________________
१३० न्यायविनिश्चयविवरणे
[१०५ भवतु तर्हि तत्त्वज्ञानमन्यदेव तद्वयवच्छेद इति चेत् ; तदप्यनुमानान्तरम् , प्रत्यक्षं वा स्यात् ? अनुमानान्तरमिति चेत् ; न ; प्रथमानुमानापेक्षया तस्य विशेषाभावात् । इदमेवाह –'कुतस्तत्र विपर्ययः' इति । तत्र द्वितीयेऽनुमाने। कुतः ? न कुतश्चित् प्रथमानुम:ना. पेक्षया वैपरीत्यम् , तस्मादविशेष इति यावत्। निर्णयो विशेष इति चेत् ; न; 'तस्य प्रथमानुमा५ नेऽपि भावात् । तदाह-'एकत्र निर्णये' इति। एकत्र प्रथमानुमाने, गणनकाले प्रथमस्यैवैक
शब्देन व्यपदेशदर्शनात् । निर्णये निश्चये सति 'कुतः' इत्यादि सम्बन्धनीयम् । समारोपव्यवच्छेदो विशेष इति चेत् ; न; तस्यापि प्रथमानुमानेऽपि भावात्। तदाह-'अतद्धेतुफलापोहे'। अतद्धेतुफलशब्देन अध्यारोपितमाकारमाह-तस्यैव स्खलक्षणं प्रत्यहेतुत्वादफलत्वाञ्च तदपोहस्तद्व्यवच्छेदः तस्मिंश्च एकत्र सति 'कुतः' इत्याद्यभिसम्बन्धनीयम् ।
प्रथमस्यानुमानस्य द्वितीये चेदपेक्षणम् । अविशेषेऽपि तस्यापि तृतीये स्यादपेक्षणम् ।।३९४॥ चतुर्थे तस्य तस्यापि पञ्चमे पञ्चमस्य च ।
षष्ठे स्यादनवस्थानं कथमेवं निवृत्तिमत् ? ॥३९५॥ इदमेवाह-'अनन्तकार्यकारणतेक्षणे कुतस्तत्र विपर्ययः' इति । अनन्तस्य १५ अनवसानस्य अनुमानप्रबन्धस्य कार्यकारणता अपेक्ष्याऽपेक्षकता। सामान्यशब्दस्यापि प्रस्ताव
वशाद्विशेषेऽपि प्रवृत्तेः। तस्या ईक्षणमुक्तेन न्यायेन दर्शनम् , तस्मिन् सति, कुतस्तत्र परमतेऽनवस्थानस्य प्रस्तुतत्वात् तन्निवृत्तिः विपर्ययः ? तँन्न अनुमानान्तरमपि तत्त्वज्ञानं यत्समारोपव्यवच्छेदशब्दवाच्यं भवेत् ।
प्रत्यक्षमेव तर्हि तत्त्वज्ञानमिति चेत् ; तदप्यभ्यस्तात् , अनभ्यस्ताद्वानुमानात् भवेत् ? २० अनभ्यस्तादिति चेत् ; न ; एकानुमानप्रसवसमय एव व्याधूतसमारोपनिरंशक्षणिकवस्तुदर्शने
सति सकलप्रवृत्त्यादिव्यवहारविलयप्रसङ्गात् व्यवहारस्याध्यारोपनिबन्धनत्वात् । तदाह'एकत्र' इत्यादि । एकत्र एकस्मिन्ननभ्यस्ते निर्णयेऽनुमाने सति तत्कार्य यत् अनन्तकार्यकारणतेक्षणम् । अन्तोऽध्यारोपित आकारः । अभ्यते व्याप्यत्वेन गम्यते क्षणप्रबन्धो.
ऽनेनेति व्युत्पत्तेः, अनन्तं तद्रहितम् , तञ्च तत्कार्यकारणतयोपादानोपादेयतयोपलक्षितमीक्षणं च २५ दर्शनप्रवाहस्तस्मिन् कुतस्तत्र विवक्षिते विषये विविधं परि समन्तादयनं गमनं विपर्ययः
सर्वः संसारव्यवहार इत्यर्थः। कदैषः ? इत्यत्राह-अतद्धतुफलापोहे । तस्माद्विवक्षिताद्धेतोः फलं तस्याप्तिरापः तस्योहोऽभिनिवेशस्तदभावोऽतद्धेतुफलापोहः तस्मिन् सति । तात्पर्यमत्र
निर्णयस्य । २ तदा धेक-आ०,०,५०,०।३ कथमेव निवृ-आ,व०,१०,स। तस्यानु-आ०, -ब०, ५० स०।५-वस्तुसुद-आ०, २०, ५०, स०। ६ तस्योपोहाऽभि-आ०, ब०, ५०, स.।