________________
१३२
न्यायविनिश्चयविवरणे
[ ११५
पपन्नमिति साधूक्तम्- 'एकत्र ' इत्यादि । तस्मादनुमानस्य प्रामाण्यं वस्तुगोचरत्वादेव, तच्च सांशत्व एव भावानामुपपन्नम्, अतो न निश्चयरूपत्वेऽपि प्रत्यक्षस्य प्रमाणान्तरस्य शब्दान्तरस्य वा वैफल्यमिति स्थितम् ।
स्यान्मतम् - निश्चयो नाम विकल्पविशेषत्वात् सत्येव विकल्पे भवति, न च विकल्पकं ५ प्रत्यक्षं तत्र निर्विकल्पकत्वस्यैव प्रमाणोपपन्नत्वात्, तत्कथं तस्ये निश्चयात्मकत्वमिति ; तत्र किमिदं विकल्पकत्वं नाम ? वाचकशब्दविशिष्टतयार्थग्राहकत्वमिति चेत्; कः पुनर्वाचकः शब्दः स्वलक्षणरूपः, सामान्यरूपो वा ? स्वलक्षणरूपश्चेत्; तस्यापि वाचकत्वं स्वहेतुबलायातम्, साङ्केतिक वा ? स्वहेतुबलायातमिति चेत्; न; प्रथमश्रवण एव तद्वाचकत्वप्रतिपत्तिप्रसङ्गात् । सङ्केतादेव तद्वाचकत्वप्रतिपत्तिरिति चेत्; न; स्वलक्षणे सङ्केतासम्भवात् । अन्वयिनो १० हि शक्यसमयत्वं तत्र स्वयमुपलम्भस्य परं प्रत्युपदर्शनस्य च सम्भवात् । स्वयमुपलब्धे हि
पुनः परं प्रत्युपदर्शिते भवति 'अयमस्य वाचक:' इति सङ्केतः ? सङ्केतितस्य च व्यवहारोपयोगित्वम् । स्वयमुपलम्भादिश्च सत्येवास्वये ( वान्वये ) । न च स्वलक्षणस्यान्वय: ; क्षणक्षीणत्वेनाभ्युपगमात् । तन्न शब्दस्वलक्षणस्य हेतुबलप्रवृत्तं वाचकत्वं सङ्केतादवगम्यत इति युक्तम् । एतेन साङ्केतिकमपि तस्य वाचकत्वं प्रत्युक्तम् ; सङ्केतासम्भवे तदसम्भवात् । स्वतः १५ स्वलक्षणस्यै अवाचकत्वेऽपि वाचकशब्दसामान्यैकत्वेनाध्यवसायाद्वाचकत्वम्, अत एव इन्द्रियज्ञाने " न ह्यर्थे शब्दाः सन्ति तदात्मानो वा । येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन् " [ ] इति " तदाकारत्वमेव निषिध्यते तन्निर्विकल्पक तासाधनार्थम् । कथञ्चिदवाचकत्वे १९ ''दाकारत्वनिषेधेन ? सत्यपि 'तंत्र' तत्स्वलक्षणाकारत्वे विकल्पापत्तिभयाभावात् । अन्यथा रूपादिस्वलक्षणाकारत्वस्यापि निषेधप्रसङ्गात् ।
२०
इन्द्रियज्ञानवाचैवमुत्सन्ना सौगते मते ।
रूपाद्याकारनिर्मुक्तौ यन्न तस्यास्ति सम्भवः ॥ ४०२॥
तदयं लाभमिच्छतो मूलविनाश:, इन्द्रियज्ञानस्य निर्विकल्पकत्वं साधयितुमुपक्रान्तेन तस्यैवोन्मूलीकरणात् । " तत्सामान्याकारत्वस्यैव तत्र निषेध इति चेत्; कथं तर्हि धर्मोत्तरेण कथितम् - " इह च यतो व्यवहर्तारो दृश्यविकल्प्यावर्थावेकीकृत्य शब्दस्वलक्षणमेव वाचकम२५ ध्यवस्यन्ति तस्मात्स्वलक्षणमेव वाचकमङ्गीकृत्य तदाकारशून्यत्वान्निर्विकल्पकं प्रत्यक्षम्” [ ] इति ?
किञ्च" शब्दसामान्याकारवद् अर्थसामान्याकारस्यापि तत्र निषेधः कर्त्तव्यः, सति
१ प्रत्यक्षस्य । २ - हकमि स० । ३- वाचये स० । ४ स्वलक्षणस्य । ५-स्य वाच-आ०, ब०, प०, स० । ६ अर्थात्मानो वा शब्दाः । ७ अर्थे । ८ प्रभास -आ०, ब०, प०, स० । ९ इति वाक्येन । उद्धृतमिदम्--न्यायप्र०वृ० पृ० ३५ । १० शब्दाकारत्वमेव । ११ - कत्वासा - आ०, ब०, प०, स० । १२ सत्यप्येकत्वाध्यवसाये यदि खलक्षणस्य अवाचकत्वमेव न कथमपि वाचकत्वं तदा । १३ स्वलक्षणस्य । १४ इन्द्रियज्ञाने । १५ शब्दाकारत्व । १६ इन्द्रियज्ञाने । १७ अवाचकस्वलक्षणाकारत्वे । १८ वाचकशब्दगतसामान्याकारत्व । १९ किं श - भा०, ब०, प०, स० । २० इन्द्रियज्ञाने ।