________________
१२५]
प्रथमः प्रत्यक्षप्रस्तावः
क्षणिकत्वानुमानाच्चेद यासरहितादपि । एकत्वारोपनिर्मुक्तदर्शनप्रसवो भवेत् ॥३९६॥ आत्मदृष्टस्तैदा नाशानात्मस्नेहात्त (स्नेहस्त) दाश्रयः । तदभावे सुखार्थित्वं न भवेत्तन्निबन्धनम् ॥३९७॥ अनीक्षितसुखः कस्मादिदमस्मात्फलं भवेत् । इष्टमित्यभिसन्धत्ता यतस्तत्र प्रवर्त्तताम् ॥३९८॥ आद्य एव ततो मार्गे निर्वाणगमनं भवेत् ।
सकलक्लेशनिर्मुक्तज्ञानरूपं हि तत् मतम् ॥३९९॥ तन्न अभ्यासरहितादनुमानाद् व्याधूतविपरीतारोपं प्रत्यक्षमुपपन्नम् । अभ्यासवत उपपन्नमेवेति चेत् ; तदप्यस्मदादीनाम् , अस्मद्विशिष्टानां वा स्यात् ? अस्मदादीनामिति चेत् ; न ; १० अस्मदादिषु क्षणिकस्वलक्षणदर्शनानुपलक्षणात् । तदपि कस्मादिति चेत् ? अन्तर्बहिश्च यावज्जीवमेकत्वस्यैव निर्णयात् । तदाह-'एकत्र निर्णये कुतस्तत्र विपर्ययः' इति । एकत्रेति षष्ठ्यर्थमव्ययं भावप्रधानं च । एकत्वस्य बहिरन्तश्च निर्णये सति कुतस्तत्र भावेषु विपर्ययो विलक्षणपरिज्ञानम् ?
विलक्षणपरिज्ञानमेकत्वे निश्चिते कथम् ? । न हि नीलपरिज्ञानं निश्चिते पीतवस्तुनि ॥४००॥ अन्यथा सर्वविज्ञानं सर्वत्रैवं प्रसज्यते ।
सर्वसर्वज्ञतां तच्च निराबाधं प्रकल्पयेत् ॥४०१॥ मा भूदस्मदादीनां तदभ्यासजं स्वलक्षणप्रत्यक्षम् , अस्मद्विशिष्टानां तदस्त्येव तेषामनुमानाभ्यासप्रकर्षभाविनो निर्मूलितसमारोपसंस्कारस्य सर्वाकारवस्तुदर्शनस्यानुपद्रवादिति चेत् ; २० अत्राह-अनन्तकार्यकारणतेक्षणे अन्तको मृत्युः अर्यः स्वामी यस्य तत् अन्तकार्यम् उच्छेदवत् तदन्यत् अनन्तकार्यम् अनुच्छेद्यसन्तानम् अस्मद्विशिष्टानां वस्तुदर्शनम् , तस्य कारणमनुमानं तद्भवस्येक्षणे पर्यालोचने । तत्रोत्तरम् 'अतत्' इति । तदनन्तरोक्तं तदीक्षणं नेत्यर्थः। प्रसज्यप्रतिषेधे समासः कथम् असामादिति चेत् ? न ; 'अश्राद्धभोजिवत्' अविरोधात् । कुत एतदिति चेत् ? आह-हेतुफलापः, हेतोः कारणात् फलस्य प्रयोजनस्य आपः २५ निष्पत्तिः नान्यस्मात् तत्र तस्मिन् हेतुफलापे न्याय्ये सति विपर्ययः अहेतोरनुमानाभ्यासात् सर्वाकारवस्तुदर्शनफलापो भवन्मतः । कुतो न कुतश्चित् । हेशब्दः सम्बोधने । यथा च अनुमानाभ्यासः सर्वाकारवस्तुदर्शनस्य न कारणं तथा निवेदितं प्रथमकारिकाव्याख्याने, निवेदयिष्यते च तृतीये । तन्न निरंशवस्तुवादिनां समारोपव्यवच्छेदादपि प्रामाण्यमनुमानस्यो
दर्शनकाले । २ आत्मदर्शननिमित्तकः। ३ आत्मस्नेहमूलकम् । ४ निर्वाणम् । “तथा चोक्तम्चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥"-तरवस०प०पृ. १८४ । ५-रोपप्रत्य-आ०, ब०, ५०, स.। ६ नान्यतस्तत्र आ०, ब०, ५०, स०। ७ प्रस्तावे ।