं तद्भेदस्येति चेत्; अत्राह - अतद्धेतुफलापोहे | हेतवश्च फलानि च हेतुफलानि तानि विवक्षितानि हेतुफलानि येषां ते तद्धेतुफला एकसन्तानक्षणाः । तदन्ये पुनः अतद्धेतुफलाः तेषामपोहः, अपोह्यन्ते ते येन सोऽपोहो निर्णयः १५ तदपोहस्तस्मिन् सति । कुतो न कुतश्चित् तत्र देषु सन्तानान्तरेषु विपर्ययो विपरीतारोपो यतः तद्व्यवच्छेदार्थमनुमानबहुत्वमिति । तात्पर्यमत्र - एको हि चित्तसन्तानः कुतश्चिदनुमानान्निश्चीयमानः तदपरभावापोहस्तत एव निश्चतत्र्यः तस्यें "तद्रूपत्वात् अपोहनिश्चयस्य चापोह्यनिश्चयाविनाभावात् एकानुमाननिश्चेयत्वं सर्वभावानां न्यायबलायातमित्येकानुमाननिश्चयादेव निरवशेषस्यापि " तत्तद्भावगतारोपनिकुरम्बस्य व्यवच्छेदान्न चिरं पर्यालोचयन्तोऽप्यनुमानभेदस्य साफल्य २० मुत्पश्यामः । तन्न तदेवानुमानं तत्त्वज्ञानं यत्समारोप व्यवच्छेदशब्दवाच्यं भवेत् । ननु अनुमानस्य समारोपव्यवच्छेदं प्रति कारणत्वात् " तस्मादर्थान्तरस्वमेवं (व) तत्कथं 'तद्वाऽनुमानं तद्वयवच्छेद:' इति विकल्पोत्थापनम्, तदभेद एवास्योत्थापनोपपत्तेरिति चेत् ? न; क्रियाकारकयोः प्रदीप-तमोऽपहारयोरिव अनर्थान्तरत्वस्य परं प्रत्यपि प्रसिद्धत्वेनादोपात् ।
"
यद्येवम् 'अन्यद्वा तत्त्वज्ञानं तद्वयवच्छेदः' इति विकल्पानुपपत्तिः, अन्यत्वे क्रियाका २५ रकभावस्यानुपपत्तेरिति चेत्; मा भूत् क्रियाकारकभावापेक्षया तद्विकल्पोत्थापनम्, कार्यकारणभावापेक्षया तस्योत्थापितत्वात् तद्भावस्य च भेद एव परं प्रति प्रसिद्धत्वात् ।
१ निश्चितत्वात् आ०, ब०, प०, स० । २ अनुमानात् । ३ बौद्धेः । "मरणक्षणविज्ञानं स्वोपादेयोदयक्षमम् । रागिणो हीनसङ्गत्वात् पूर्वविज्ञानवत्तथा ॥" - तवस० इलो० १८९९ । ४ मरणचित्तस्य । ५ कार्योत्पादसातत्यस्य । ६- तानसाफ-आ०, ब०, प०, स० । ७ अनुमानभेदस्य । ८-लानि विव-स० । ९-निवि-आ०, ब०, प०, स० । १० विवचितचित्तसन्तानस्य । ११ तदपरभावापोहरूपत्वात् । १२ - ह्यापो -आ०, ब०, प०, स० । १३ - निश्चयत्वम् स० । १४-नो ज्ञानबला - आ०, ब०, प०, स० । १५ - वगतस्यारो - आ०, ब०, प०, स० । १६ समारोपव्यवच्छेदात् । १७ बौद्धं प्रति। “क्रियाकरणयोरैक्यविरोध इति चेदसत् । धर्मभेदाभ्युपगमाद्वस्त्वभिन्नमितीष्यते ॥” - प्र ० वा ०२ । ३१८।
10