________________
१३४
न्यायविनिश्चयविवरण
[ श६ प्रति प्रसिद्धत्वात् । न हि तद्विषयादेव तद्विषयत्वप्रतिक्षेपः । सत्यम् ; अभिनिवेशमात्रात्तस्य तद्विषयत्वं वस्तुवृत्तमन्यथेति चेत् ; अन्यथा वस्तुवृत्तमित्यपि कुतः ? तत एव प्रत्यक्षादिति चेत्; न; प्रतिपादिताभिनिवेशाघ्रातात् तदसिद्धः। अन्यथाभूतादिति चेत् ; न; तस्य व्यवहारिणं
प्रत्यसिद्धत्वात् । न चासिद्धमसिद्धस्य साधनम् ; स्वयं सिद्धस्य अपरमसिद्धं प्रति साधनत्वो५ पपत्तेः । सकलविकल्पोपसंहारवेलायां सिद्धमेव तस्य तदिति चेत् ; न; तद्वेलाया विचारयिष्यमाणत्वात् । तन्न प्रत्यक्षं प्रकारान्तरम् । नाप्यनुमानम् ; तस्यापि प्रत्यक्षव्यापारानुसारिणः तदविषये प्रवृत्त्यसम्भवात् । तद्व्यापारनिरपेक्षत्वे तु तस्य॑ स्वयमेवासम्भवात् व्याप्तिपरि. ज्ञानस्य प्रत्यक्षाधीनत्वात् । अनुमानाधीनत्वे अनवस्थादोषस्य वक्ष्यमाणत्वात् । ततो यद्यपरे
न्द्रियज्ञानेषु शब्दस्वलक्षणाकारे तत्रैव व्यवहर्तुंर्वाचकरूपाभिनिवेशस्यावश्यम्भावात् 'तदाकार१० वतां तु ज्ञानानाम् अवश्यम्भाविनी विकल्पापत्तिः' इति भयात् तदाकारनिषेधे प्रयासः,
तर्हि श्रोत्रज्ञानेऽपि तत्प्रयासो विधातव्यः, तथा च विषयाभावे तदेव ज्ञानं न भवेत् । ततो न वाचकरूपाध्यवसायाधिष्ठितशब्दस्वलक्षणविशिष्टविषयपरिच्छेदो विकल्पलक्षणम् ; श्रोत्रज्ञानेन अतिव्यापित्वात् । तन्न शब्दस्वलक्षणस्य स्वभावतोऽन्यतो वा वाचकत्वं सम्भवति ।
मा भूत्तत्स्वलक्षणस्य वाचकत्वं तत्सामान्यस्यैव तदभ्युपगमात् , "तस्य देशकालभिन्न१५ व्यक्तयनुगमरूपत्वेन तत्र सङ्केतकरणादेव्र्यवहारविनियोगस्य च सम्भवादिति चेत् ; न; सामा
न्यस्य वस्तुभूतस्यानभ्युपगमात् । अपोहरूपमवस्तुभूतमभ्युपगम्यत एवेति चेत् ; कथमवस्तुनो वाचकशक्तिः यतस्तदविच्छिन्नविषयग्रहणं विकल्पः " स्यात् , तच्छक्तिभावे तदवस्तुत्वानुपपत्तेः । स्वलक्षणशक्तरारोपात् शक्तिमानेवाऽपोह इति चेत् ; न ; स्वलक्षणस्यापि वाचकशक्तरभा
वात् , तदुक्तदोषप्रसङ्गात्। शक्त्यन्तरस्यारोपेऽपि तत्प्रयोजनमेवापोहस्य स्यान्न विषयप्रतिपादनम्। २० अपि च, आरोपस्य विकल्पत्वेनावस्तुगोचरत्वात्, तदारोपितापि शक्तिरवस्तुरूपैवेति कथं
तद्वशादपोहस्य वाचकत्वम् ? आरोपितायामपि शक्तौ स्वलक्षणशक्तरारोपादिति चेत् ; न; 'स्वलक्षणस्यापि'इत्यादेरभ्यासाचे क्रकापत्तेरनवस्थानोपस्थानाच्च । तन्नापोहस्यापि वाचकत्वम् । ततः कथं वाचकविशिष्टविषयग्रहणं विकल्पलक्षणं वाचकस्यैवासम्भवात् ? एतदेवाह
अभिलापतदंशानामभिलापविवेकतः।
अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥ ६ ॥ इति ।
अभिलप्यतेऽनेनेत्यभिलापः शब्दसामान्यं तस्यैव साक्षाद्वाचकत्वेन परैरभ्युपगमात् । अंशा इवांशा विशेषाः । किं पुनरंशसादृश्यं विशेषाणामिति चेत् ? अधिकरणत्वमेव, अंशिनं "प्रत्यंशानामिव सामान्य प्रति विशेषाणामप्ये धिकरणत्वप्रसिद्धः। तस्यांशास्तदंशाः अभिलापश्च
प्रत्यक्षस्य ।२ वाचकविषयत्वम् ।३ व्यवहारिणः । ४ अन्यथाभूतम् अभिनिवेशशून्यं प्रत्यक्षम् । ५ प्रत्यचाविषये । ६अनुमानस्य ।७-रगतां आ०,०,५०1८ शब्दस्वलक्षणाकार ।९ श्रोत्रज्ञानमेव । ०शब्दसामान्यस्य । १५-ल्पस्य स्यात् आ०,ब०,१०,स. । १२ वाचकशक्तिसद्भावे । १३ अपोहशक्तिमानिति व्यपदेशमात्रमेव स्यात् । १४-क्रकोप-आ०,व०प०,स०१५ प्रत्यंगाना-आ०,व०प०, स० । १६ विशेषाणामधि-आ०,०, ५०,स० ।