________________
१५]
प्रथमः प्रत्यक्ष प्रस्तावः
तस्मिन्नर्थस्य वाच्यत्वेन प्रतिभासनात् तत्प्रतिभासस्य सविकल्पकत्वापत्तेः । अर्थसामान्या
कारोऽपि "तदनिर्देश्यस्य वेदकम्" [ ] इयनेन निषिध्यत इति चेत्; न; शब्दसामान्याकारस्यापि तेनैव निषेधात् ' न ह्यर्थे शब्दाः' इत्यादेर्वैयर्थ्यापत्तेः । अनेन हि शब्दसामान्याकारे निषिद्धेऽपि " शब्देनाव्यापूतीक्षस्य " [ ] इत्यादिकमर्थ सामान्याकारनिषेधायावश्यं वक्तव्यम् तेनैव च शब्दसामान्याकारस्यापि निर्देश्यत्वेन निषेधे सिद्धे "न ५
"
१३३
शब्दाः" इत्यादेर्न किञ्चित्फलमुत्पश्यामः, तन्न सामान्याकारस्यानेन निषेधः किन्तु स्वलक्षणाकारस्यैव वाचकसामान्यैकत्वेनाध्यवसितस्य, ततो वाचकस्वलक्षणसम्बद्धतया ग्रहणमेव विकल्पानां विकल्पत्वमिति कश्चित् ; सोऽपि न विपश्चित् ; श्रोत्रज्ञानस्यैवं सविकल्पकत्वापत्तेः । तस्य वाचकस्वलक्षणविषयत्वात् ।
त्वात्
अथ न तन्मात्रविषयत्वमेव विकल्पकत्वम् अपि तु तद्विशिष्टवाच्यग्रहणम्, १० न च श्रोत्रज्ञानं तद्विशिष्टवाच्यविषयमिति चेत्; न; वाचकग्रहणस्यैव तद्विशिष्टवाच्यग्रहणवाच्यरूपान व साये वाच्यवाचकयोरेकज्ञानस्यावाचकत्वस्यैवानवसायात्, न्यतरप्रतिपत्तिनान्तरीयकत्वात् । वाचकत्वमपि न श्रोत्रज्ञानवेद्यम् ; "शब्दस्य पूर्वापरीभावे " तदप्रवृत्तेः, तात्कालिक वस्तु गोचरव्यापाराद्धि श्रोत्रेन्द्रियात् तद्विषयस्यैव ज्ञानस्यो - त्पत्तेः । पूर्वापरीभूतस्य च शब्दस्य वाचकत्वं तत्रैव सङ्केतकरणादेः सम्भवादिति चेत्; १५ कथं तर्हि " तदपरेन्द्रियज्ञानानां वाचकविषयत्वम् ? तेषामपि तन्नास्ति पूर्वापरीभावे तेषामध्यप्रवृत्तेरिति चेत्; व्यर्थं तर्हि तत्र शब्दस्वलक्षणाकारनिराकरणम्, सत्यपि तदाकारत्वे वाचकस्वभावाग्रहणादेव विकल्पापत्तिभयप्रसङ्गस्य प्रतिक्षेपात् । सति तदाकारत्वे वाचकरूपे - मेव तदाकार मध्यवस्यन्तो व्यवहर्त्तारः प्रत्यक्षस्य " तद्विषयत्वमेव प्रतिपद्येरन्, अतस्तदभिप्रायनिषेधेन निर्विकल्पकत्वसाधनार्थम् इतरेन्द्रियज्ञानेषु शब्दस्वलक्षणाकारप्रतिक्षेपः; इत्यपि न चतुरम्; २० श्रोत्रज्ञानेऽपि तदाकारप्रतिक्षेपप्रसङ्गात् तत्रापि सति तदाकारे व्यवहर्त्तृजनस्य 'वाचक एव तदाकारस्तद्विषयमेव च प्रत्यक्षम्' इत्यभिसन्धानस्यावश्यम्भावात् । अप्रतिक्षिप्तेऽपि तदाकारे तत्र " तदभिसन्धानमेव प्रकारान्तरेण प्रतिषिध्यत इति चेत्; न; अन्यत्रापि" "तत एव तन्निषेधत्रसङ्गात् । किं वा तत्प्रकारान्तरम् ? प्रत्यक्षमिति चेत्; न; तत्र वाचकविषयत्वस्यैव व्यवहर्त्तारं
"
"
१ अर्थसामान्याकारे । २-भासनस्य आ०, ब०, प० । ३ वाक्येन । ४- ताकाङ्क्षस्य आ०, ब०, प०, स० । उद्धृतोऽयम् - " यच्छास्त्रम् - शब्देनाव्यापृताख्यस्य बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविवेति ।" -अपोहसि० पृ० ६ । "... अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम् ।" - सन्मति० टी० पृ० २६० । दृष्टाविव तच्छब्दाः कल्पितगोचराः ॥ " - हेतुबि ०टी० पृ० १०४ । ५ न ह्यर्थे शब्दाः सन्तीति वाक्येन । ६ सम्बन्धतया । आ०, ब०, प०, स० । ७-ल्पत्वम् आ०, ब०, प०, स० । ८ वाचक विशिष्टवाच्य । ९ - रीयत्वात् आ०, ब०, प०, स० । १० शब्दपूर्वा स० । ११ श्रोत्रज्ञानाप्रवृत्तेः । १२ चाक्षुषादीनाम् । १३ इन्द्रियज्ञाने । १४- पि निराका - आ०, ब०, प०, स० । १५ वाचकरूपत्वमेव आ०, ब०, प०, स० । १६ वाचकविषयत्वमेव । १७ तदपि सन्धा -आ०, ब०, प०, स० । १८ चक्षुरादीन्द्रियज्ञाने । १९ प्रकारान्तरादेव । २० चेन्न तस्य व्यवहारिणं प्रत्यसिद्धत्वात् न चासिद्धमसिद्धस्य व्यवहर्तारम् आ०, ब०, प०, स० ।